आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 25, कुल 399 में से
संदर्भ में पढ़ें१४ आपस्तम्बधर्मसूत्रे [(प. १.) कं. २.
धीनताऽनुद्यते 'अन्यत्र पतनीयेभ्य' इति विशेषं वक्ष्यामीति। (१)पतनीय
इति करणे कृत्यप्रत्ययः। (२)अमुमरातिं ब्राह्मणमित्थं व्यापादयेत्याचार्येण
चोदितोऽप्येवमादि न कुर्यादिति ॥ १९ ॥
हितकारी गुरोरप्रतिलोमश्चाचा ॥ २० ॥
आचार्येण प्रयुक्तोऽप्यप्रयुक्तोऽपि तस्मै हितमेव कुर्यात्, वा-
चा (३)प्रातिलोम्यमकुर्वन् ॥ २० ॥
अधासनशायी ॥ २१ ॥
शयनं शायः। (४)'कृत्यल्युटो बहुल'मिति बहुलवचनात् घञ्।
अधः आसनशायो यस्य सः अधासनशायी। गुरुसन्निधावध आसीत अ
धश्शयीतेत्युक्त भवति। अधश्शब्दस्य सवर्णदीर्घश्छान्दसः, अपपाठो
वा। तृणेषु प्रस्तरेषु चासनशयने शिष्टाचारसिद्धे ॥ २१ ॥
नानुद्देश्यं भुञ्जीत ॥ २२ ॥
अनुद्देश्यं श्राद्धार्थं देवतार्थं वा उद्दिष्टं न भुञ्जीत ॥ २२ ॥
तथा क्षारलवणमधुमांसानि ॥ २३ ॥
न भुञ्जीतेत्येव। (५)क्षारादीनि गृह्ये गतानि ॥ २३ ॥
अदिवास्वापी ॥ २४ ॥
न दिवा स्वप्यात् ॥ २४ ॥
अगन्धसेवी ॥ २५ ॥
चन्दनादीनि गन्धद्रव्याणि न सेवेत ॥ २५ ॥
मैथुनं न चरेत् ॥ २६ ॥
उपचारक्रिया केली स्पर्शो (६)भूषणवाससाम्।
एकशय्यासनं क्रीडा चुम्बनालिङ्गने तथा ॥
इत्यादेस्सर्वस्योपलक्षणं मैथुनग्रहणम् ॥ २६ ॥
१. करणे प्रत्ययः इति क० पु० २. अस्मदरातिं इति ख० पु०
३. प्रातिकूल्य इति ख० पु० ४ पा० सू० ३. ३. ११३
५. क्षारपदार्थः आप. ध. २ १५. ११ सूत्रे व्याख्यास्यते।
६ भूषणवाससी. इति. क. पु.