आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 169, कुल 399 में से
संदर्भ में पढ़ें१९८ आपस्तम्बधर्मसूत्रे [(प.१०)क.२८.
विशेषः । अनन्तरोक्तस्य वैकल्पिकस्य निवृत्यर्थं वचनम् ॥ १५ ॥
मिथ्यैतदिति हारीतः ॥ १६ ॥
हारीतस्त्वृषिर्मन्यते-एतदनन्तरोक्तं मरणांतिकप्रायश्चित्तं मिथ्या न
कर्तव्यमिति ॥ १६ ॥
कुत इत्यत आह-
यो ह्यात्मानं परं वाऽभिमन्यतेऽभिशस्त एव स
भवति ॥ १७ ॥
हिशब्दो हेतौ । यस्मात् य आत्मन परं वाऽभिमन्यते मारयति सोऽभि-
शस्त एव भवति ब्रह्महैव भवति । (१)न च पतनीयापनोदनं चिकीर्षु-
रन्यत् पतनीयं कर्तुमर्हतीति । हेत्वभिधानादभिशस्तवचनाच्चाऽन्ये-
षामपि मरणांतिकानां ब्राह्मणविषये निवृत्तिः ॥ १७ ॥
किं तर्हि तस्य प्रायश्चित्तमिति ? आह--
एतेनैव विधिनोत्तमादुच्छासाच्चरेन्नास्याऽस्मिँल्लोके
प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हण्यते ॥ १८ ॥
'अघोनाभ्युपरि जान्वि' (२८.११.) त्यादि यदनन्तरोक्तमेतेनैव विधिना ।
शिष्टं गतम् ॥ १८ ॥
दारव्यतिक्रमी खराजिनं बहिर्लोम परिधाय 'दारव्यति-
क्रमिणे भिक्षा'मिति सप्ताऽगाराणि चरेत्। सा वृत्तिः
षण्मासान् ॥ १९ ॥
(२) यस्तु अन्तरेणैव निमित्तं कौमारान् दारान् परित्यजति स दा-
रव्यतिक्रमी । खरस्य, गर्दभस्याऽजिनं बहिर्लोम परिधाय वासित्वा दारव्यति-
क्रमिणे भिक्षां दत्तेति सप्तागाराणि भिक्षां चरेत् । (३)कौमारदारपरित्यागिने
भिक्षां दत्ते'ति वासिष्ठे । (४)सा वृत्ति. षण्मासान् । ततः सिद्धिः ॥ ९ ॥
१ न च महापातकस्य ब्रह्महत्या प्रायश्चित्त भवितुमर्हतीति. क. पुस्तके.
२. धर्मप्रजादिकमन्तरेण कौमारान् दारान्' इति क ख. पु.
३ व घ. कौमारदारव्यतिक्रमिणे. इति. ख. पु. कौमारदारपरित्यागिने इति, क. पु.
४ षण्मासाद्धूर्ध्वं शुद्ध. इति. ग. पु. 'सा वृत्ति'रित्यादि पृथक्सूत्रं च ॥