आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 24, कुल 399 में से
संदर्भ में पढ़ेंब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३
त्रिभिर्वा ॥ १५ ॥
पादैरूनमिति प्रकरणाद्गम्यते । द्वादशवर्षाणि । प्रतिवेदं त्रीणि ॥१५॥
द्वादशावराध्यंम् ॥ १६ ॥
अवराध्यंशब्दोऽवरमात्रेत्येतस्मिन्नर्थे वर्तते । द्वादशवर्षाणि अवर-
मात्रा यथा भवति तथा ब्रह्मचारिणा गुरुकुले वस्तव्यम् । पूर्वेणैव सिद्धे
यो ब्रह्मचार्यतिमेधावितया चतुरोऽपि वेदानितोऽल्पीयसा कालेन गृह्णा-
ति तेनाप्येतावन्तं कालं गुरुकुले वस्तव्यम् । (१)'विद्यया स्नासी'त्यत-
स्मिन्नपि पक्षे नातित्वरितेन स्नातव्यमित्येवमर्थमिदमारभ्यते । एतेन
एकस्य वेदस्य त्रीणि वर्षाणि ब्रह्मचर्यमवश्य (२) भावीत्यर्थात्सिद्धम् ।
मनुरप्याह—
(३)षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैविद्यकं व्रतम् ।
तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ इति ॥
त्रयाणां वेदानां षट् त्रिंशत् ; एकैकस्य द्वादश । तदर्धिकं त्रयाणामष्टा-
दश; एकैकस्य षट् । पादिकं वा त्रयाणां नव, एकैकस्य त्रीणि । ग्रहणा-
न्तिकमेव वेति एकैकस्य त्रिभ्य ऊर्ध्वमनियमः, न प्रागित्यर्थो द्रष्टव्यः॥१६॥
न ब्रह्मचारिणो विद्यार्थस्य परोपवासोऽस्ति ॥ १७ ॥
ब्रह्मचारिविद्यार्थशब्दयोरर्थ उक्तः । यो ब्रह्मचारी विद्यार्थो भवति
न तेन दिवसमात्रमपि परस्य समीपे वस्तव्यम् । आचार्यस्य समीप
एव वस्तव्यमित्युक्तं भवति । विद्यार्थस्येति वचनात् नैष्ठिकस्य कदाचिद-
न्यत्र (४)वासेऽपि न दोषः । यद्वा भोजननिवृत्तिरेवोपवासः । परलो-
कार्थ उपवासः परोपवासः स विद्यार्थस्य न भवति । नैष्ठिकस्य तु(५) दोषः ।
अत्र पक्षे(६)'आहिताग्निरनड्वा'निति विद्यार्थब्रह्मचारिविषयम् ॥१७॥
अथ ब्रह्मचर्यविधिः ॥ १८ ॥
ब्रह्म वेदस्तदर्थं यद्व्रतं चरितव्यं तद्ब्रह्मचर्यं तदधिक्रियते ॥ १८ ॥
आचार्याधीनस्स्यादन्यत्र पतनीयेभ्यः ॥ १९ ॥
“आचार्याधीनो भवे”त्युपनयनान्ते यत् संशासनं तत्सिद्धैवाचार्या-
१. आप० ध १.३०.१. २. भावीत्ययमर्थस्सिद्धः । इति ख० पु०
३. मनु० स्मृ० ३. १ ४. वासो न दोषः इति क० पु०
५. न दोषः इति ख० पु० ६ आप० ध. २. ९ १३