सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

१७४ आपस्तम्बधर्मसूत्रे [ (प. ११.) क. ३२.
'सुस्नात' मित्यादिकां च स्तुतिं गुरोस्सन्निधौ वर्जयेत् ॥ १० ॥
आ निशाया जागरणम् ॥ ११ ॥
निशा रात्रेर्मध्यमो भागः । आ तस्मात् जागृयात् न स्वप्यात् ॥११॥
अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः॥१२॥
निशायामनध्यायः अध्ययनमध्यापनं च न कुर्यात् । शिष्येभ्यस्तु धर्मो-
पदेशोऽनुज्ञायते ॥ १२ ॥
मनसा वा स्वयम् ॥ १३ ॥
निशायामनध्यायस्य प्रतिप्रसवः-मनसा वा स्वयं चिन्तयेदिति ।१३।
ऊर्ध्वमर्धरात्रादध्यापनम् ॥ १४ ॥
अयमपि प्रतिप्रसवः । निशायामपि षोडश्या नाडिकाया आरभ्या-
ध्यापनं भवतीति ॥ १४ ॥
नाऽपररात्रमुत्थायाऽनध्याय इति संविशेत् ॥ १५ ॥
रात्रेस्तृतीयो भागोऽपररात्र. । ऊर्ध्वमर्धरात्रादुत्थायाऽध्यापयन्नपररात्रे
न संविशेत् न शयीत । यद्यपि तस्मिन्नष्टम्यादिरनध्यायः प्राप्तो भवति ।
किं पुनः स्वाध्याये । तथा च मनुः—
(१)'न निशान्ते परिश्रान्तो ब्रह्माऽधीत्य पुनः स्वपेत् ।' इति ॥१५॥
(२)काममपश्शयीत ॥ १६ ॥
अनेन स्तम्भाद्युपाश्रयेणाऽऽसीनस्य स्वापोऽनुज्ञायते । श्रिञ्सेवा-
याम् । तत्र रेफलोपश्चान्दसः । तथा शकारस्य द्विर्वचनम् ॥ १६ ॥
मनसा वाऽधीयीत ॥ १७ ॥
अयमप्यूर्ध्वमर्धरात्रादुत्थायाऽध्यापयतोऽनध्यायप्राप्तावेवोच्यते । म-
नसा प्राप्तं प्रदेशमधीयीत स्वयं चिन्तयेत् । उपाश्रित्य वा स्वप्यात् ॥१७॥
क्षुद्रान् क्षुद्राचरितांश्च देशान्न सेवेत ॥ १८ ॥
क्षुद्रानल्पकान् पुरुषान्न सेवेत । क्षुद्रैर्निषादादिभिरधिष्ठितांश्च
देशान्न सेवेत ॥ १८ ॥
सभास्समाजांश्च ॥ १९ ॥
१. म स्मृ ४. ९९ २ काममुपशयीत इति ग. पु.

स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७५
सभाससमाजाश्च व्याख्याताः । तान्न सेवेत ॥ १९ ॥
समाजं चेद्गच्छेत्प्रदक्षिणीकृत्याऽपेयात् ॥ २० ॥
यद्यर्थात् समाजं गच्छेत् तं प्रदक्षिणीकृत्याऽपेयादपगच्छेत् ॥ २० ॥
नगरप्रवेशनानि च वर्जयेत् ॥ २१ ॥
बहुवचननिर्देशात् बहुकृत्वो नगरं न प्रवेष्टव्यम् । यदाकदाचिदा-
दृष्टिलुके प्रवेशे न प्रायश्चित्तम् ॥ २१ ॥
प्रश्नं च न विब्रूयात् ॥ २२ ॥
विविच्य वचनं विवचनं निर्णयः । पृष्टमर्थं न विविच्य ब्रूयादिद-
मित्थमिति । दुर्निरूपार्थविषयमिदम् ॥ २२ ॥
अथाऽप्युदाहरन्ति ॥ २३ ॥
अपि चाऽस्मिन्नर्थे श्लोकमुदाहरन्ति ॥ २३ ॥
मूलं तूलं वृहति दुर्विंवक्तुः प्रजां पशूनायतनं हिनस्ति ।
धर्मप्रह्लाद न कुमालनाय रुदन् ह मृत्युर्व्युवाच प्रश्नम् ।
इति ॥ २४ ॥
दुर्निरूपमर्थं सहसा निर्णीय यो दुर्विंवक्ति अन्यथा वर्णयति स दु-
र्विवक्ता । तस्य दुर्विंवक्तुस्तदेव दुर्वचनमेव मूलं तूलं च वृहति । मूलं पितृध-
नम् । तूलमागामिनी सम्पत् । तदुभयमपि वृहति उत्पाटयति । दन्तोष्ठ्यो
वकारः। किमेतावदेव ? न, प्रजां पुत्रादिकाम् । पशून् गवादिकान् । आयतनं
गृहं च हिनस्ति । अतो दुर्वचनसम्भवात् प्रश्नमात्रमेव न विब्रूयादिति।
अत्रेतिहासः-कस्यचिदृषेर्धर्मप्रह्लादः कुमालनश्चेति द्वौ शिष्यावास्ताम् ।
तौ कदाचिदरण्यान्महान्तौ समिद्धारावाहृत्य श्रमा(१)द्ददृष्टिपूत एवाचा-
र्यगृहे प्राक्षिपताम् । तयोरेकेनाऽऽक्रान्त आचार्यस्य शिशुः पुत्रो मृतः ।
ततः शिष्यावाहूयाऽऽचार्यः पप्रच्छ-केनायं मारित इति । तावुभावपि न
मयेत्यूचतुः । तथा पतितस्य परित्यागमदुष्टस्य परिग्रहं कर्तुमश-
क्नुवन्नृषिर्मृत्युमाहूय पप्रच्छ-केनाय व्यापादित इति । ततो धर्मसङ्क-
टे पतितो मृत्यूरुदन्नेव प्रश्नं व्युवाच विविच्य कथितवान्। कथम् ? हे
धर्मप्रह्लाद न कुमालनाय । षष्ठ्यर्थे चतुर्थी । कुमालनस्य नेदं पतनीयमिति ।
१. दृष्टिपथ एव इति ख. पु.

१७८ आपस्तम्बधर्मसूत्रे [ (१११.) क. ३२.
धर्मप्रह्राद त्वयेदं कृतमिति वक्तव्ये इतरस्य नाऽस्तीत्युक्तम् । तथा
पीतरस्यास्तीत्यर्थाद्गम्यते । इति रुदन् ह व्युवाचेति । हशब्द ऐतिह्य
त्वद्योतनार्थः । प्रह्रादशब्दे हकारात्परो रेफश्छान्दसः ॥ २४ ॥
गार्दभं यानमारोहणे विषमारोहणाव-
रोहणानि च वर्जयेत् ॥ २५ ॥
गर्दभयुक्तं यानं गर्दभं शकटादि । आरोहणे वर्जयेत् नाऽऽरोहेत् । तथा
विषमेषु निम्नोन्नतेष्वारोहणमवरोहणं च वर्जयेत् । उन्नतेष्वारोहणं नि-
म्नेष्ववरोहणम् ॥ २५ ॥
बाहुभ्यां च नदीतरणम् ॥ २६ ॥
तरण तरः । बाहुभ्यां च नद्यास्तरणं वर्जयेत् । 'बाहुभ्यां' मिति व-
चनात् प्लवादिना न दोषः ॥ २६ ॥
नावं च सांशायिकीम् ॥ २७ ॥
भिद्यते न वेति संशयमापन्ना सांशायिकी नौः । जीर्णां नावं वर्जयेत् ।
'नावा' मिति षष्ठ्यन्तपाठे नावां मध्ये सांशायिकीं नावं वर्जयेत् ॥ २७ ॥
तृणच्छेदनलोष्टविमर्दनष्ठेवनानि चाऽकारणात् ॥ २८ ॥
तृणच्छेदनादि नाऽकारणाद्वर्जयेत् न कुर्यात् । तृणच्छेदनस्याऽग्नि
ज्वलनादि कारणम् । ष्ठेवनस्य कारण प्रतिश्यायादि । इतरच्च मृग्यम् ॥
यच्चाऽन्यत्परिचक्षते यच्चाऽन्यत्परिचक्षते ॥ २९ ॥
यच्चाऽन्यदेवं युक्तमाचार्याः परिचक्षते वर्जयन्ति तदप्यक्षक्रीडादि वर्ज-
येत् । द्विरुक्तिः प्रश्नपरिसमाप्तिकृता ॥ २९ ॥
॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने द्वात्रिंशी काण्डका ॥ ३२ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तावुज्ज्वलायामेकादशः पटलः ॥
॥ समाप्तः प्रथमः प्रश्नः ॥

॥ श्रीः ॥
आपस्तम्बधर्मसूत्रे उज्ज्वलोपेते
अथ द्वितीयः प्रश्नः ॥
पाणिग्रहणादधि गृहमेधिनोर्व्रतम् ॥ १ ॥
पूर्वस्मिन् प्रश्ने आद्ययोः पटलयोः प्रायेण ब्रह्मचारिणो धर्मा उक्ताः ।
इतरेष्वष्टसु सर्वाश्रमाणां । एकादशे समावृत्तस्य । इदानीं पाणिग्रहणा-
दारभ्य कर्तव्यानि कर्माण्युच्यन्ते । पाणिर्यस्मि(१)न्ग्रहनि गृह्यते तत्पा-
णिग्रहणम्(२) । अधिशब्द ऊर्ध्वार्थे वर्तते । तस्मादूर्ध्वं गृहमेधिनोर्गृहस्था-
श्रमवतोः यद्व्रतं नियतं कर्तव्यम्, जातावेकवचनम्, तदुच्यते । 'पाणि-
ग्रहणादधी'ति वचने(३)'भार्यादिरग्निर्दायादिर्वे'ति शास्त्रान्तरोको वि-
कल्पो मा भूदिति । 'गृहमेधिनो'रिति द्विवचनमन्यतरमरणे मा भूदि-
ति(४) । वैश्वदेवं तु विधुरा अपि कुर्वन्ति ॥ १ ॥
कालयोर्भोजनम् ॥ २ ॥
कालयोरुभयोरपि भोजनं कर्तव्यम्—सायं प्रातश्च, नाऽन्तरेति परिसं-
ख्येयम्, भोजनस्य रागप्राप्तत्वात् । मानवे च स्पष्टमुक्तम्—
(५)'सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् ।
नाऽन्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥' इति ।
अन्ये तु नियमं मन्यन्ते(६) शक्तौ सत्यां गृहमेधिनोरुभयोरपि
कालयोरवश्यं भोक्तव्य प्राणाग्निहोत्रस्याऽलोपायेति ।

१. यस्मिन् कर्माणि इति. क ड. पु. २. चतुर्थीकर्मान्तो विवाहः इत्यधिकं ड पु
३. गौ. ध ५ ७
४. अनेकभार्यस्य एकस्यामपि सत्या भवत्येव । अनेकाश्रितस्याऽधिकारस्य विद्यमा-
नत्वाच्छाखान्तरत्वाच्च । इत्यधिकं क पु.
५. वचनमिदं मुद्रितमनुस्मृतिकोशेषु नाऽस्ति । परं तु बहुषु निबन्धेषु परं मान-
वत्वेनोपन्यस्तम् ।
६. शक्तौ सत्या कालयोर्वर्जने च प्राणाग्निहोत्रलोपः । तस्यालोपाय कालयोरवश्यं
भोजनं कर्तव्यमिति ढ पुस्तके पाठः ।
आप० ध० २३

१७८ आपस्तम्बधर्मसूत्रे [ (प्र.१.) क. १.
तथा च बौधायनः-
(१)'गृहस्थो ब्रह्मचारी वा योऽनश्नंस्तु तपश्चरेत् ।
प्राणाग्निहोत्रलोपेन ह्यवकीर्णी भवेत्तु सः ॥' इति ।
(२)अन्यत्र प्रायश्चित्तात् । प्रायश्चित्ते तु तदेव विधानमिति ॥ २ ॥
अतृप्तिश्चाऽन्नस्य ॥ ३ ॥
सुहितार्थयोगे करणे षष्ठी भवति । (३)पूरणगुणसुहितार्थे'ति ज्ञा-
पनात् । अन्नेन तृप्तिं न गच्छताम् । यावत्तृप्ति न भोक्तव्यम् ॥ ३ ॥
पर्वसु चोभयोरुपवासः ॥ ४ ॥
पक्षसन्धिः पर्व । इह तु तद्युक्तमहर्गृह्यते । तेषु पर्वसूभयोर्दम्पत्यो-
रुपवासः कर्तव्यः । उपवासो भोजनलोपः ॥ ४ ॥
अविशेषादुभयोरपि कालयो. प्राप्तावाह-
औपवस्तमेव कालान्तरे भोजनम् ॥ ५ ॥
यत्कालान्तरे एकस्मिन् काले भोजन तदप्यौ(४)पवस्तमेव उपवास
एव । (५)'औपवस्तं तूपवासः' इति निघण्टुः । तदपि दिवा, न रात्रौ;
श्रौते तथा दर्शनात् (६)'न तस्य सायमश्नीया'दिति । तदिह (७)'एव
मत ऊर्ध्व'मित्यादि गृह्ये यदुक्तं तत्रत्य उपवासो व्याख्यातः ॥ ५ ॥
तृप्तिश्चाऽन्नस्य ॥ ६ ॥
पर्वसु सकृद्भुञ्जानौ यावत्तृप्ति भुञ्जीयाताम् ॥ ६ ॥
यच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहनि भुञ्जीयाताम् ॥ ७॥
'एतस्मिन्नहनी'ति न वक्तव्यम् । प्रकृतत्वात् । यथा 'तृप्तिश्चान्नस्ये'
ति पर्वसु भवति, एवमिदमपि भविष्यति । किं च 'पर्वस्वि'ति बहुव
चनान्तस्य प्रकृतस्य 'एतस्मिन्नहनी'त्येकवचनान्तेन प्रत्यवमर्शो नाऽतीव
समञ्जसः । तस्माद्व्यवहितमपि पाणिग्रहणमहः प्रत्यवमृश्यते । एतदर्थ-
१. बौ ध २. ७ २४ २. अय भागो घ. पुस्तके नास्ति ।
३. पा. सू. २. २. ११
४. 'वसु, स्तम्भ' इत्यस्मादैवादिकाद्भावे के स्वार्थेऽणि च सति औपवस्तमिति
रूपं, धातुनामनेकार्थत्वादभोजने वृत्तिरिति च वेदितव्यम् ।
५. नामलि. का. २. ब्र व. ३८ ६. आप श्रौ. ३. ७. आप. गृ. ७. १७.

गृहस्थधर्मा: ] उज्ज्वलोपेते द्वितीय: प्रश्न: । १७९

मेव च गृहे (१) 'एतदहर्विजानीयाद्यदहर्भार्यामावहत' इत्युक्तम् । एतस्मिन्
पाणिग्रहणेऽहनि यदेनयोर्दम्पत्योः प्रियं तत् भुञ्जीयाताम् । न तु 'नाऽऽत्मार्थ-
मभिरूपमन्नं पाचये' (२-७-४) दिति निषेधस्याऽयं विषय इति । प्रतिसंव-
त्सरं चैतत्कर्तव्यम् । यथा चैत्रे मासि स्वातौ कृतविवाहस्याऽपरस्मिन्नपि
संवत्सरे तस्मिन्मासे स्वातावेव कार्यम् । एवं हि तदेवाऽहरिति भवति ।
प्रतिमासं तु नक्षत्रागमेऽपि चैत्रादिभेदान्न तदेवेति प्रतिपत्तिः । तस्मात्
प्रतिसंवत्सरमिदं विवाहनक्षत्रे कर्तव्यम् । (२) यथा राज्ञामभिषेकनक्षत्र
मेवं हि गृहमेधिनोर्विवाहनक्षत्रमिति ॥ ७ ॥
अधश्च शयीयाताम् ॥ ८ ॥
एतस्मिन्नहनि स्थण्डिलशायिनौ स्याताम् ॥ ८ ॥
मैथुनवर्जनं च ॥ ९ ॥
(३) मैथुनवर्जनं चैतस्मिन्नहनि कर्तव्यम् ॥ ९ ॥
श्वो भूते स्थालीपाक: ॥ १० ॥
स्थालीपाकश्च कर्तव्योऽपरेद्युः ॥ १० ॥
तस्योपचारः पार्वणेन व्याख्यातः ॥ ११ ॥
तस्य स्थालीपाकस्योपचारः प्रयोगप्रकारः पार्वणेन व्याख्यातः । एतदेव
ज्ञापयति-न सामयाचारिकेषु पार्वणातिदेश प्रवर्तत इति । केचित्तु
सर्वमेवैतत्पर्वविषयं मन्यन्ते । तेषामुक्त्तो दोषः । 'पार्वणेन व्या
ख्यात' इति चाऽनुपपन्नम् । न हि स एव तेन व्याख्यातो भवति । 'श्वो
भूते स्थालीपाक' इति च व्यर्थम् । (४) 'उपोषिताभ्यां पर्वसु कार्य'
इति पूर्वमेवोक्तत्वात् । 'एतदहर्विजानीया' दिति चास्य प्रयोजनं तत्पक्षे
चिन्त्यम् (५) ॥ ११ ॥
नित्यं लोक उपदिशन्ति ॥ १२ ॥
लोके शिष्टाचासिद्धमेतत्कर्म नित्यं प्रतिसंवत्सरं कर्तव्यमिति शिष्टा
उपदिशन्ति ।
अपर आह—वक्ष्यमाणं कर्म शिष्टाचारासिद्धं नित्यं सार्वत्रिक इति

१. आप गृ ८. ७ २. यथा इत्यादिग्रन्थः घ. ङ पुस्तकयोर्नास्ति ।
३. 'एतस्मिन्नहनि तन्न कर्तव्यम्' इति छ. पु ४ आप. गृ. ७. १७.
५. सूत्रस्वारस्यं तु पर्वविषयत्व एव पश्यामः ।

३. द्वितीय प्रश्न (पटल १-५): गृहस्थ-धर्म व पंचमहायज्ञ

१८० आपस्तम्बधर्मसूत्रे [ (प.१.) क.१.
शिष्टा उपदिशन्ति ॥ १२ ॥
यत्र क चाऽग्निमुपसमाधास्यन् स्यात्तत्र प्राचीरुदी-
चीश्च तिस्रस्तिस्रो रेखा लिखित्वाऽद्भिरवोक्ष्या-
ऽग्निमुपसमिन्ध्यात् ॥ १३ ॥
होमप्रसङ्गादिदमुच्यते—यत्र क्व च गार्ह्ये सामयाचारिके वा कर्म
णि गृहेऽरण्ये वाऽग्निमुपसमाधास्यन् प्रतिष्ठापयिष्यन् स्यात्तत्र पूर्वं प्राचीः प्रा
गग्रास्तिस्रो रेखा विलिखेत् । तत उदीचीः उदगग्रास्तिस्रः । एव तिस्रो लेखा लि-
खित्वाऽद्भिरवोक्षेत् । अवोक्ष्याऽग्निं श्रोत्रियागारादाहृत्य प्रतिष्ठाप्योपसमिन्ध्यादु-
पसमिन्धीत काष्ठैरभिज्वलयेत् । तत्र(१) 'पुरस्तादुदग्वोपक्रमः, तथाप-
वर्ग' इति परिभाषितम् । उपदेशक्रमाच्च प्राच्यः पूर्वं लेखा लेखनीयाः
ततश्चोदीच्यः(२) ।
(३)प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत् ।
अथोदीचीः पुरस्संस्थं पश्चिमारम्भमालिखेत् ॥
(४)अन्ये तु प्राचीरुद्गारम्भं दक्षिणान्तमालिखन्ति ॥ १३ ॥
उत्सिच्यैतदुदकमुत्तरेण पूर्वेण वाऽन्यदुपदध्यात् ॥१४॥
एतदवोक्षणशेषोदकमग्नेरुत्तरतः पूर्वतो वा उत्सिञ्चेत् । उत्सिच्याऽन्य
दुदकं पात्रस्थमुपदध्यात्तत्रैव ॥ १४ ॥
नित्यमुदधानान्धद्भिररिक्तानि स्युर्गृहमेधिनोव्रतम् ॥१५॥
गृहे यावन्त्युदधानान्युदपात्राणि घटकरादीनि तानि सदाऽद्भिररिक्तानि
स्युः । एतदपि गृहमेधिनोव्रतम् । पुनः 'गृहमेधिनो'रिति वचनमस्मिन् कर्मणि
स्वयं कर्तृत्वमेव यथा स्यात् प्रयोजककर्तृत्व मा भूदिति ।
अन्य आह—पुन 'गृहमेधिनो'रिति वचनात् पूर्वसूत्रं ब्रह्मचारिवि
षयेऽपि 'सावित्र्या समित्सहस्रमादध्या' (१.२६.१.) दित्यादौ भवति ।
पाके तु स्त्रिया न भवति । 'उपसमाधास्य'न्निति लिङ्गस्य विवक्षित-
त्वात् । आर्याः प्रथता' (२.३.१.) इत्यादौ भवतीति ॥ १५ ॥
१. आप. गृ. १. ५, ६.
२. ‘एकमेवेदं कर्मलेखाकरणं नाम स्थण्डिलसंस्काररूपम् । ततश्च’ इत्याधिकं घ.ड पु.
३. प्राचीः पूर्वं दक्षिणान्तमुद्गारभ्यमालिखेत् । इति ख. च. पु.
४. अन्ये तु प्राचीर्दक्षिणारम्भमालिखन्ति इति च. पु. ।

गृहस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८१
अहन्यसंवेशनम् ॥ १६ ॥
संवेशनं मैथुनं तदहनि न कर्तव्यम् ॥ १६ ॥
ऋतौ च सन्निपातो दारेणाऽनुव्रतम् ॥ १७ ॥
रजोदर्शनादारभ्य षोडशाहोरात्रा ऋतुः । तत्र च सन्निपातः संयागो
दारेण सह कर्तव्यः । छान्दसमेकवचनम् । (१) नित्यं बहुवचनान्तो हि
दारशब्दः । अनुव्रतं शास्त्रतो नियमो व्रतं, तदनुरोधेन । तत्र मनुः—
(२)'ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिरितरैस्सार्धमहोभिस्सद्विगर्हितैः ॥
तासामाद्याश्चतस्रस्तु निन्द्या एकादशी च या ।
त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः' ॥
(३)'अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ॥
ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ।' इति ।
याज्ञवल्क्यस्तु—
(४)एव गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । इति ।
आचार्यस्तु चतुर्थीप्रभृति गमनमाह—(५)'चतुर्थीप्रभृत्याषोड-
शीमुत्तरामुत्तरां युग्मां प्रजानिश्रेयसमृतुगमनमित्युपदिशन्ति' इति ।
तदिह षोडशसु रात्रिष्वादितस्तिस्रस्सर्वथा वर्ज्याः । चतुर्थ्ये-
कादशी त्रयोदशी चाऽऽचार्येणानुज्ञाताः मनुना निषिद्धाः ।
इतरासु दशसु युग्मासु पुत्रा जायन्ते, स्त्रियोऽयुग्मासु । तत्र चो-
'त्तरामुत्तरा' मिति वचनात् षोडश्यां रात्रौ मघादियोगाभावे गच्छत-
स्सर्वत उत्कृष्टः पुत्रो भवति । चतुर्थ्यामवमः। मध्ये कल्प्यम्। एवं पञ्चद-
श्यामुत्कृष्टा दुहिता । पञ्चम्यामवमा । मध्ये कल्प्यम् । षोडशस्वेव ग
मनं गर्भहेतुः । तत्रापि प्रथमम् । एवं स्थिते नियमविधिरयं-योग्यत्वे स
त्यृताववश्यं सन्निपतेत् , असन्निपतन् पुत्रोत्पत्तिं निरुन्धानः प्रत्यवेया-
दिति । तथा च दोषस्मृतिः—
(६)'ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।
तस्या रजसि तं मासं पितरस्तस्य शेरते ॥' इति ।
पुत्रगुणार्थितया पूर्वों पूर्वी वर्जयतो न दोषः । अन्ये तु परिसङ्ख्यां
१. नित्यं बहुवचनान्तो हि दारशब्दः इति नास्ति क. पु.
२. म. स्मृ ३ ४६, ४७. ३ म स्मृ. ४. १२८.
४. या स्मृ. १ ८०. ५. आ प गृ ९. १ ६. बा. व ४. १०. २०.

१८२ आपस्तम्बधर्मसूत्रे [ (प्र. २.) क. १.
मन्यन्ते—ऋतावेव सन्निपतेन्नाऽन्यत्रेति । तेषामृतावनियमाद्गमनेऽपि
दोषाभावाद्दोषस्मरणमनुपपन्नं स्यात् । सर्वथा विधिर्न भवति । राग-
प्राप्तत्वात्सन्निपातस्य ॥ १७ ॥
अन्तरालेऽपि दार एव ॥ १८ ॥
अन्तराल मध्यम्। ऋत्वोरन्तराले मध्येऽपि सन्निपातः स्यात् दार एव
सकामे सति । यद्यात्मनो जितेन्द्रियतया न तादृशं पारवश्यम् , त-
थाऽपि भार्यायामिच्छन्त्यां तद्रक्षणार्थमवश्यं सन्निपतेदिति । वक्ष्यति
च (१) 'अप्रमत्ता रक्षथ तन्तुमेतं' (२.१३.६.) मित्यादि । अनुव्रतमित्य-
नुवृत्तेः प्रतिषिद्धेषु दिनेषु न भवति ॥ १८ ॥
ब्राह्मणवचनाच्च संवेशनम् ॥ १९ ॥
यदिदमनन्तरोक्तं संवेशनं तत्र ब्राह्मणवचनं प्रमाणं (२)'काममावि-
जनितोस्सम्भवामे'ति ॥ १९ ॥
स्त्रीवाससैव सन्निपातस्स्यात् ॥ २० ॥
एवकारो भिन्नक्रमः। स्त्र्युपभोगार्थं वासः स्त्रीवासः । तेन सन्निपात एव
स्यात् । न तेन सुप्रक्षालितेनाऽपि ब्रह्मयज्ञादि कर्त्तव्यमिति यावत् ॥२०॥
यावत्सन्निपातं चैव सह शय्या ॥ २१ ॥
यावत्सन्निपातमेव दम्पत्योस्सह शयनम् ॥ २१ ॥
ततो नाना ॥ २२ ॥
ततः पृथक्शयीयाताम् ॥ २२ ॥
उदकोपस्पर्शनम् ॥ २३ ॥
ततो द्वयोरप्युदकोपस्पर्शनं स्नानं कर्तव्यम् । इदमृतुकाले ॥ २३ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तावुज्ज्वलायां श्रीहरदत्तविरचितायां
द्वितीयप्रश्ने प्रथमा कण्डिका ॥ १॥
१. बौ. ध २. २. ३६. द्रष्टव्यम् ।
२. तै सं. २. ५ १. यावत्प्रसूति संभोगं प्राप्नुयामेत्यर्थः । अयं स्त्रीभिरिन्द्रात्
प्रार्थितो वर ।

गृहस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८३
अपि वा लेपान्प्रक्षाल्याऽऽचम्य प्रोक्षणमङ्गानाम् ॥ १ ॥
अपि वा रेतसो रजसश्च ये लेपास्तानद्भिर्मृदा च प्रक्षाल्याऽऽचम्य
अङ्गानां प्रोक्षणं शिरःप्रभृतीनां कर्तव्यम्(१)। रुचितो व्यवस्था। याव-
ता प्रयतो मन्यते ॥ १ ॥
सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् ॥ २ ॥
सर्वेषामेव वर्णानां ब्राह्मणादीनां चतुर्णां ये स्वधर्मा वर्णप्रयुक्ता आश्रम-
प्रयुक्ता उभयप्रयुक्ता वा तेषामवैगुण्यनाऽऽन्तादनुष्ठाने सति परमुत्कृष्टं
अपरिमितमक्षयं सुखं स्वर्गाख्यं भवति ॥ २ ॥
न केवलमेतावत् । किं तर्हि ?
ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं
मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते
तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ॥ ३ ॥
ततः सुखानुभवानन्तरं परिवृत्तिरिह लोके जन्म भवति । तस्यां च
कर्मणां यः फलशेषोऽभुक्तोऽशः, तेन जातिं ब्राह्मणादिकां विशिष्टे वा कुले
जन्म। रूपं कान्तिम्। वर्णं हेमादितुल्यम्। बलं प्रतिपक्षनिग्रहक्षमम् । मेधां(२)
ग्रन्थधारणशक्तिम्। प्रज्ञां अर्थधारणशक्तिम्। द्रव्याणि स्वर्णादीनि । धर्मानुष्ठानम्
इतिकरणाद्यच्चाऽन्यदेवं युक्तं तत्सर्वं प्रतिपद्यते । सर्वत्र धर्मशेषो हेतुः ।
कर्माणि भुज्यमानानि सावशेषाणि भुज्यन्ते। ऐहिकस्य शरीरग्रहणादेरपि
कर्मफलत्वात्। धर्मानुष्ठानं प्रतिपद्यत इत्युक्तम्। यदा चैवं तदा सर्ववर्णानां
स्वधर्मानुष्ठान इत्यादि प्रतिपद्यत इत्यन्तं पुनर्भवतीत्यनुक्तसिद्धम् । तत्
तस्माच्चक्रवदुभयोर्लोकयोरिह चाऽमुष्मिंश्च सुख एव वर्तते न जातु चित् दुःख
वर्तते । सुखानुबन्धेनैवाऽऽवृत्तिर्भवतीत्यर्थः ॥ ३ ॥
शरीरोत्पत्तिसंस्कारा(३)अप्यावश्यका इति दर्शयितुं दृष्टान्तमाह--
यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे
फलपरिवृद्धिरेवम् ॥ ४ ॥
चलोपोऽत्र द्रष्टव्यः । यथा चौषधीनां व्रीह्यादीनां वनस्पतीनां चा-
१ इदममृतुकाले इत्यधिकं ख.च पुस्तकयोः ‘रुचितः इत्यादिग्रन्थोऽपि नास्ति तत्र ।
२ मेधां ग्रन्थग्रहणशक्तिम्, प्रज्ञा अर्थग्रहणशक्तिम् इति क. च. पु ।
३ अप्यवश्यापेक्ष्या. इति. च पु

१८४ आपस्तम्बधर्मसूत्रे [ (प.१)क.२.
व्रीह्यादीनां बीजस्य क्षेत्रविशेषे कर्मविशेषे संस्कारविशेषे च क्षेत्रस्य वा कृष्या-
दौ कर्मविशेषे फलपरिवृद्धिर्भवति । त एव व्रीह्यादय ऊषरे उप्ता न प्र
रोहन्ति । कृष्यादिपरिकर्मिते तु क्षेत्रे उप्ताः स्तम्बकरयो भवन्ति । एवं
पुरुषेऽपि गर्भाधानादिसंस्कारसम्पन्ने द्रष्टव्यम् ॥ ४ ॥
एतेन दोषफलपरिवृद्धिरुक्ता ॥ ५ ॥
एतेनैव न्यायेन दुष्टकर्मफलपरिवृद्धिरप्युक्ता वेदितव्या । (१)तत्रोहेन पठ-
नीयम्-सर्ववर्णानां स्वधर्माननुष्ठाने परमपरिमितं दुःखम् । ततः परिवृत्तौ
कर्मफलशेषेण दुष्टां जात्यादिकामद्रव्यान्तामधर्मानुष्ठानमिति प्रतिप-
द्यते । तच्चक्रवदुभयोर्दुःख एव वर्तते । यथौषधिवनस्पतीनां बीज-
स्य क्षेत्रकर्मविशेषाभावे फलहानिरेवमिति ॥ ५ ॥
दोषफलपरिवृद्धावुदाहरणमाह--
स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मि
ँल्लोकेऽपरिमिते निरये वृत्ते जायते चण्डालो ब्राह्मणः
पौल्कसो राजन्यो वैणो वैश्यः ॥ ६ ॥
स्तेनः सुवर्णचोरः । अभिशस्तो ब्रह्महा स्तेनोऽभिशस्तो वा ब्राह्मणादिर-
मुष्मिंल्लोकेऽपारिमने निरये दोषफलमनुभूय तस्मिन् वृत्ते परिक्षीणे ब्राह्म-
णश्चण्डालो जायते। शूद्रात् ब्राह्मण्यां जातश्चण्डालः, राजन्यः, पौल्कसः । शूद्रा-
त्क्षत्रियायां जातः पुल्कसः । स एव पौल्कसः । प्रज्ञादित्वादण् । वैश्यो, वैणो
जायते(२) वेणुना नर्तको वैणः ॥ ६ ॥
एतेनाऽन्ये दोषफलैः कर्मभिः परिध्वंसा दोषफलासु
योनिषु जायन्ते वर्णपरिध्वंसायाम् ॥ ७ ॥
वर्णपरिध्वंसा वर्णेभ्यः प्रच्यवनं तस्यां वर्णपरिध्वंसायाम् । यथा ब्राह्म-
णादयश्चण्डालाद्या जायन्ते । एतेन प्रकारेण स्तेनाभिशस्ताभ्यां
अन्येऽपि दोषफलैः कर्मभिर्दोषफलासु सूकरादिषु, योनिषु जायन्ते । परिध्वंसाः
स्वजातिपरिभ्रष्टा इत्यर्थः । ते तथाऽवगन्तव्या इति ॥ ७ ॥
यथा चण्डालोपस्पर्शने सम्भाषायां दर्शने च
दोषस्तत्र प्रायश्चित्तम् ॥ ८ ॥
१. तत्रोक्त व्यत्ययेन पठनीयम् । इति. घ. पु.
२. वेणुर्नर्तकः स एव वैणः । इति. घ पु.

गृहस्थधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १८५
चण्डालोपस्पर्शने दोषो भवति । तथा सम्भाषाया दर्शने च । उपसम-
स्तमपि चण्डालग्रहणमभिसम्बध्यते । तत्र सर्वत्र प्रायश्चित्तं वक्ष्यते ॥८॥
अवगाहनमपामुपस्पर्शने ॥९॥ सम्भाषायां ब्राह्मणस-
म्भाषा ॥ १० ॥ दर्शने ज्योतिषां दर्शनम् ॥ ११ ॥
उपस्पर्शने सत्यवगाहनमपां प्रायश्चित्तम् । ऋजुनी उत्तरे द्वे सूत्रे । अस्मिन्
कर्मप्रशंसाप्रकरणे प्रायश्चित्ताभिधानं स्वकर्मच्युतानां निन्दार्थम् । एवं-
नाम निन्दितश्चण्डालः यस्य दर्शनेऽपि प्रायश्चित्तं स एव जायते स्व-
कर्मच्युतो ब्राह्मण इति ॥ ९–११ ॥
इत्यास्तम्बधर्मसूत्रवृत्तावुज्ज्वलायां द्वितीयप्रश्ने
द्वितीया कण्डिका ॥ २ ॥
इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां
द्वितीयप्रश्ने प्रथमः पटलः ॥ १ ॥
आप० ध० २४

अथ द्वितीयः पटलः ॥
आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः ॥ १ ॥
आर्यास्त्रैवर्णिकाः । 'आर्याधिष्ठिता वा शूद्रा' (२.३,४) इत्युत्तरत्र दर्श-
ातू । प्रयताः स्नानादिना शुद्धाः । वैश्वदेवे गृहमेधिनोभोजनार्थे पाके ।
'गृहमेधिनो यदशनीयस्ये' (३-१२) ति दर्शनात् । अन्नसंस्कर्तार स्युः । अन्नं
भक्ष्यभोज्यपेयादिकं तत् संस्कुर्युः । न स्वयं, नाऽपि स्त्रियः ॥ १ ॥
भाषां कासं क्षवधुमित्यभिमुखोऽन्नं वर्जयेत् ॥ २ ॥
भाषा शब्दोच्चारणम् । कासः कण्ठे घुरुघुराशब्दः । क्षवथुः क्षुतम् ।
एतत्त्रितयमन्नाभिमुखो न कुर्यात् । 'संस्कर्तारः स्यु'रिति बहुवचने प्र-
कृते 'वर्जये'दित्येकवचन प्रत्येकमुपदेशार्थम् ॥ २ ॥
केशानङ्गं वासश्चाऽऽलभ्याऽप उपस्पृशेत् ॥ ३ ॥
केशादीनात्मीयानन्यदीयान्वा । आलभ्य स्पृष्ट्वा । अप उपस्पृशेत् । नेदं
स्नानम् । किं तर्हि ? स्पर्शमात्रम् । केशालम्भे पूर्वमप्युपस्पर्शनं विहि
तम् । इद तु तत्रोक्तं वैकल्पिकं शकृदाद्युपस्पर्शनं मा भूदिति ॥ ३ ॥
आर्याधिष्ठिता वा शूद्रास्संस्कर्तारः स्युः ॥ ४ ॥
त्रैवर्णिकैरधिष्ठिता वा शूद्रास्संस्कर्तार स्युः । प्रकरणादन्नस्येति गम्यते ॥४॥
तेषां स एवाऽऽचमनकल्पः ॥ ५ ॥
तेषां शूद्राणामन्नसंस्कारे ऽधिकृतानां स एवाऽऽचमनकल्पो वेदितव्यः,
यस्याऽन्नं पचन्ति । यदि ब्राह्मणम्य, हृदयङ्गमाभिरद्भिः । यदि क्षत्रि-
यस्य, कण्ठगाभिः । यदि वैश्यस्य, तालुगाभिः । इन्द्रियोपस्पर्शनं
च भवति ॥ ५ ॥
अधिकमहरहः केशश्मश्रुलोमनखवापनम् ॥ ६ ॥
शूद्राः पचन्तः प्रत्यहं केशादि वापयेयुः । इदमेषामधिकमार्येभ्यः ॥६॥
उदकोपस्पर्शनं च सह वाससा ॥ ७ ॥
सहैव वाससा स्नानं कुर्युः । आर्याणां तु परिहितं वासो निधाय कौ
पीनाच्छादनमात्रेणाऽपि स्नानं भवति । शूद्राणामपि पाकादन्यत्र । त-

वैश्वदेवम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८७
था च मनुः-
(१)'न वासोभिस्सहाऽज्जं नाऽविज्ञाते जलाशये ।' इति ॥ ७ ॥
अपि वाऽष्टमीष्वेव पर्वसु वा वपेरन् ॥ ८ ॥
यदि वाऽष्टमीष्वेव वपेरन् केशादीन् पर्वस्वेव वा । न प्रत्यहम् । 'वपेर'न्निति
अन्तर्भावितण्यर्थः । वापयेरन्नित्यर्थः । तथा च 'लोमनखवापन'मिति
पूर्वत्र णिच्प्रयुक्तः ॥ ८ ॥
परोक्षमन्नं संस्कृतमग्नावधिश्रित्याऽद्भिः प्रोक्षेत्त-
द्वेवपवित्रमित्याचक्षते ॥ ९ ॥
यदि शूद्राः परोक्षमन्नं संस्कुर्युः आर्यैरनधिष्ठिताः । तदा तत्परोक्षमन्न
संस्कृत स्वयमग्नावधिश्रयेत् । अधिश्रित्याऽद्भिः प्रोक्षेत् । तदेवंभूतमन्नं देवपवित्र-
मित्याचक्षते । देवानामपि तत्पवित्रं किं पुनर्मनुष्याणामिति ॥ ९ ॥
सिद्धेऽन्ने तिष्ठन् भूतमिति स्वामिने प्रब्रूयात् ॥ १० ॥
सिद्धे पक्वेऽन्ने तिष्ठन् पाचकोऽधिष्ठाता वा भूतमिति प्रब्रूयात् । कस्मै ? य-
स्य तदन्न तस्मै स्वामिने । भूतं निष्पन्नमित्यर्थः ॥ १० ॥
तत्सुभूतं विराडन्नं तन्मा क्षायीति प्रतिवचनः ॥ ११ ॥
तत्सुभूतमित्यादि प्रतिवचनो मन्त्रः । तदन्नं सुभूतं सुनिष्पन्नम् ।
विराट् विराजः साधनम् । अन्नमशनम् । तन्न मा क्षायि क्षीणं मा भू-
दित्यर्थः ॥ ११ ॥
गृहमेधिनो यदशनीयं तस्य होमा बलयश्च
स्वर्गपुष्टिसंयुक्ताः ॥ १२ ॥
गृहमेधिनो यदशनीय पकमन्नं वा उपस्थितं तस्यैकदेशेन होमा बलयश्च
वक्ष्यमाणाः कर्तव्याः । स्वर्गः पुष्टिश्च तेषां फलमिति ॥ १२ ॥
तेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्या ब्रह्मचर्यं
क्षारलवणवर्जनं च ॥ १३ ॥
तेषां होमानां बलीनां च ये मन्त्रास्तेषामुपयोगे । उपयोगो नियम-
पूर्वकं विद्याग्रहणम्(२) । तत्र द्वादशाहमधश्शय्या स्थण्डिलशायित्वम् । ब्रह्म
१. म. स्मृ. ४. १२९
२. तथा च बौधायनः-'तेषां ग्रहणे द्वादशरात्र' मित्यादि इत्याधिकं ख. पुस्तके ।

१८८ आपस्तम्बधर्मसूत्रे [ (प.२.) क.३.
चर्ये मैथुनवर्जनम् । (१)क्षारलवणवर्जनं च भवति । उपयोक्तुरेव व्रतम्,
अध्ययनाङ्गत्वात् । अन्ये तु पत्न्या अपीच्छन्ति । उपयोगः प्रथमयोगः तत्र
च पत्न्या अपि सहाऽधिकार इति वदन्तः ॥ १३ ॥
उत्तमस्यैकारात्रमुपवासः ॥ १४ ॥
उत्तमस्य 'उत्तमेन वैहायस(२.४.८.) मिति वक्ष्यमाणस्य(२) 'ये भूताः
प्रचरन्ती'त्यस्य एकरात्रमुपवासः कर्तव्यः ॥ १४ ॥
बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्याऽऽवो-
क्ष्य न्युप्य पश्चात्परिषेचनम् ॥ १५ ॥
बलीना मध्ये तस्यतस्य बलेर्देशे सस्कारः कर्तव्यः । कः पुनरसौ ? हस्तेन
परिमार्जनमवोक्षणं च । तं कृत्वा बलिं निवपति । न्युप्य पश्चात् परिषेचनं
कर्तव्यम् । उपदेशक्रमादेव सिद्धे पश्चाद्ग्रहणं मध्ये गन्धमाल्यादिदाना-
र्थमित्याहुः । 'तस्यतस्ये'ति वचनं सत्यपि सम्भवे सकृदेव परिमार्ज-
नमवोक्षणं च मा भूत् । एकस्मिन्देशे समवेतानामपि पृथक्पृथग्यथा
स्यादिति ॥ १५ ॥
औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन
जुहुयात् ॥ १६ ॥
यत्र पच्यते स पचनोऽग्निः । औपासनवतामौपासने, विधुरस्य पचन
इति व्यवस्थितो विकल्पः । अन्ये तु-तुल्यविकल्पं मन्यन्ते । षड्भिराद्यैः
(३)‘अग्नये स्वाहा, सोमाय स्वाहा, विश्वेभ्यो देवेभ्यस्स्वाहा, ध्रुवाय
भौमाय स्वाहा, ध्रुवक्षितये स्वाहा, अच्युतक्षितये स्वाहेत्येतैः । एते हि
मन्त्रपाठे पठिताः प्राग्विवाहमन्रेभ्यः विशिष्टनियमसापेक्षग्रहणत्वात्तै-
स्सह न गृह्यन्ते । केचित् सौविष्टकृतमपि सप्तमं जुह्वति 'अग्नये स्विष्ट
कृते स्वाहे'ति ओषधहविष्केषु तस्य सर्वत्र प्रवृत्तिरिति वदन्तः । अन्ये
तु सोमाय स्वाहेति न पठन्ति । सौविष्टकृतं षष्ठं पठन्ति । हस्तग्रहणं
दर्व्यादिनिवृत्त्यर्थम् ॥ १६ ॥
१. क्षारपदार्थः आप. ध २. १५. १४ सूत्रे द्रष्टव्यः ।
२. ये भूताः प्रचरन्ति दिवा नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलिं
पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु ॥ इति मन्त्रः । ( तै. आ १०. ६७. )
३. आप मन्त्रप्रश्ने. १. १.

वैश्वदेवबलिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १८९
उभयतः परिषेचनं यथा पुरस्तात् ॥ १७ ॥
उभयतः पुरस्तादुपरिष्टाच्च परिषेचनं कर्तव्यम् । कथम् ? यथा पुरस्तात्
उक्तं गृह्ये(१) 'आदितेऽनुमन्यस्वे'त्यादि, 'अन्वमँस्थाः प्रासावीदिति मन्त्र-
सन्नाम' इति च । सामयाचारि‍केषु पार्वणातिदेशो न प्रवर्तत इति
ज्ञापितत्वादप्राप्तविधिरयम् । अन्ये तु परिसङ्ख्यां मन्यन्ते-परिषेचन-
मेव वैश्वदेवे, नान्यत्तन्त्रमिति ॥ १८ ॥
एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते
परिषेचनम् ॥ १८ ॥
यथा षण्णामाहुतीनां परिषेचनं तन्त्रम् , विभवात् । एवं बलयो-
ऽपि ये एकस्मिन् देशे समवेता 'उत्तरैर्ब्रह्मसदन' (४.२.४) इत्यादयस्तेषां
यदन्ते परिषेचनं प्राप्तं 'पश्चात्परिषेचन' मित्यनेन विहितं तत्सर्वान्ते
सकृत्कर्तव्यम्, न प्रत्येकं पृथगिति । असत्यस्मिन् सूत्रे पूर्वत्र 'तस्य तस्ये'
ति वचनाद्यथा परिमार्जनमवोक्षणं च प्रत्येक पृथक्पृथग्भवति तथा
परिषेचनमपि स्यात् । अत्र चोपदेशादेव य एकदेशस्था बलयस्तेषामेव
सकृदन्ते परिषेचनं, न यादृच्छिकसमवेतानाम् । तेन यद्यप्यगारस्योत्त-
रपूर्वदेशश्शय्यादेशः, तथापि कामलिङ्गस्य पृथक्परिषेचनं भवति ॥१८॥
सति सूपसंसृष्टेन कार्याः ॥ १९ ॥
सति सूपे तत्संसृष्टा बलयः कार्याः । अन्ये त्वन्यैरपि व्यञ्जनैस्संसर्ग-
मिच्छन्ति । तथा च बोधायन.-(२) 'काममितरेष्वायतने'ष्विति । एष
एव व्यञ्जनानां संस्कार. । ३) सूत्रस्यापि—व्यञ्जनैस्सुष्ठुरसंसृष्टेनाऽन्नेन
बलयः कार्यास्सति सम्भव इत्यर्थः इति ॥ १९ ॥
अपरेणाऽग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् ॥ २० ॥
अपरेणाऽग्निमग्नेः पश्चात् । सप्तमाष्टमाभ्या 'धर्माय स्वाहा, अधर्माय स्वाहे'
त्येताभ्यां बलिहरणं कर्तव्यम् । उदगपवर्गम् । न प्रागपवर्गम् ॥ २० ॥
उदधानसन्निधौ नवमेन ॥ २१ ॥
उदकं यत्र धीयते तदुदधानं(४) मणिकाख्यम् । तस्य सन्निधौ नवमेन
१. आप गृ. २. ३. २. बौ. गृ. १. ८. १.
३. सूपस्यापि । व्यञ्जनैरपूपेन च संसृष्टेन बलय इति. क. छ. पु.
४. अस्य विधिर्गृह्ये वास्तुनिर्माणविधौ ( आप गृ १७. ९ ) द्रष्टव्यः ।

१९० आपस्तम्बधर्मसूत्रे [ (प्र.२.) क. ४.
'अद्भ्यः स्वाहे'त्यनेन ॥ २१ ॥
मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् ॥ २२ ॥
दशमैकादशाभ्यां 'ओषधिवनस्पतिभ्यः स्वाहा, रक्षोदेवजनेभ्यः स्वा-
हे'त्येताभ्यां अगारस्य मध्ये प्रागपवर्गं कर्तव्यम् ॥ २२ ॥
उत्तरपूर्वे देशेऽगारस्योत्तरैश्चतुर्भिः ॥ २३ ॥
अगारस्य य उत्तरपूर्वो देशस्तत्रोत्तरैश्चतुर्भिः 'गृहाभ्यः स्वाहा, अवसा-
नेभ्यः स्वाहा, अवसानपतिभ्यः स्वाहा, सर्वभूतेभ्यः स्वाहे'त्येतैः
प्रागपवर्गमित्येव ॥ २३ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने तृतीया कण्डिका ॥३॥
शय्यादेशे कामलिङ्गेन ॥ १ ॥
शय्यादेशे 'कामाय स्वाहे'त्यनेन ॥ १ ॥
(१)देहल्यामन्तरिक्षलिङ्गेन ॥ २ ॥
देहली द्वारस्याऽधस्ताद्दारु । तस्याऽधोवेदिकेत्यन्ये । अन्तर्द्वा-
रस्य च ग्रहणम् । तत्राऽन्तरिक्षलिङ्गेन 'अन्तरिक्षाय स्वाहे'त्यनेन ॥ २ ॥
उत्तरेणाऽपिधान्याम् ॥ ३॥
येनाऽपिधीयते द्वारं साऽपिधानी कवाटम् । तदर्गलमित्यन्ये । तत्रोत्त-
रेण मन्त्रेण 'यदेजति जगति यच्च चेष्टति नाम्नो भागो यन्नाम्ने स्वा-
हे'त्यनेन ॥ ३ ॥
उत्तरैर्ब्रह्मसदने ॥ ४ ॥
अगारस्येत्यनुवृत्तेः तत्र यो ब्रह्मसदनाख्यो देशः वास्तुविद्याप्रसिद्धो
(२)मध्येऽगारस्य । तत्रोत्तरैर्दशभिः 'पृथिव्यै स्वाहा, अन्तरिक्षाय स्वाहा,
दिवे स्वाहा, सूर्याय स्वाहा, चन्द्रमसे स्वाहा, नक्षत्रेभ्यः स्वाहा, इन्द्राय
स्वाहा, बृहस्पतये स्वाहा, प्रजापतये स्वाहा, ब्रह्मणे स्वाहे'त्येतैः प्राग
पवर्गमित्येव ।
१. देहिन्यामिति पाठः क. पुस्तके ।
२. मध्येऽगारस्येत्यतः तस्य देशस्योपयुक्तत्वात् इत्यधिकः पाठः ख. पुस्तके ।

वैश्वदेवबलिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १९१
अपर आह—ब्रह्मा यत्र सीदति गार्ह्येषु कर्मसु अग्नेर्दक्षिणतो
ब्रह्मसदनं तन्नेति ॥ ४ ॥
दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीन-
पाणिः कुर्यात् ॥ ५ ॥
अनन्तराणां बलीनां दक्षिणत पितृलिङ्गेन ‘स्वधा पितृभ्य’ इत्यनेन बलिं
कुर्यात्, प्राचीनावीत्यवाचीनपाणिश्च भूत्वा दक्षिणं पाणिमुत्तानं कृत्वा अङ्गुष्ठत-
र्जन्योरन्तरालेन ॥ ५ ॥
रौद्र उत्तरो यथा देवताभ्यः ॥ ६ ॥
पितृबलेरुत्तरतो रौद्रबलिः कर्तव्यः । यथा देवताभ्य तथा, प्राचीनावीत्य-
वाचीनपाणिरिति नाऽनुवर्तत इत्यर्थः । ‘नमो रुद्राय पशुपतये स्वाहे’ति
मन्त्रः । अत्र यद्यपि पशुपतिलिङ्गमप्यस्ति, तथापि तद्रुद्रस्यैव विशेषण
मिति रौद्र इति व्यपदेशो नाऽनुपपन्नः । देवतास्मरणमपि रुद्रायेत्येव
कुर्वन्ति । रुद्राय पशुपतय इत्यन्ये । केचित्तु-उत्तरो मन्त्रो रौद्रः न पशु-
पतिदैवत्य इत्याचक्षते । तेषां देशः प्राग्वोदग्वा पिण्डात् ॥ ६ ॥
तयोर्नाना परिषेचनं धर्मभेदात् ॥ ७ ॥
तयोरनन्तरोक्तयोर्बल्योरेकस्मिन् देशे समवेतयोरपि नाना पृथक्
परिषेचनं कर्त्तव्यम् । कुतः ? धर्मभेदात् । पित्र्यस्याऽप्रदक्षिणं परिषेचनं
कर्तव्यम् । इतरस्य दैवत्वात्प्रदक्षिणमिति ॥ ७ ॥
नक्तमेवोत्तमेन वैहायसम् ॥ ८ ॥
उत्तमेन ‘ये भूताः प्रचरन्ति नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः ।
तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहे’(१)
त्यनेन वैहायसं बलिं दद्यात् । तच्च नक्तमेव । ‘वैहायसमि’ति वचनादा
काश एव बलिरुत्क्षेप्यः, न छदिष्कृते देशे । तथाच बौधायनः-
(२)‘अथाऽऽकाश उत्क्षिपति ये भूताः प्रचरन्ती’ति ।
अपर आह—एवकारो भिन्नक्रमः । नक्तमुत्तमेनैव बलिरिति तत्र ब
ल्यन्तराणां रात्रौ निवृत्तिः । अन्ये तु-ऊहेन दिवा बलिं हरन्ति ‘दिवा
१ अत्र “अग्नये स्वाहा” इत्यादिका. ‘ये भूताः प्रचरन्ति’ इत्यन्ता. मन्त्राः एका-
ग्निकाण्डाख्यतैत्तिरीयमन्त्रपाठस्याऽऽदौ महानारायणोपनिषदि च पठिताः । (महाना.६७)
२. बौ. गृ. १. ८.

२९ आपस्तम्बधर्मसूत्रे [ (१२.) क. ४.
ष्टमिच्छन्त' इति । आश्वलायनके तथा दर्शनात् (१)'दिवाचारिभ्य
ने दिवा । नक्तंञ्चारिभ्य इति (बलिमाकाशे उत्क्षिपे)न्नक्त'मिति । तथा
मनुः—
(२)'दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ।' इति ॥ ८ ॥
एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ॥९॥
य एताननन्तरोक्तान् होमान् बलींश्च । अव्यग्र समाहितमना भूत्वा
ोपदेशमुपदेशानतिक्रमेण कुरुते । य इति वचनात्तस्येति पूर्वं
म्ब्यते । तस्य नित्यः स्वर्गः पुष्टिश्च 'स्वर्गपुष्टिसयुक्ता' इति यत् पूर्वमुक्त
स्याऽर्थवादताशङ्का मा भूदिति पुनर्वचनम् । पुष्टिस्वर्गौ नित्यावेव भ
तः, न प्रबलैरपि कर्मान्तरैर्बाधनमात ॥ ९ ॥
अग्रं च देयम् ॥ १० ॥
बलिहरणानन्तरं अग्रं च देयं भिक्षवे ॥ १० ॥
अतिथीनेवाऽग्रे भोजयेत् ॥ ११ ॥
अतिथीन्वक्ष्यति । तानेवाग्रे भोजयेत् न स्वयं सह भुञ्जीत पूर्वं वा । एव-
मतिथिव्यतिरिक्तानन्यानपि भोजयितव्यान पश्चादेव भोजयेत् ॥ ११ ॥
बालान्वृद्धाञ्रोगसम्बन्धान्स्त्रीश्चान्तर्वत्नीः ॥ १२ ॥
ये च गृहवर्तिनो बालादयः तानप्यग्र एव भोजयेत् । अन्तर्वत्नीरित्येव
सिद्धे स्त्रीग्रहणं स्वस्रादीनामपि ग्रहणार्थम् । अन्तर्वत्नीग्रहणं (३)सर्वत्र
पूजार्थम् ॥ १२ ॥
काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् ॥१३॥
काले वैश्वदेवान्ते अन्नार्थमुपस्थितं स्वामिनौ गृहपती न प्रत्याचक्षीयाताम्
अवश्यं तस्मै किञ्चिद्देयमिति ॥१३॥
अभावे किं कर्तव्यम् ? तत्राह—
(४)अभावे भूमिरुदकं तृणानि कल्याणी वागित्येतानि
वै सतोऽगारे न क्षीयन्ते कदाचनेति ॥ १४ ॥


१. आश्व. गृ. १. २. २. २. म. स्मृ. ३. ९०
३ सर्वपूर्वार्थं इति घ. च. पु. ४. तृणानि भूमिरुदक वाक् चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ इति मनुः ॥

गृहस्थधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १९३
भूमिरुपवेशनयोग्या । उदकं पादप्रक्षालनादियोग्यम् । तृणानि शयना-
सनयोग्यानि । कल्याणी वाक् स्वागतमायुष्मन्ते, इहाऽऽस्यतामित्यादिका ।
एतानि भूम्यादीनि । सतोऽगारे सतस्सत्पुरुषस्य निर्धनस्याऽपि गृहे कदाचिदपि
न क्षीयन्ते । वैशब्दः प्रसिद्धौ । अत एव तैरुपचारः कर्तव्यः । इतिशब्द-
प्रयोगादेवं धर्मज्ञा उपदिशन्तीति ॥ १४ ॥
एवंवृत्तावनन्तलोकौ भवतः ॥ १५ ॥
यौ गृहमेधिनौ विवाहादारभ्य आन्तादेवंवृत्तौ भवतः तयोरनन्ता लोका
भवन्ति । ज्योतिष्टोमादिभ्योऽपि कतिपयदिनसाध्येभ्यो दुष्करमेतदा-
न्ताद्व्रतम् ॥ १५ ॥
ब्राह्मणायाऽनधीयानायाऽऽसनमुदकमन्नमिति
देयं न प्रत्युत्तिष्ठेत् ॥ १६ ॥
यद्यनधीयानो ब्राह्मणोऽतिथिधर्मेणाऽऽगच्छेत् तदा तस्मै आसनादिकं
देयम् । प्रत्युत्थानं तु न कर्तव्यम् । अस्मादेव ज्ञायते-अधीयाने प्रत्यु-
त्थेयमिति ॥ १६ ॥
अभिवादनायैवोत्तिष्ठेदभिवाद्यश्चेत् ॥ १७ ॥
यदि पुनरसौ अनधीयानोऽपि 'दशवर्षं पौरसख्यं' (१. १४. १२.)
मित्यादिना ऽभिवाद्यो भवति तदा अभिवादनायैवोत्तिष्ठेत् ॥ १७ ॥
राजन्यवैश्यौ च ॥ १८ ॥
अधीयानावपि राजन्यवैश्यौ न प्रत्युत्तिष्ठेत् ब्राह्मणः । आसनादिकं
तु देयमिति ॥ १८ ॥
(१)शूद्रमभ्यागतं कर्मणि नियुञ्ज्यात् ॥ १९ ॥
यदि शूद्रो द्विजाति प्रत्यातिथिरागच्छति तदा तमुदकाहरणादौ
कर्मणि नियुञ्ज्यात् नियुञ्जीत ॥ १९ ॥
अथाऽस्मै दद्यात् ॥ २० ॥
अथ तस्मिन् कृते भोजनं दद्यात् ॥ २० ॥
दासा वा राजकुलादाहृत्या ऽतिथिबच्च्छूद्रं पूजयेयुः ॥२१॥
अथवा येऽस्य गृहमेधिनो दासाः ते राजकुलादाहृत्य तं शूद्रमतिथिवत्पूज-
१ इदमग्रिम च सूत्रमेकीकृतं घ. पुस्तके ।
आप० ध० २५