आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
१६४ आपस्तम्बधर्मसूत्रे [(प.९)क.२७.
यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणस्सेवमानः
चतुर्थकाल (१)उदकाभ्यवायी त्रिभिर्वर्षैस्तदप-
हन्ति पापम् ॥ ११ ॥
कृष्णो वर्ण शूद्रः। तमाज्ञाकरो भूत्वा वृत्त्यर्थं सेवमानः । शिष्टं स्पष्टं
गतं च । अपर आह—शूद्रां मैथुने सेवमान इति । अस्मिन्पक्षे
ऋतावुपगमने अपत्योत्पत्ताविदं द्रष्टव्यम् । मनुः--
(२)वृषलीफेनपीतस्य निश्वासोपहतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥' इति ॥ ११ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने सप्तविंशी कण्डिका ॥ २७ ॥
इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु-
ज्वलायां प्रथमप्रश्ने नवमः पटलः ॥ ९ ॥
१. उदकाभ्युपायी इति. छ. पु. २. म. स्मृ. ३. १९.
दशमः पटलः॥
यथा कथा च परपरिग्रहमभिमन्यते स्तेनो ह भवती-
ति कौत्सहारीतौ तथा काण्वपुष्करसादी ॥ १ ॥
(१)यथा कथा च आपद्यनापदि वा भूयांसमल्पं वा, परपरिग्रहं परस्व-
मभिमन्यते-ममेदमस्त्विति बुद्धौ कुरुते(२) सर्वथा स्तेन एव भवतीति
कौत्सादयो मन्यन्ते ॥ १ ॥
संत्यपवादाः परपरिग्रहेष्विति वार्ष्यायणिः ॥ २ ॥
वार्ष्यायणिस्तु मन्यते केषुचित्परपरिग्रहेषु स्तेयस्याऽपवादास्सन्तीति॥
तानेवोदाहरति-
शम्योषा युग्यघासो न स्वामिनः प्रतिषेधयन्ति ॥ ३ ॥
शमी बीजकोशी तस्यामुष्यन्ते दह्यन्ते कालवशेन पच्यन्ते इति
शम्योषाः कोशीधान्यानि मुद्गमाषचणकादीनि । युगं वहतीति युग्यः श-
कटवाही बलीवर्दः, तस्य घासो भक्षस्तृणादिः युग्यघासः । एते आदीया-
मानाः स्वामिनो न प्रतिषेधयन्ति स्वामिभिः प्रतिषेधं न कारयन्ति । एते-
ष्वादीयमानेषु स्वामिनो न प्रतिषेद्धुमर्हन्तीत्यर्थः । स्वयंग्रहणेऽपि न
स्तेयदोष इति यावत् । अत्र स्मृत्यन्तरे विशेषः-
‘चणकव्रीहिगोधूमयवानां मुद्गमाषयोः ।
अनिषिद्धैर्ग्रहीतव्यो मुष्टिरेकाऽध्वनि स्थितैः ॥’
मनुस्तु-
(३)‘द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके ।
आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥ ३ ॥
अतिव्यवहारो व्यृद्धो भवति ॥ ४ ॥
शम्योषादिष्वपि अतिव्यवहारो व्यृद्धो दुष्टो भवति, अतिमात्रापहारे स्ते-
यदोषो भवतीत्यर्थः ॥ ४ ॥
१. ‘कथा’ इति छान्दस रूप कथमित्यर्थ. । दृष्टं च “तमब्रुवन् कथा हास्था.” (तै.सं.
२.६.३.) “कथा मा निरभागिति” (तै.स.३.१.९) इत्यादौ ।
२. बुद्धौ कृत्वाऽऽदत्त इत्यर्थ , इत्याधिक क. छ. पु. ३. म. स्मृ. ८. ३४१.
१६६ आपस्तम्बधर्मसूत्रे [(प्र. १०) क. २८.
सर्वत्राऽऽनुमतिपूर्वमिति हारीतः ॥ ५ ॥
सर्वेषु द्रव्येषु सर्वास्ववस्थासु स्वाम्यनुमतिपूर्वमेव ग्रहणमिति हारीत
आचार्यो मन्यते ॥ ५ ॥
न पतितमाचार्यं ज्ञातिं वा दर्शनार्थो गच्छेत् ॥ ६ ॥
'न पतितैः संव्यवहारो विद्यत' (२१.५.) इत्युक्तेऽपि पुनरुच्यते-आ-
चार्यादिषु विशेषं वक्ष्यामीति ॥ ६ ॥
न चाऽस्माद्भोगानुपयुञ्जीत ॥ ७ ॥
अस्मात्पतितादाचार्यात् ज्ञातेर्वा पित्रादेः भोगान् भोगसाधनानि दा-
यप्राप्तान्यपि नोपयुञ्जीत न गृह्णीयात् ॥ ७ ॥
यदृच्छासन्निपात उपसंगृह्य तूष्णीं व्यतिव्रजेत् ॥ ८ ॥
यदि पतितैराचार्यादिभिर्यदृच्छया सन्निपातः सङ्गतिः स्यात् तदाऽवि-
घ्रिनोपसंगृह्य तूष्णीं तैस्सह किञ्चिदप्यसम्भाष्य व्यतिव्रजेत् गच्छेत् । न क्ष-
णमपि सह तिष्ठेत् ॥ ८ ॥
माता पुत्रत्वस्य भूयांसि कर्माण्यरभते तस्यां शुश्रूषा
नित्या पतितायामपि ॥ ९ ॥
पुत्रत्वस्य, स्वार्थिकस्त्वः । यथा 'देहत्वमेवान्य'दिति । पुत्रस्य कृते
माता भूयांसि दृष्टार्थानि गर्भधारणाशुचिनिर्हरणस्तन्यदानप्रदक्षिणन-
मस्कारोपवासादीनि कर्माणि करोति तस्मात्तस्यां पतितायामपि शुश्रूषा
अभ्यङ्गस्नापनादिका । नित्या नित्यमेव कर्तव्या ॥ ९ ॥
न तु धर्मसन्निवापः स्यात् ॥ १० ॥
एकस्मिन् धर्मे सहाऽन्वयो धर्मसन्निवापः । स पतिवया मात्रा सह
न कर्तव्यः । नामसुब्रह्मण्यायां मातुर्नामग्रहणम् । वरुणप्रघासेषु (१)या-
वन्तो यजमानस्याऽमात्याः सस्त्रीकास्तावन्त्येकातिरिक्तानी'त्येवमा-
दिकमुदाहरणम् । किं पुनरेवमादिषु मातुरन्वयः शुश्रूषा ? ओमित्याह ।
अन्विता हि सा सम्मता मन्यते । निरस्ता तु विमता । वैश्वदेवार्थे च
पाके सा न भोजयितव्या । मृतायास्तु तस्याः संस्कारादिकाः क्रियाः
कर्तव्याः नेति विप्रतिपन्नाः ॥ १० ॥
१. आप. श्रौ ८. ५. ४१. करम्भपात्रनिर्माणे संख्याविधिरयम् ।
पतनीयप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १५७
अधर्माहृतान् भोगाननुज्ञाय न वयं चाऽधर्मश्चेत्यभि
व्याहृत्याऽधो नाभ्युपरिजान्वाच्छाद्य त्रिषव-
णमुदकमुपस्पृशन्नक्षीराम्ललवणं भुञ्जा-
नो द्वादश वर्षाणि नाऽगारं
प्रविशेत् ॥ ११ ॥
ब्राह्मणस्वहरणम् ,
(१)चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥
इत्येवमादिकमुदाहरणम् । ये अधर्माहृता भोगास्ताननुज्ञाय परि-
त्यज्य 'न वयं चाऽधर्मश्चे'ति प्रैषं ब्रूयात् । तस्यार्थः-वयं चाऽधर्मश्च सह
न वर्तामह इति । अधो नाभित्यादि (२४.११.)गतम्। नात्राऽर्धशाणीपक्षो
भिक्षाचर्यं वा ॥ ११ ॥
ततस्सिद्धिः ॥ १२ ॥
एतस्य द्वादशवार्षिकस्याऽन्ते सिद्धिः शुद्धिर्भवति ॥ १२ ॥
अथ सम्प्रयोगस्स्यादार्यैः ॥ १३ ॥
प्रायश्चित्तोपदेशात् सिद्ध्युपदेशाच्च सिद्धे पुनर्वचनं 'ज्ञा-
नात्साम्यं तु गच्छती'त्यस्याऽपवादार्थम् ॥ १३ ॥
एतदेवाऽन्येषामपि पतनीयानाम् ॥ १४ ॥
उक्तव्यतिरिक्तानि यानि पतनीयानि पूर्वमुक्तानि तेषु यत्राऽऽदृत्य
प्रायश्चित्तं (२)नोक्तं तेषामप्येतदनन्तरोक्तमेव प्रायश्चित्तं वेदितव्यम् ।
उक्तविषये विकल्प इत्यन्ये । तत्र ज्ञानाज्ञानकृतो विकल्पः ॥ १४॥
गुरुतल्पगामी तु सुषिरां सूर्मिं प्रविश्योभयत
आदीप्याऽभिदहेदात्मानम् ॥१५॥
यस्तु गुरुतल्पगामी सोऽन्तःप्रवेशयोग्यां सुषिरां सूर्मिं कृत्वा प्रविशेत्
प्रविश्योभयतःपार्श्वयो(३)र्वह्निमादीपयेत् । आदीप्त्याऽऽत्मानमभिदहेत् । "ज्वलितां
वा सूर्मिं परिष्वज्य समाप्नुया (२५. २. )" दित्यत्रैव कियानपि
१. म. स्मृ. ११ १७६. २. अनुक्त. इति. क. ख. पु.
३. वह्निमिति नास्ति क. छ. पु.
१९८ आपस्तम्बधर्मसूत्रे [(प.१०)क.२८.
विशेषः । अनन्तरोक्तस्य वैकल्पिकस्य निवृत्यर्थं वचनम् ॥ १५ ॥
मिथ्यैतदिति हारीतः ॥ १६ ॥
हारीतस्त्वृषिर्मन्यते-एतदनन्तरोक्तं मरणांतिकप्रायश्चित्तं मिथ्या न
कर्तव्यमिति ॥ १६ ॥
कुत इत्यत आह-
यो ह्यात्मानं परं वाऽभिमन्यतेऽभिशस्त एव स
भवति ॥ १७ ॥
हिशब्दो हेतौ । यस्मात् य आत्मन परं वाऽभिमन्यते मारयति सोऽभि-
शस्त एव भवति ब्रह्महैव भवति । (१)न च पतनीयापनोदनं चिकीर्षु-
रन्यत् पतनीयं कर्तुमर्हतीति । हेत्वभिधानादभिशस्तवचनाच्चाऽन्ये-
षामपि मरणांतिकानां ब्राह्मणविषये निवृत्तिः ॥ १७ ॥
किं तर्हि तस्य प्रायश्चित्तमिति ? आह--
एतेनैव विधिनोत्तमादुच्छासाच्चरेन्नास्याऽस्मिँल्लोके
प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हण्यते ॥ १८ ॥
'अघोनाभ्युपरि जान्वि' (२८.११.) त्यादि यदनन्तरोक्तमेतेनैव विधिना ।
शिष्टं गतम् ॥ १८ ॥
दारव्यतिक्रमी खराजिनं बहिर्लोम परिधाय 'दारव्यति-
क्रमिणे भिक्षा'मिति सप्ताऽगाराणि चरेत्। सा वृत्तिः
षण्मासान् ॥ १९ ॥
(२) यस्तु अन्तरेणैव निमित्तं कौमारान् दारान् परित्यजति स दा-
रव्यतिक्रमी । खरस्य, गर्दभस्याऽजिनं बहिर्लोम परिधाय वासित्वा दारव्यति-
क्रमिणे भिक्षां दत्तेति सप्तागाराणि भिक्षां चरेत् । (३)कौमारदारपरित्यागिने
भिक्षां दत्ते'ति वासिष्ठे । (४)सा वृत्ति. षण्मासान् । ततः सिद्धिः ॥ ९ ॥
१ न च महापातकस्य ब्रह्महत्या प्रायश्चित्त भवितुमर्हतीति. क. पुस्तके.
२. धर्मप्रजादिकमन्तरेण कौमारान् दारान्' इति क ख. पु.
३ व घ. कौमारदारव्यतिक्रमिणे. इति. ख. पु. कौमारदारपरित्यागिने इति, क. पु.
४ षण्मासाद्धूर्ध्वं शुद्ध. इति. ग. पु. 'सा वृत्ति'रित्यादि पृथक्सूत्रं च ॥
भ्रूणहत्याप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६९
स्त्रियास्तु भर्तृव्यतिक्रमे कृच्छ्रद्वादशरात्रा-
भ्यासस्तावन्तं कालम् ॥ २० ॥
भर्तृव्यतिक्रम इति छान्दसो रेफलोपः । व्यतिक्रमः परित्याग । या
तु स्त्री भर्तारं परित्यजत्यन्तरेण निमित्तं, तस्यास्तावन्त कालं
षण्मासान् कृच्छ्रद्वादशरात्राभ्यासः प्रायश्चित्तम् ॥ २० ॥
अथ भ्रूणहा श्वाजिनं खराजिनं वा बहिर्लोम परि-
धाय पुरुषशिरः प्रतीपानार्थमादाय ॥२१॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्नेऽष्टाविंशी कण्डिका ॥२८॥
खट्वाङ्गं दण्डार्थे कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को
भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं प्रतिलभ्य शून्या-
गारं वृक्षमूलं वाऽभ्युपाश्रये'न्न हिम आर्यैः सह सम्प्रयो-
गो विद्यते ' । एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् ।
नाऽस्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्ह-
ण्यते ॥ १ ॥
षडङ्गस्य वेदस्याध्येता, तदर्थवित्, प्रयोगशास्त्रस्य सव्याख्यस्या
र्थवित् कर्मणामनुष्ठाताऽनुष्ठापयिता च ब्राह्मणो भ्रूणः । तथा च बौ-
धायनः—(१)'वेदानां किञ्चिदधीत्य ब्राह्मणः । एकां शाखामधीत्य श्रो-
त्रियः । अङ्गाध्याय्यनूचानः । कल्पाध्याय्यृषिकल्पः । सूत्रप्रवचनाध्यायी भ्रूणः'
इति। तं यो हतवान् स भ्रूणहा । स शुनः खरस्य वाऽजिनं बहिर्लोम परिधाय पुरुषस्य
यस्यकस्यचिन्मृतस्य शिरः, प्रतीपानार्थम् । प्रतिधार्त्वर्थानुवादः (२)'उपस-
र्गस्य घञ्यमनुष्ये बहुल'मिति बाहुलको दीर्घः । पानमेव प्रतीपानम् ।
पानग्रहणमुपलक्षणम् । भोजनमपि तत्रैव । खटाङ्ग दण्डार्थे, खट्वाया अङ्गं
खट्वाङ्गमीषादि तद्दण्डकृत्ये आदाय । 'भ्रूणहाऽस्मीत्येवं कर्मनिब
न्धनमात्मनो नामधेयं प्रब्रुवाणश्चङ्क्रम्येत इतस्ततश्चरेत् । कापालिकतन्त्रप्रसिद्ध-
स्य खटाङ्गस्य वा ग्रहणम् । भिक्षाचरणकाले च को भ्रूणघ्ने भिक्षां द-
१ बौधा. गृ. १. ११. २. पा. सू. ६. ३ १२२.
१६० आपस्तम्बधर्मसूत्रे [ (प्र. १०) क. २९
दातीति चरेत् । चरित्वा प्राप्ते प्राणवृत्तिं प्राणयात्रामात्रं प्रतिलभ्य शून्यागारं
वृक्षमूलं वा निवासार्थमभ्युपाश्रयेत्—‘न हि म आर्यैः सह सम्प्रयोगो विद्यत’ इत्येवं
मन्यमानः । कियन्तं कालमेवं चरितव्यमित्यत आह—एतेनैवेत्यादि ।
गतम् । ‘श्रोत्रियं वा कर्मसमाप्त(२४.२४.)’ मित्यत्र यः श्रोत्रियः (१)ग्र-
न्थधारी अर्थज्ञश्च न भवति अनुष्ठापयिता च न भवति तस्य ग्रहणम्॥१॥
यः प्रमत्तो हन्ति प्राप्तं दोषफलम् ॥ २ ॥
क्षत्रियं हत्वे'त्येवमादिकेऽनुक्रान्तेऽपि विषये यः प्रमत्तो हन्ति प्रमादे-
नाऽबुद्धिपूर्वं हन्ति तस्याऽपि दोषफल प्राप्तमेव । न तु प्रमादकृतमिति
दोषाभावः ॥ २ ॥
सह सङ्कल्पेन भूयः ॥ ३ ॥
सङ्कल्पेन सह वधे कृते भूयः प्रभूततरं भवति । तेन प्रमादकृते लघुप्रा-
यश्चित्तम् , बुद्धिपूर्वे तु गुर्विति । यत्पुनः पूर्वमुक्तं ‘दोषवच्च कर्माभि-
सन्धिपूर्वं कृत्वाऽनभिसन्धिपूर्वं वे(२६.७)’ ति तत्र तेषु प्रायश्चित्तेषु
विशेषाभावादिदमुक्तम् ॥ ३ ॥
एवमन्येष्वपि दोषवत्सु कर्मसु ॥ ४ ॥
अन्येष्वपि हननव्यतिरिक्तेषु दोषवत्सु कर्मसु एवमेव द्रष्टव्यम्—अबुद्धि-
पूर्वे कृतेऽल्पो दोष , बुद्धिपूर्वे महानिति ॥ ४ ॥
तथा पुण्यक्रियासु ॥ ५ ॥
पुण्यक्रियास्वप्येष एव न्यायः-अबुद्धिपूर्वेऽल्पं फलम्, बुद्धिपूर्वे महदिति।
तद्यथा--ब्राह्मणस्वान्यपहृत्य चोरेषु धावत्सु यदृच्छया कश्चिच्छूर
आगतस्तान् हन्यात्, स्वयमेव वा शूरं दृष्ट्वा चोरा अपहृतानि
द्रव्याण्युत्सृज्य पलायेरन् तदा शूरस्याऽल्पं पुण्यफलम् । यदा
तु बुद्धिपूर्वे स्वयमेव चोरेभ्यः प्रत्याहृत्य स्वानि स्वामिभ्यो ददाति तदा
महदिति । एवं स्वभार्याबुद्ध्या परदारगमनेऽल्पम्, अन्यत्र महदिति ॥५॥
परीक्षार्थोऽपि ब्राह्मण आयुधं नाऽऽददीत ॥ ६ ॥
गुणदोषज्ञानं परीक्षा । तया अर्थः प्रयोजनं यस्य सः । एवभूतोऽपि
ब्राह्मण आयुधं न गृह्णीयात् किं पुनर्हिंसार्थ इत्यपिशब्दार्थः ॥ ७ ॥
१. श्रुतिधारी इति. क. पु.
पतितधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६१
अस्य प्रतिप्रसवः—
यो हिंसार्थमभिक्रान्तं हन्ति मन्युरेव मन्युं स्पृशति
न तस्मिन् दोष इति पुराणे ॥ ७ ॥
यस्तु हिंसाथं मारणार्थमभिक्रान्तमभिपतितं हन्ति न तस्मिन् दोषो विद्यत
इति पुराणे श्रुतम् । दोषाभावे हेतुः—यस्मान्मन्युरेव मन्युं स्पृशति न पुनः
पुरुषः पुरुषम् । अत्र वसिष्ठबौधायनौ—
(१)स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् ।
न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति ॥ इति ।
मनुस्तु-
(२)शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते ।
द्विजातीनां च वर्णानां विप्लवे कालकारिते ।
आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे ॥
स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥' इति ॥
गौतमः-(३) प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीते'ति ॥
वसिष्ठः—
(४) अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥
आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा भवेत् ॥' इति ॥ ७ ॥
पतितैरकृतप्रायश्चित्तैरुत्पादितानां पुत्राणामपि पातित्यमस्तीति
प्रतिपादयितुं पूर्वपक्षमाह—
अथाऽभिशस्ताः समवसाय चरेयुर्धर्म्यमिति सांशिते-
तरेतरयाजका इतरेतराध्यापका मिथो विवाहमानाः ॥८॥
अथशब्दोऽर्थान्तरप्रस्तावं सूचयति । अभिशस्ता. पतिताः । समवसाय
चरेयुः । अवसानं गृहम् । समित्येकीभावे । ग्रामाद्वहिरेकस्मिन् प्रदेशे
गृहाणि कृत्वा चरेयुः । धर्म्यं धर्म्यं वक्ष्यमाणं वृत्तमिति । संशित्य सं
शितां तीक्ष्णां बुद्धिं कृत्वा । निश्चित्येत्यर्थः । इतरेतरं याजयन्तः । इत
रेतरमध्यापयन्तः परस्परं विवाहसम्बन्धं च कुर्वन्तश्चरेयुः वर्तेरन्निति ॥
१. व. ध. ३. १८, बौ १. १० १२ २ म स्मृ ८ ३४८, ३४९.
३. गौ. ध ७ २५ ४. व. ध. ३. १६, १७,
आप० ध० २१
१६२ आपस्तम्बधर्मसूत्रे [ (प.१०)क.२९.
पुत्रान् सन्निष्याय ब्रूयुर्विप्रजताऽस्मदेवं ह्यस्म-
त्स्वायास्सम्प्रत्यपत्स्यतेति ॥ ९ ॥
अथ ते पुत्रान् सन्निष्याय ब्रूयुः हे पुत्राः अस्मत् अस्मत्तः । विप्रव्रजत
विविधं प्रकर्षेण च स्नेहमुत्सृज्याऽऽर्यसमीपं गच्छत । एव ह्यस्मत्सु अस्मा
स्वायाः शिष्टाः सम्प्रत्यपत्स्यत । (१) 'आशंसायां भूतवच्चेति' भविष्यति
लुङ् । सकारात्परो यकारोऽपपाठश्छान्दसो वा । सम्प्रतिपत्तिं करिष्य
न्ति । आर्याणामप्येतदभिप्रेतं भविष्यति । यस्मादस्माभिरेव पतनीयं
कर्माऽनुष्ठितं न भवद्भिः । न च पतितेनोत्पादितस्य पातित्यम्, अन्य-
त्वात् ॥ ९ ॥
एतदेवोपपादयति -
अथाऽपि न सेन्द्रियः पतति ॥ १० ॥
न हि पतितो भवन् सहेन्द्रियेण पतति, पुरुष एव पतति, नेन्द्रियं
शुक्रमिति । अथापिशब्दावपि चेत्यस्यार्थे ॥ १० ॥
कथं न सेन्द्रियः पततीत्याह --
तदेतेन वेदितव्यमङ्गहीनो ऽपि साङ्गं जनयति ॥ ११ ॥
तदनन्तरोक्तमर्थरूपमेतेन वक्ष्यमाणेन निदर्शनेन वेदितव्यम् । चक्षुरा
द्यङ्गहीनोऽपि साङ्गं चक्षुरादिमन्तं जनयति, एवमधिकारविकलः साधिकारं
जनयिष्यति । स्त्रिया अपि कारणत्वात् तस्याश्च दोषाभावात् ॥ ११ ॥
दूषयति-
मिथ्यैतदिति हारीतः ॥ १२ ॥
एतदनन्तरोक्तमर्थरूपं मिथ्या न युक्तमिति हारीतो मन्यते ॥ १२ ॥
कुत इत्याह -
दधिधानीसधर्मा स्त्री भवति ॥ १३ ॥
दधि धीयते यस्यां सा दधिधानी स्थाली। तया सधर्मा सदृशी स्त्री भवति ॥
ततः किम् ?
यो हि दधिधान्यामप्रयतं पय आतञ्च्य मन्थति न
तेन धर्मकृत्यं क्रियेत एवमशुचि शुक्लं यन्निर्वर्तते न तेन
सह सम्प्रयोगो विद्यते ॥ १४ ॥
यो हि पुरुषः दधिधान्यां स्थाल्याम्, अप्रयतं श्वादुपहतम् , पय आतञ्च्य
१. पा. सू. ३ ३ १३२.
पतितधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६३
तक्राद्यातश्चनेन संस्कृत्य मन्थति न तेन तदुत्पन्नेन घृतादिना धर्मकृत्यं या-
गादिकं क्रियते । एवं पतितसम्बन्धेनाऽशुचि शुक्लं स्त्रियां निषिक्तं शोणि-
तेनाक्तं यन्निर्वर्तते येन रूपेण निष्पद्यते न तेन सह सम्प्रयोगो विद्यते
शिष्टानाम् । अत्र च 'शुचि शुक्ल' मित्येत 'दथापि न सेन्द्रियं पतती'
त्यस्य दूषणम् । न हि वाचनिकेऽर्थे युक्तय क्रमन्ते । तथा च समाना
यामप्युत्पत्तौ पुत्र एव पतति न दुहिता । तथाऽऽह वसिष्ठः-
(१)'पतितोत्पन्नः पतितो भवत्यन्यत्र स्त्रियाः । सा हि परगामिनी
तामरिक्थामुपेयात्' । इति ॥ १४ ॥
अभीचारा(२)नुष्याहारावशुचिकरावपतनीयौ ॥ १५ ॥
अभिचार एवाभीचारः । (३)'उपसर्गस्य घञी'ति दीर्घः । अभीचारः
श्येनादिः । अनुव्याहारः शापः । तौ ब्राह्मणविषयेऽपि क्रियमाणावशुचि-
करावेव, न तु पतनीयौ ॥ १५ ॥
पतनीयाविति हारीतः ॥ १६ ॥
हारीतस्तु तावपि पतनीयाविति मन्यते ॥ १६ ॥
पतनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान् द्वाद-
शाऽर्धमासान् द्वादश द्वादशाहान् द्वादश सप्ताहान्
द्वादश त्र्यहान् द्वादश द्वयहान् द्वादशाहं सप्ताहं त्र्यहं
द्वयहमेकाहम् ॥ १७ ॥
अशुचिकराणामपि कर्मणां येषामाहत्य प्रायश्चित्तं नोक्तं तेषामपि प-
तनीयेषु कर्मसु या वृत्तिः प्रायश्चित्तं सैव प्रायश्चित्तिः । कियन्तं काल-
म् ? द्वादश मासाद्येकाहान्तम् ॥ १७ ॥
किमविशेषेण सर्वेष्वेवाऽशुचिकरेष्वयं कालविकल्पः ? नेत्याह--
इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः ॥ १८ ॥
इत्येषोऽशुचिकरनिर्वेषो यथा कर्माभ्यासस्तथा वेदितव्यः । बुद्धिपूर्वे
सानुबन्धेऽभ्यासे च भूयांसं कालम्, विपरीते विपर्यय इति ॥ १८ ॥
॥ इत्यापस्तम्बसूत्रवृत्तौ प्रथमप्रश्ने एकोनत्रिंशी कण्डिका ॥ २९ ॥
इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु-
ज्वलाया प्रथमप्रश्ने दशमः पटलः ॥ १० ॥
१. व. ध. ३. २. अनुव्यवहार इति. क ३. पा. सू ६. ३ १२२.
अथैकादशः पटलः ॥
'न समावृत्ता वपेरन्' ( ८. ७. ) स्नातस्तु काल' ( १०.७. ) इत्यादिषु
प्रसक्तस्य स्नानस्य कालमाह--
विद्यया स्नातीत्येके ॥ १ ॥
वेदविद्या विद्या । तया सम्पन्नः स्नानं कुर्यादित्येके मन्यन्ते । मनुर-
त्याह--
(१)वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत्' ॥ इति ॥ १ ॥
तथा व्रतेनाऽष्टाचत्वारिंशत्परीमाणेण ॥ २ ॥
परिमाणमेव परीमाणम् । छान्दसो दीर्घः । अष्टाचत्वारिंशद्ग्रहणं
(२)'पादूनम्, अर्धेने' (२.१३,१४ ) त्यादिपूर्वोक्तस्याप्युपलक्षणम् । अष्टाच
त्त्वारिंशदादिपरिमाणेन व्रतेन (३)वा सम्पन्नः स्नायात् असम्पन्नोऽपि
विद्यया ॥ २ ॥
विद्या व्रतेन चेत्येके ॥ ३ ॥
विद्येति तृतीयैकवचनस्याकारस्य(४) 'सुपां सुलुक्' इत्यादिना
लुक् । विद्यया व्रतेन चोभाभ्यां सम्पन्नः स्नायादित्येके मन्यते । एवं च
(५)वेदमधीत्य स्नास्य' न्नित्यत्र वेदमधीत्येत्युपलक्षणम् । अत्र याज्ञ-
वल्क्यः--
(६)वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ।
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ॥' इति ।
१. म. स्मृ. ३ २.
२. पादूनम्, अर्धेन, त्रिभिर्वा' इत्येतेषा पूर्वोक्तानामुपलक्षणम् । इति. क. पु.
३ अथ ब्रह्मचर्यविधि 'इत्यारभ्य प्रपञ्चितेन समिदाधानभिक्षाचरणगन्धादिवर्जनादि-
रूपेण । अस्ति च तेषु व्रतशब्द. 'यथा व्रतेषु समर्थः स्यात्तथानि वक्ष्यामः” इति । इह तु
समुदायाभिप्रायमेकवचनम् । तेन वा व्रतेन सम्पन्नस्स्नायात् । असम्पन्नोऽपि विद्यया ।
'चत्वारि वेदव्रतानी' त्येषां तु ग्रहणमत्र नाऽऽशङ्कनीयम् । यथोक्तं विश्वरूपे । इत्यधिकः
पाठो ग. पु.
४. पा सू. ७ १. २९ ५. आप गृ १२. १. ६ याज्ञ स्मृ. १. ५२.
स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६५
- अत्र व्रतशब्देनाऽग्नीन्धनभैक्षाचरणादयो ब्रह्मचारिधर्मा उच्यते ।
तेषु हि कालपरिमाणस्य श्रुतत्वात् पारं नीत्वेति युज्यते । दृश्यते च
तेषु व्रतशब्दः । 'यथा व्रतेषु समर्थस्स्याद्यानि वक्ष्याम इति । न तु
सावित्र्यादीनि वेदव्रतान्युच्यन्ते । तेषां तत्तत्प्रदेशाध्ययनशेषतया त-
दभावेऽभावाद्शेदं व्रतानि वेति विकल्पानुपपत्तेः । अतः कालविशे-
षावच्छिन्नानि व्रतानि वेदमुभयं वा पारं नीत्वेत्यर्थः * ॥ ३ ॥
तेषु सर्वेषु स्नातकवद्वृत्तिः ॥ ४ ॥
विद्यास्नातको व्रतस्नातक उभयस्नातक इति त्रयः स्नातका उक्ताः
तेषु सर्वेषु स्नातकवत् 'तदर्हती'ति वतिः । स्नातकार्हा वृत्तिः पूजा(१) य-
त्राऽस्मा अपचिति' मित्यादिः कार्या । न तु व्रतस्नातके न्यूना, उभयस्ना-
तकेऽधिकेति ॥ ४ ॥
यद्यप्येवं तथाऽपि पूजयितुः फलविशेषोऽस्तीत्याह--
समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायां फलविशेषः ॥५॥
कर्तव्येषु कर्मस्ववधानं समाधि । श्रुति श्रुतम् ॥ ५ ॥
अथ स्नातकव्रतानि ॥ ६ ॥
इत उत्तरं स्नातकव्रतान्यधिकृतानि वेदितव्यानि । यद्यपि वक्ष्यमाणे-
षु कानिचित् साधारणान्यपि भवन्ति तथाऽपि भूम्ना स्नातकव्रतान्य-
धिक्रियन्ते ॥ ६ ॥
पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि शीलयेदुत्तरेण वा ॥७॥
यदा ग्रामान्निष्क्रामति ग्रामं वा प्रविशति तदा पूर्वेण द्वारेणोत्तरेण
वा कुर्यात्, न द्वारान्तरेण । शीलयेदिति वचनाद्यदृच्छया द्वारान्तरेण
निष्क्रमणप्रवेशनयोरपि न प्रायश्चित्तम् ॥ ७ ॥
सन्ध्योश्च बहिर्ग्रामादासनं वाग्यतश्च ॥ ८ ॥
अहोरात्रयोः सन्धानं सन्धिः । तौ च द्वौ-सायं प्रातश्च । (२)सज्यो-
तिष्याज्योतिषोऽदर्शनात्' इति गौतमः । तयोस्सन्ध्ययोर्ग्रामाद्बहिरासीत । - एतच्चिन्हान्तर्गतो भोगोऽधिकपाठतया परिगणित ख पुस्तके । ग. पुस्तके
नास्ति पाठः । अन्यत्र तु यथायथमस्ति ।
१. आप. गृ. १३. २.
२. गौ. २. ११, 'सज्योतिषि' इत्यादि 'गौतम' इत्यन्तं नास्ति छ. पु.
१६६ आपस्तम्बधर्मसूत्रे [(प.१०)क.३०.
वाग्यतश्च भवेत् । मनुः पुनराह—
(१)पूर्वां सन्ध्यां जपस्तिष्ठेत् सावित्रीमाऽर्कदर्शनात् ।
पश्चिमां तु समासीत सम्यगृक्षविभावनात् ॥' इति
(२)'तिष्ठेत् पूर्वामासीतोत्तराम्, इति गौतमः । एते ब्रह्मचारिविषये ।
स्नातके आसनस्य वाङ्नियमस्य चाऽत्र विधानात् ।
अन्ये तु-आसनग्रहण स्थानस्याऽप्युपलणम्, वाग्यमश्च लौकिक्या
वाचो निवृत्तिः, न सावित्रीजपस्येति वर्णयन्ति ॥ ८ ॥
आहिताग्निविषयेऽस्याऽपवादः—
विप्रतिषेधे श्रुतिलक्षणं बलीयः ॥ ९ ॥
विरोधो विप्रतिषेध अग्निहोत्रिणो बहिरासनमग्निहोत्रहोमश्च विरु
ध्येते । तथा च श्रूयते-‘समुद्रो वा एष यदहो रात्रः, तस्यैते गाधे तीर्थे
यत्सन्धी तस्मात् सन्धौ होतव्यम्” इति । तत्र श्रुतिलक्षणमग्निहोत्रमेव
कर्तव्यम्, न स्मार्त्तं बहिरासनम् । तस्य कल्प्यमूलत्वादितरस्य च
क्लृप्तमूलत्वादिति । (३)जैमिनिरप्याह--(४)विरोधे त्वनपेक्षं स्यादसति
ह्यनुमानमिति ॥९॥
सर्वान्रागान्वाससि वर्जयेत् ॥ १० ॥
कुसुम्भादयस्सर्वे रागाः वाससि वर्जनीयाः, न केनचिद्रक्तं वासो
बिभृयादिति ॥ १० ॥
कृष्णं च स्वाभाविकम् ॥ ११ ॥
यच्च स्वभावतः कृष्णं कम्बलादि तदपि न वसीत ॥ ११ ॥
अनूद्भासि वासो वसीत ॥ १२ ॥
उद्भासनशीलमुद्भासि उद्बणम् । ततोऽन्यदनूद्भासि । छान्दसो
दीर्घः । एवम्भूतं वासो वसीत आच्छादयेत् ॥ १२ ॥
अप्रतिकृष्टं च शक्तिविषये ॥ १३ ॥
प्रतिकृष्ट निकृष्टं जीर्णे मलवत् स्थूलं च । तद्विपरीतमप्रतिकृष्टम् ।
तादृशं च वासो वसीत शक्तौ सत्याम् ॥ १३ ॥
१. म. स्मृ. २ १०१ २. गौ. ध २. ११.
३. इत्यादि नास्ति. छ. पु. ४. जै सू १. ३. ३.
[स्नानकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः। १६७
दिवा च शिरसः प्रावरणं वर्जयेन्मूत्रपुरीषयोः
कर्म परिहाप्य ॥ १४॥
चकारः पूर्वापेक्षया समुच्चयार्थः । दिवा शिरसः प्रावरणं पटादिना
न कुर्यात् । किमविशेषेण ? नेत्याह—मूत्रपुरीषयोः कर्म क्रियां परिहाप्य
वर्जयित्वा ॥ १४ ॥
शिरस्तु प्रावृत्य मूत्रपुरीषे कुर्यात् भूम्यां किञ्चिदन्तर्धाय ॥
दिवा रात्रौ च मूत्रपुरीषे कुर्वन् शिरः प्रावृत्य कुर्यात् । भूम्या किञ्चिदन्त-
र्धाय तृणादिकम्, न साक्षात् भूम्यामेव । इह कामचारे प्राप्ते 'दिवा च
शिरसः प्रावरणं वर्जये' दित्युक्तम् । तस्य पर्युदासः कृतः-'मूत्रपुरी-
षयोः कर्म परिहाप्ये' ति । तत्र मूत्रपुरीषकाले स एव कामचारः स्थि-
तः। अत आरभ्यते-शिरस्तु प्रावृत्येति । एव तर्हिदिमेवाऽस्तु । न पूर्वः
पर्युदासः । सोऽप्यवश्यं कर्तव्यः । अन्यथा 'शिरस्तु प्रावृत्ये'त्यस्य
रात्रौ चरितार्थत्वात् दिवा प्रतिषेध एव स्यात् । गौतमस्तु रात्रौ सदैव
प्रावरणमाह(१) 'न प्रावृत्य शिरोऽहनि पर्यटेत्, प्रावृत्य रात्रौ,
मूत्रोच्चारे चे'ति ॥ १५ ॥
छायायां मूत्रपुरीषयोः कर्म वर्जयेत् ॥ १६ ॥
'न चोपजीव्यच्छायास्वि'ति स्मृत्यन्तरे दर्शनात् यस्यां पथिका-
दयो विश्राम्यन्ति सा गृह्यते । तेन छत्रच्छायादेरप्रतिषेधः मेघच्छा-
याया अप्यप्रतिषेधः, अवर्जनीयत्वात् ॥ १६ ॥
स्वां तु छायामवमेहेत् ॥ १७ ॥
छान्दसस्तुगभावः । द्वितीयाश्रुतेः प्रतिशब्दाध्याहारः । अवमेहनं
मूत्रकर्म । अनुपजीव्यत्वान्नायं पूर्वस्य प्रतिषेधस्य विषय इति प्रतिप्रस
वोऽयं न भवति । तेन सति सम्भवे स्वामेव छायां प्रत्यवमेढव्यम् ॥१७॥
(२) न सोपानन्मूत्रपुरीषे कुर्यात् ॥ १८ ॥ कृष्टे ॥ १९ ॥
पथि ॥२०॥ अप्सु च ॥२१॥ तथा(३)ष्ठेवनमैथुनयोः कर्मा-
१. गौ. ध. ९. ३५, ३६, ३७
२ एतदादि 'कर्म वर्जये'दित्यन्तमेकसूत्रतया परिगणितं ख. पुस्तके । सूत्रद्वादश-
कतया छेदः कृतः क० पु० ३ ष्ठीवन इति. ख पु.
१६८ आपस्तम्बधर्मसूत्रे [(प.११)क.३१.
ऽप्सु वर्जयेत् ॥२२॥ अग्निमादित्यमपो ब्राह्मणं गा देव-
ताश्चाऽभिमुखो मूत्रपुरीषयोः कर्म वर्जयेत् ॥ २३ ॥
स्पष्टानि चत्वारि । ष्ठेवनमास्यश्लेष्मादीनामुत्सर्गः । देवताः देवता
प्रतिमाः ॥ १८-२३ ॥
अश्मानं लोष्टमार्द्रानोषधिवनस्पतीनूर्ध्वानाच्छिद्य
मूत्रपुरीषयोः शुन्धने वर्जयेत् ॥ २४ ॥
फलपाकावसाना ओषधयः । ये पुष्पैर्विना फलन्ति ते वनस्पतय ।
'आर्द्रा' निति वचनात् शुष्केषु न दोषः । 'ऊर्ध्वा'निति वचनाद्वातादि-
निमित्तेन भग्नेषु न दोषः । 'एतैरश्मादिभिर्मूत्रपुरीषयोश्शोधनं न कुर्यात् ॥
अग्निमादित्यमपो ब्राह्मणं गा देवताद्वारं प्रति पादं
च शक्तिविषये नाऽभिप्रसारयीत ॥ २५ ॥
शक्तौ सत्यां अग्न्यादीन्प्रति पादौ न प्रसारयेत् ॥ २५ ॥
अथाऽप्युदाहरन्ति ॥ २६ ॥
॥ इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने त्रिंशी कण्डिका ॥ ३० ॥
प्राङ्मुखोऽन्नानि भुञ्जीतोच्चरेद्दक्षिणामुखः ।
उदङ्मुखो मूत्रं कुर्यात्प्रत्यक्पादावनेजनमिति ॥ १ ॥
उच्चारः पुरीषकर्म । पादावनेजनं पादप्रक्षालनम् । भोजनादिषु चत
स्रो नियम्यन्ते । मनुस्तु—
(१)'आयुष्यं प्राङ्मुखो भुंक्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुञ्क(२) ऋतं भुङ्क्ते उदङ्मुखः'॥ इति।
याज्ञवल्क्यश्च—
(३)'दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ॥' इति ॥ १ ॥
आराच्चाऽऽवसथान्मूत्रपुरीषे कुर्याद्दक्षिणां दिशं
दक्षिणापरां वा ॥ २ ॥
१. म. स्मृ. २. ५२. २. ऋत सत्यं, तत्फलमिच्छन् । ३. या स्मृ. १. १६.
स्नातकधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६९
आवसथो गृहम् । तस्य दूरतो मूत्रपुरीषे कुर्यात्, दक्षिणां दिशम् । द्वि-
तीयानिर्देशादभिनिष्क्रम्येति गम्यते । दक्षिणापरा नैर्ऋती ॥ २ ॥
अस्तमिते च बहिर्ग्रामादारादावसथाद्वा
मूत्रपुरीषयोः कर्म वर्जयेत् ॥ ३ ॥
अस्तमित आदित्ये बहिर्ग्रामान्मूत्रपुरीषे न कुर्यात् । तथा अन्तर्ग्रामेऽपि
गृहस्य दूरतो न कुर्यात् । दृष्टार्थोऽयं प्रतिषेधश्चोरव्याघ्रादिशङ्कया ।
निर्भये देशे नाऽस्ति दोषः ॥ ३ ॥
देवताभिधानं चाऽप्रयतः ॥ ४ ॥
देवतानामग्न्यादीनामभिधानं चाऽप्रयतस्सन् वर्जयेत् । (१)अपिधानमि-
त्यपि पाठे एष एवार्थः ॥ ४ ॥
परुषं चोभयोर्देवतानां राज्ञश्च ॥ ५ ॥
देवतानां राज्ञेश्चोभयोः । राज्यपेक्षया द्विवचनम् । परुषं निन्दां
वर्जयेत् ॥ ५ ॥
ब्राह्मणस्य गोरिति पदोपस्पर्शनं वर्जयेत् ॥ ६ ॥
ब्राह्मणं गां च पादेन नोपस्पृशेत् । इतिशब्दः प्रकारे । तेन विद्यावयो-
वृद्धानामब्राह्मणानामपि वर्जनम् ॥ ॥ ६ ॥
हस्तेन चाऽकारणात् ॥ ७ ॥
कारणमभ्यङ्गकण्डूयनादि । तेन विना हस्तेनाऽप्युपस्पर्शनं वर्जयेत्
पूर्वोक्तानाम् ॥ ७ ॥
गोर्दक्षिणानां कुमार्याश्च परीवादान्वर्जयेत् ॥ ८ ॥
गोरदक्षिणाया अपि दक्षिणानामगवामपि हिरण्यादीनां कुमार्याः
कन्यायाश्च दोषान् सतोऽपि न कथयेत् । अध्यात्मप्रकरणे योगाङ्गतया
परीवादः प्रतिषिद्धः । अनन्तरं च वक्ष्यति(२) 'क्रोधादींश्च भूतदाहीयान्
वर्जयेदिति । इदं तु वचनं गवादिषु प्रायश्चित्तातिरेकार्थम् ॥ ८ ॥
स्पृहतीं च गां नाऽऽचक्षीत ॥ ९ ॥
स्पृहतीं सस्यधान्यादिकं भक्षयन्तीं गां स्वामिने न ब्रूयात् ॥ ९ ॥
संसृष्टां च वत्सेनाऽनिमित्ते ॥ १० ॥
१ अपिधानमित्यपाठः । एष एवार्थ इति ख. ग. पु. २. आप. ध. ३१. २३.
आप० ध० २२
१७० आपस्तम्बधर्मसूत्रे [(प.११.) क.३१.
या च गौर्वत्सेन ससृज्यते तामपि न ब्रूयादनिमित्ते-इयं ते गौर्वत्से-
न पीयत इति । 'अनिमित्ते' इति वचनात् (१) 'यस्य हविषे वत्सा अ-
पाकृता धयेयु'रित्यादिके निमित्ते सति वक्तुर्नास्ति दोषः ॥ १०॥
नाऽधेनुमधेनुरिति ब्रूयात् । धेनुर्भव्येत्येव ब्रूयात् ॥ ११ ॥
या च गौरधेनुः पयस्विनी भवति तामप्यधेनुरिति न ब्रूयात् ॥११॥
किं तर्हि धेनुर्भव्येत्येव ब्रूयात्—भविष्यन्ती धेनुर्घेनुर्भव्या । 'धेनोर्भव्यायां
(मुम् वक्तव्य) इति मुम् न भवति । व्यन्तत्वेनाऽव्ययत्वात् । वक्तव्यत्वे
च सति शब्दनियमोऽयम् । न पुनरधेनुदर्शन एवं वक्तव्यम् ॥१२॥
(२) न भद्रं भद्रमिति ब्रूयात् ॥ १३ ॥
यत् भद्रं तत् भद्रमिति न ब्रूयात् ॥ १३ ॥
किं तु ?
पुण्यं प्रशास्तमित्येव ब्रूयात् ॥ १४ ॥
पुण्यं प्रशास्तमित्यनयोरन्यतरेण शब्देन ब्रूयात् । प्रशास्तं प्रशस्तम्।
छान्दसो दीर्घः ॥ १४ ॥
(३) वत्सतन्तीं च नोपरि गच्छेत् ॥ १५ ॥
वत्सानां बन्धरज्जुर्वत्सतन्ती । तस्या उपरि न गच्छेत् तां न लङ्घयेत् । व-
त्सग्रहणं गोजातेरुपलक्षणम् ॥ १५ ॥
प्रेङ्खावन्तरेण च नाऽतीयात् ॥ ॥ १६ ॥
प्रेङ्खौ डोलास्तम्भौ । तोरणस्तम्भावित्यन्ये । तावन्तरेण नाऽतीयात्—त
योर्मध्ये न गच्छेत् ॥ १६ ॥
नाऽसौ मे सपत्न इति ब्रूयात् यद्यसौ मे सपत्न इति
ब्रूयात् द्विषन्तं भ्रातृव्यं जनयेत् ॥ १७ ॥
असौ देवदत्तो मे सपत्न इति न ब्रूयात् सदसि । किं कारणम् ?
यद्यसौ मे सपत्न इति ब्रूयात् , द्विषन्तं, क्रियाशब्दोऽयम् , विद्विषाणं भ्रातृव्यं
सपत्नं जनयेत् ‘व्यन् सपत्ने' इति भ्रातृशब्दे व्यन्प्रत्ययः । एवं ह्युक्ते स
मन्येत—नाऽकस्मादयं ब्रूते नूनमस्य मयि द्वेषो वर्तत इति । ततश्च तत्प्र-
तीकारार्थं यतमानसपत्न एव जायते इति ॥ १७ ॥
१ आप. श्रौ. ९. १. २३. २. म स्मृ. ४. १३९. ३ म. स्मृ. ४ ३८.
स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७१
नेन्द्रधनुरिति परस्मै प्रब्रूयात् ॥१८॥
इन्द्रधनुराकाशे पश्यन् परस्मै तेन शब्देन न ब्रूयात् । यद्यवश्यं
वक्तव्यं मणिधनुरिति ब्रूयात् । गौतमीये (१) दर्शनात् ॥ १८ ॥
न पततः सञ्चक्षीत ॥ १६ ॥
पततः पक्षिणः सङ्घीभूय स्थितान्न सञ्चक्षीत न गणयेत्--इयन्त एत
इति । अपर आह--'पुण्यक्षयेण स्वर्गात्पततः सुकृतिनः परस्मै न सञ्च-
क्षीत-ज्योतींषि पतन्तीति न कथयेत् ॥ १९ ॥
उद्यन्तमस्तं यन्तं चाऽऽदित्यं दर्शने वर्जयेत् ॥ २० ॥
उदयसमये अस्तमयसमये वा आदित्यं न पश्येत् ।
(२)मनुस्तु-
नेक्षेतोद्यन्तमादित्यं नाऽस्तं यन्तं कदाचन ।
नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ॥' इति ॥ २० ॥
दिवाऽऽदित्यः सत्त्वानि गोपायति नक्तं चन्द्रमाः ।
तस्मादमावास्यायां निशायां स्वाधीय आत्मनो गुप्तिमि-
च्छेत् प्रायतव्यव्रह्मचर्य्यकाले चर्य्यया च ॥ २१ ॥
दिवा अहनि । आदित्यः सत्त्वानि गोपायति प्राणिनो रक्षति, आलोकदा-
नेन । नक्तं रात्रौ चन्द्रमाः । तस्मादमावास्यायां निशायां रात्रौ स्वाधीयः। वका-
रश्छान्दसः । अन्तिकबाढयोर्नेदसाधौ । बाढतरं भृशतरं आत्मनो गुप्तिं
रक्षणमिच्छेत् । केन प्रकारेण ? प्रायत्यब्रह्मचर्याभ्यां काले चर्यया च । अयं
तावदर्थानुरूपः पाठः । अधीयमानस्तु प्रमादश्छान्दसो वा । प्रयतस्य
भावः प्रायत्यूं नित्यप्रायत्यादाधिकेन प्रायत्येन स्नानादिजेन । ब्रह्मचर्येण
मैथुनत्यागेन । काले कृत्या चर्यया देवार्चनजपादिकया च ॥२१॥
कस्मात्पुनरस्यां रात्रौ चन्द्रमा न गोपायतीत्याह-
सह ह्येतां रात्रिं सूर्याचन्द्रमसौ वसतः ॥ २२ ॥
एतां रात्रिम् । अत्यन्तसंयोगे द्वितीया । सर्वामेतां रात्रिं सूर्याचन्द्रमसौ
सह वसतः । न च सूर्येण सह वसतश्चन्द्रमसः प्रकाशोऽस्ति ॥ २२ ॥
न कुसृत्या ग्रामं प्रविशेत् ॥ २३ ॥
कुसृतिः कुमार्गः । तया ग्राम न प्रविशेत् ॥ २३॥
१. गौ. ध. ९. २२. \qquad\qquad २. म स्मृ ४. ३६.
१७२ आपस्तम्बधर्मसूत्रे [ (प. ११.) क. ३१.
यदि प्रविशे 'न्नमो रुद्राय वास्तोष्पतय' इत्येतामृचं
जपेदन्यां वा रौद्रीम् ॥ २३ ॥
यदि गत्यन्तराभावात् प्रविशेत्(१) 'नमो रुद्राये' त्यादिकामृचं जपेत् । अ-
न्यां वा रौद्रीम्(२) 'इमां रुद्राय तवस'इत्यादिकाम्। अत्र वाजसनेयगृहो-
(३)'वनं प्रवेक्ष्यन्ननुमन्त्रयते 'नमो रुद्राय वनसदे स्वस्ति मा सम्पारये'
ति । पन्थानमारोक्ष्यन्ननुमन्त्रयते 'नमो रुद्राय पथिषदे स्वस्ति मा स-
म्पारये'ति । अपः प्रवेक्ष्यन्ननुमन्त्रयते—'नमो रुद्रायोऽप्सुषदे स्वस्ति
मा सम्पारये'ति । तस्माद्यत्किञ्चन कर्म कुर्वन् स्यात् सर्वं 'नमो रुद्राये'
त्येव कुर्यात् 'सर्वो ह्येष रुद्र' इति श्रुतेरिति । भारद्वाजगृहोऽप्यस्मि-
न्विषये कियानेव भेदः ॥ २४ ॥
नाऽब्राह्मणायोच्छिष्टं प्रयच्छेत् ॥ २५ ॥
अब्राह्मणः शूद्रः । (४)'न शूद्रायोच्छिष्टमनुच्छिष्टं वा दद्या'दिति वा-
सिष्ठे दर्शनात् । तस्मा उच्छिष्टं न प्रयच्छे'दित्यनाश्रितविषयम् ॥२५॥
यदि प्रयच्छेद्दन्तान् स्कुप्त्वा तस्मिन्नवधाय प्रयच्छेत्॥२६॥
इदमाश्रितविषयम् । दन्तान्नखेन स्कुप्त्वा विल्लिख्य तन्मलं तस्मिन्नु-
च्छिष्टेऽवधाय प्रयच्छेत् । 'स्कुप्त्वे'ति स्कुभ्नातेः क्त्वाप्रत्यये छान्दसं भ-
कारस्य चर्त्वम् । स्कुनोतेर्वा पकार उपजनः ॥ २६ ॥
क्रोधादींश्च भूतदाहीयान्दोषान्वर्जयेत् ॥ २७ ॥
क्रोधादयो भूतदाहीया अध्यात्मपटले(२२.५) व्याख्याताः । तद्वचनं योगि-
विषयमित्ययोगिनोऽपि स्नातकस्य क्रोधादिनिवृत्त्यर्थमिदं वचनम् ।
इदमेव तर्ह्युभयार्थमस्तु—योग्यर्थमयोग्यथं च । एवं सिद्धे तद्वचनं क्रो-
धादिवर्जनस्य योगाङ्गत्वप्रतिपादनार्थम् । तेन क्रोधाद्यनुष्ठाने योगसि-
द्धिर्न भवति । न पुनः स्नातकव्रतलोपप्रायश्चित्तमिति ॥ २७ ॥
॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने एकत्रिंशी कण्डिका ॥ ३१ ॥
१. ब्रा ३. ७ ९ नमो रुद्राय वास्तोष्पतये । आयने विद्रवणे । उत्थायने यत्प-
रायणे । आवर्तने निवर्तने । यो गोपायति त० हुवे ॥ इति समग्रा ऋक् ॥
२. 'इमां रुद्राय तवसे कपर्दिने क्षयद्वीराय' इतिषष्ठाध्यायगता (तै०सं०४ ५.१०)
३ पार. गृ. ३. १५. ११. ४. व. ध. १८ १४.
स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७३
प्रवचनयुक्तो वर्षाशरदं मैथुनं वर्जयेत् ॥ १ ॥
प्रवचनमध्यापनम् । तेन युक्तो वर्षासु शरदि च मैथुनं वर्जयेत् ऋतावपि॥१॥
मिथुनीभूय च न तया सह सर्वां रात्रिं शयीत ॥ २ ॥
मिथुनीभूय मैथुनं कृत्वा तया भार्यया सह तां रात्रि सर्वां न शयीत ॥ २ ॥
शयानश्चाऽध्यापनं वर्जयेत् ॥ ३ ॥
दिवा नक्तं च शयानस्याऽध्यापनप्रतिषेधः। स्वयं तु धारणार्थमधी-
यानस्य न दोषः ॥ ३ ॥
न च तस्यां शय्यायामध्यापयेद्यस्यां शयीत ॥ ४ ॥
यस्या शय्यायां भार्यया सह शयीत रात्रौ तस्यां शय्यायामासीनोऽपि
नाऽध्यापयेत् ॥ ४ ॥
अनाविःस्रगनुलेपणस्स्यात् ॥ ५ ॥
आविर्भूते प्रकाशिते स्रगनुलेपने यस्य एवंभूतो न स्यात् । णत्वं पूर्ववत्॥
सदा निशायां दारं प्रत्यलङ्कुर्वीत ॥ ६ ॥
'दारं प्रती'ति वचनादुपगमनार्थमलङ्करणम् । तेन भार्याया अश-
क्त्यादिना उपगमनायोग्यत्वे नाऽयं नियमः ॥ ६ ॥
सशिरा वमज्जनमप्सु वर्जयेत् ॥ ७ ॥
वमज्जनमवमज्जनम् । 'वष्टि वागुरिरल्लोपमवाप्योरुपसर्गयो' रि-
त्यकारलोपः । तत्सशिरा वर्जयेत् । सह शिरसा स्नानं न कुर्यात् । अवगा-
हनविधयः सर्वे स्नातकव्यतिरिक्ते चरितार्थाः, नैमित्तिकाश्च । स्नात-
कस्य तु नित्यस्नानमवगाहनरूपं न भवतीत्याचार्यस्य पक्ष ॥ ७ ॥
अस्तमिते च स्नानम् ॥ ८ ॥
अस्तमिते आदित्ये सर्वप्रकारं स्नानं वर्जयेत् ॥ ८ ॥
पालाशमासनं पादुके दन्तप्रक्षालनमिति च वर्जयेत् ॥९॥
पालाशमासनादि वर्जयेत् । दन्तप्रक्षालन दन्तकाष्ठम् । इतिशब्दः प्रकारे ।
तेनाऽन्यदपि गृहोपकरणं पालाशं वर्जयेत् ॥ ९ ॥
स्तुतिं च गुरोस्समक्षं यथा सुस्नातमिति ॥ १० ॥