सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 21, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 21

१० आपस्तम्बधर्मसूत्रे [(प्र. १.) क. २.
इच्छतामिति वचनान्न बलात्कारेण प्रायश्चित्तं कारयितव्यम् ॥ ३४ ॥
यथा प्रथमेऽतिक्रम ऋतुरेवं सम्वत्सरः ॥ ३५ ॥
यथा प्रथमेऽतिक्रमे ब्रह्मचर्यस्य ऋतु काल. एवमन्यस्मिन्नतिक्रमे संवत्सर-
कालः ॥ ३५ ॥
अथोपनयनम् ॥ ३६ ॥ तत उदकोपस्पर्शनम् ॥ ३७ ॥
गते ॥ ३६ ॥ ३७ ॥
इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने प्रथमा (१) काण्डका ।
प्रतिपूरुषं संख्याय संवत्सरान् यावन्तोऽनुपेताः स्युः ॥ १॥
यदि पितावानुपेतः ततस्संवत्सरमेकम् । अथ पितामहोऽपि, ततो
द्वौ । अथ स्वयमपि यथाकालमनुपेतः, ततः संवत्सरानिति ॥ १ ॥
अथोदकोपस्पर्शन मन्त्राः-
सप्तभिः पावमानीभि"र्यदन्ति यच्च दूरक" इत्येताभि
र्यजुष्पवित्रेण सामपवित्रेणाऽऽङ्गिरसेनेति ॥ २ ॥
पवमानः सोमो देवता यासां ताः (२) पावमान्यः । यजुष्पवित्रेण (३) 'आपो
अस्मान्मातरः शुन्धन्तु' त्यनेन, सामपवित्रेण 'कया नश्चित्र आभु
१. खण्डिका इति क. पुस्तके । खण्डः इति ख. पुस्तके । एवमेव प्रतिखण्डसमाप्ति ॥
२. यदन्ति यच्च दूरके भय विन्दति मामिह । पवमान वितज्जहि ॥ १ ॥
पवमानस्सोऽअद्य नः पवित्रेण विचर्षणि. । यः पोता स पुनातु नः ॥ २ ॥
यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनीहि नः ॥ ३ ॥
यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः । ब्रह्म सवै. पुनीहि नः ॥ ४ ॥
उभाभ्यां देव सवितः पवित्रेण सवेन च । मा पुनीहि विश्वतः ॥ ५ ॥
त्रिभिष्ट्व देव सवितर्वर्षिष्ठैः सोम धामभिः । अग्ने दक्षैः पुनीहि नः ॥ ६ ॥
पुनन्तु मां देवजनाः पुनन्तु वसवो धिया । विश्वे देवाः पुनीतन मा जात-
वेदः पुनीहि मा ॥७॥ (ऋ० सं० ७. २. १७, १८) इति सप्त पावमान्यः ॥
३. आपो अस्मान् मातरश्शुन्धन्तु घृतेन नो घृतपुव. पुनन्तु विश्वमस्मत्प्रवहन्तु
रिप्रम्" (तै.सं १ २.१.) इति यजु पवित्रम् । 'कया नश्चित्र आ भुवदूती सदावृधस्सखा ।
कया शचिष्ठया वृता' इत्यस्यामृचि गीयमान वामदेव्याख्यं साम सामपवित्रम् ॥