आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 180, कुल 399 में से
संदर्भ में पढ़ेंस्नातकधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६९
आवसथो गृहम् । तस्य दूरतो मूत्रपुरीषे कुर्यात्, दक्षिणां दिशम् । द्वि-
तीयानिर्देशादभिनिष्क्रम्येति गम्यते । दक्षिणापरा नैर्ऋती ॥ २ ॥
अस्तमिते च बहिर्ग्रामादारादावसथाद्वा
मूत्रपुरीषयोः कर्म वर्जयेत् ॥ ३ ॥
अस्तमित आदित्ये बहिर्ग्रामान्मूत्रपुरीषे न कुर्यात् । तथा अन्तर्ग्रामेऽपि
गृहस्य दूरतो न कुर्यात् । दृष्टार्थोऽयं प्रतिषेधश्चोरव्याघ्रादिशङ्कया ।
निर्भये देशे नाऽस्ति दोषः ॥ ३ ॥
देवताभिधानं चाऽप्रयतः ॥ ४ ॥
देवतानामग्न्यादीनामभिधानं चाऽप्रयतस्सन् वर्जयेत् । (१)अपिधानमि-
त्यपि पाठे एष एवार्थः ॥ ४ ॥
परुषं चोभयोर्देवतानां राज्ञश्च ॥ ५ ॥
देवतानां राज्ञेश्चोभयोः । राज्यपेक्षया द्विवचनम् । परुषं निन्दां
वर्जयेत् ॥ ५ ॥
ब्राह्मणस्य गोरिति पदोपस्पर्शनं वर्जयेत् ॥ ६ ॥
ब्राह्मणं गां च पादेन नोपस्पृशेत् । इतिशब्दः प्रकारे । तेन विद्यावयो-
वृद्धानामब्राह्मणानामपि वर्जनम् ॥ ॥ ६ ॥
हस्तेन चाऽकारणात् ॥ ७ ॥
कारणमभ्यङ्गकण्डूयनादि । तेन विना हस्तेनाऽप्युपस्पर्शनं वर्जयेत्
पूर्वोक्तानाम् ॥ ७ ॥
गोर्दक्षिणानां कुमार्याश्च परीवादान्वर्जयेत् ॥ ८ ॥
गोरदक्षिणाया अपि दक्षिणानामगवामपि हिरण्यादीनां कुमार्याः
कन्यायाश्च दोषान् सतोऽपि न कथयेत् । अध्यात्मप्रकरणे योगाङ्गतया
परीवादः प्रतिषिद्धः । अनन्तरं च वक्ष्यति(२) 'क्रोधादींश्च भूतदाहीयान्
वर्जयेदिति । इदं तु वचनं गवादिषु प्रायश्चित्तातिरेकार्थम् ॥ ८ ॥
स्पृहतीं च गां नाऽऽचक्षीत ॥ ९ ॥
स्पृहतीं सस्यधान्यादिकं भक्षयन्तीं गां स्वामिने न ब्रूयात् ॥ ९ ॥
संसृष्टां च वत्सेनाऽनिमित्ते ॥ १० ॥
१ अपिधानमित्यपाठः । एष एवार्थ इति ख. ग. पु. २. आप. ध. ३१. २३.
आप० ध० २२