आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 35, कुल 399 में से
संदर्भ में पढ़ें२४ आपस्तम्बधर्मसूत्रे [ (प्र.१) कं ४.
किं पुनस्तत्-
यथा क्षारलवणमधुमांसानीति ॥ ६ ॥
यथेतिवचना'च्छ्रुतिविप्रतिषिद्ध'मिति लक्षणतः प्रतिषेधाच्च क्षारा-
दिग्रहणमेवंविधस्योपलक्षणम् ॥ ६ ॥
एतेनान्ये नियमा व्याख्याताः ॥ ७ ॥
अभ्यङ्गशेषो गन्धशेषो माल्यशेष इत्यादयो ब्रह्मचारिणः प्रतिषि-
द्धा आचार्येण न देया इत्युक्तं भवति ॥ ७ ॥
केचित्तु श्रुतिविप्रतिषिद्धमाचार्यशेषमुपयुञ्जाना दृश्यन्ते पूर्वः पूर्व
आचारः प्रमाणमिति वदन्तः । तान्निराकरोति-
श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ॥ ८ ॥
अनुमानाय प्रभवतीत्यानुमानिकः । आचाराद्धि श्रुतिः स्मृतिर्वाऽनु-
मीयते । तस्मादानुमानिकादाचारात्प्रत्यक्षश्रुतिर्बलीयसी । तद्विरोधे तु नानु-
मातुं शक्यते, (१) 'अनुमानमबाधितम्' इति न्यायात्। एव च ब्रुवता ब्रह्म-
चारिणः क्षारलवणादिप्रतिषेधः प्रत्यक्षब्राह्मणमूल इति दर्शितं भवति ।
यद्यपि क्षारादिप्रतिषेधश्रुतेरुच्छिष्टव्यतिरिक्तको विषयः सम्भवति तथापि
सङ्कोचोऽपि तस्या अविशेषप्रवृत्ताया आनुमानिकादाचारादयुक्तः॥ ८ ॥
ननु परस्परविरुद्धा अपि श्रुतय उपलभ्यन्ते (२) 'गृह्णाति, न गृह्णा-
ती'ति । तत्किमाचारात् सङ्कोचिका श्रुतिर्नानुमीयते ? अत आह-
दृश्यते चापि प्रवृत्तिकारणम् ॥९॥
स्यादेव यद्ययमाचारोऽगृह्यमाणकारणः स्यात् । गृह्यते तु तत्र कार-
णम् ॥ ९ ॥
किं तत् ?
प्रीतिर्ह्युपलभ्यते ॥ १० ॥
क्षारादिभोजने भुञ्जानस्य प्रीतिर्भवति । ततश्च यत्र प्रीत्युपलब्धित
१. अनुमानबाधित इति न्यायात, इति. क. पु
२. अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति. इति श्रुतिभ्यामेकस्मि-
न्नेवातिरात्रसंस्थाके ज्योतिष्टोमे षोडशिसंज्ञस्य ग्रहस्य ग्रहणाग्रहणयोः परस्परविरुद्धयोर्वि-
धानात् तयोरपि श्रुत्यो परस्परं विरोधादिति भावः । उलूखलाकार उपर्यासेचनवान्
पात्रविशेषो ग्रहः । खदिरवृक्षनिर्मितो ग्रहविशेषष्षोडशी । तस्य सोमरसेन पूरणं ग्रहणम् ।