सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 176, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 176

स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १६५

  • अत्र व्रतशब्देनाऽग्नीन्धनभैक्षाचरणादयो ब्रह्मचारिधर्मा उच्यते ।
    तेषु हि कालपरिमाणस्य श्रुतत्वात् पारं नीत्वेति युज्यते । दृश्यते च
    तेषु व्रतशब्दः । 'यथा व्रतेषु समर्थस्स्याद्यानि वक्ष्याम इति । न तु
    सावित्र्यादीनि वेदव्रतान्युच्यन्ते । तेषां तत्तत्प्रदेशाध्ययनशेषतया त-
    दभावेऽभावाद्शेदं व्रतानि वेति विकल्पानुपपत्तेः । अतः कालविशे-
    षावच्छिन्नानि व्रतानि वेदमुभयं वा पारं नीत्वेत्यर्थः * ॥ ३ ॥
    तेषु सर्वेषु स्नातकवद्वृत्तिः ॥ ४ ॥
    विद्यास्नातको व्रतस्नातक उभयस्नातक इति त्रयः स्नातका उक्ताः
    तेषु सर्वेषु स्नातकवत् 'तदर्हती'ति वतिः । स्नातकार्हा वृत्तिः पूजा(१) य-
    त्राऽस्मा अपचिति' मित्यादिः कार्या । न तु व्रतस्नातके न्यूना, उभयस्ना-
    तकेऽधिकेति ॥ ४ ॥
    यद्यप्येवं तथाऽपि पूजयितुः फलविशेषोऽस्तीत्याह--
    समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायां फलविशेषः ॥५॥
    कर्तव्येषु कर्मस्ववधानं समाधि । श्रुति श्रुतम् ॥ ५ ॥
    अथ स्नातकव्रतानि ॥ ६ ॥
    इत उत्तरं स्नातकव्रतान्यधिकृतानि वेदितव्यानि । यद्यपि वक्ष्यमाणे-
    षु कानिचित् साधारणान्यपि भवन्ति तथाऽपि भूम्ना स्नातकव्रतान्य-
    धिक्रियन्ते ॥ ६ ॥
    पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि शीलयेदुत्तरेण वा ॥७॥
    यदा ग्रामान्निष्क्रामति ग्रामं वा प्रविशति तदा पूर्वेण द्वारेणोत्तरेण
    वा कुर्यात्, न द्वारान्तरेण । शीलयेदिति वचनाद्यदृच्छया द्वारान्तरेण
    निष्क्रमणप्रवेशनयोरपि न प्रायश्चित्तम् ॥ ७ ॥
    सन्ध्योश्च बहिर्ग्रामादासनं वाग्यतश्च ॥ ८ ॥
    अहोरात्रयोः सन्धानं सन्धिः । तौ च द्वौ-सायं प्रातश्च । (२)सज्यो-
    तिष्याज्योतिषोऽदर्शनात्' इति गौतमः । तयोस्सन्ध्ययोर्ग्रामाद्बहिरासीत ।
  • एतच्चिन्हान्तर्गतो भोगोऽधिकपाठतया परिगणित ख पुस्तके । ग. पुस्तके
    नास्ति पाठः । अन्यत्र तु यथायथमस्ति ।
    १. आप. गृ. १३. २.
    २. गौ. २. ११, 'सज्योतिषि' इत्यादि 'गौतम' इत्यन्तं नास्ति छ. पु.