सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 39, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 39

२८ आपस्तम्बधर्मसूत्रे [ (प.१.)कं.४.
प्रसह्य वा स्वयं निवर्तयेत् । पित्रादिभिर्वा निवर्तयेत् ॥ २७ ॥
अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न
स्वपितीति ॥ २८ ॥
यः पूर्वमाचार्यादुत्तिष्ठति प्रतिबुध्यते । जघन्यशब्दः पश्चादर्थे । जघ-
न्यश्च संविशति, तं ब्रह्मचारिणं न स्वपितीति धर्मज्ञा आहु । प्रयोजनमुप-
नयने 'मा सुषुप्था' इति संशासनस्यायमर्थः, न स्वापस्यात्यन्ताभाव
इति । अथशब्दश्च वाक्योपक्रमे ॥ २८ ॥
स य एवं प्रणिहितात्मा ब्रह्मचर्यत्रैवास्य सर्वाणि क-
र्माणि फलवन्त्यवाप्तानि भवन्ति यान्यपि गृहमेधे ॥२९॥
‘आचार्याधीनः स्या’ दित्यारभ्य यस्य नियमा उक्ताः, स ब्रह्मचारी,
एवमुक्तेन प्रकारेण, प्रणिहितात्मा प्रकर्षेण निहित आचार्यकुले स्थापित
आत्मा येन स तथोक्त. । प्रकर्षश्च(१)आत्मनस्तत्रैव शरीरन्यासः ।
वक्ष्यति (२)आचार्यकुले शरीरन्यासः ” इति । अस्यैवंविधस्य ब्रह्म-
चारिणः अत्रैव ब्रह्मचर्याश्रमे सर्वाणि फलवन्ति ज्योतिष्टोमादीनि कर्माण्य-
वाप्तानि भवन्ति । तत्फलावाप्तिरेव तदवाप्तिः । यान्यपि कर्माणि गृहमेधे
गृह्यशास्त्रे विवाहाद्यष्टकान्तानि, तान्यवाप्तानि भवन्ति । तदेवं नैष्ठिकब्र-
ह्मचारिविषयमिदं सूत्रम् ॥ २९ ॥
इत्यापस्तम्बीये धर्मसूत्रे चतुर्थी कण्डिका ॥ ४ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ(३) हरदत्तविरचितायामुज्ज्वलायां
प्रथमप्रश्ने प्रथमः पटलः ॥ १ ॥
१. आन्तात्तत्रैव शरीरन्यासः इति ख. पु. अन्ततस्तत्रैव, इति, घ. पु.
२. आप. ध. २. २१. ६. ३. हरदत्तमिश्रविरचितायां इति क० पु०