आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 177, कुल 399 में से
संदर्भ में पढ़ें१६६ आपस्तम्बधर्मसूत्रे [(प.१०)क.३०.
वाग्यतश्च भवेत् । मनुः पुनराह—
(१)पूर्वां सन्ध्यां जपस्तिष्ठेत् सावित्रीमाऽर्कदर्शनात् ।
पश्चिमां तु समासीत सम्यगृक्षविभावनात् ॥' इति
(२)'तिष्ठेत् पूर्वामासीतोत्तराम्, इति गौतमः । एते ब्रह्मचारिविषये ।
स्नातके आसनस्य वाङ्नियमस्य चाऽत्र विधानात् ।
अन्ये तु-आसनग्रहण स्थानस्याऽप्युपलणम्, वाग्यमश्च लौकिक्या
वाचो निवृत्तिः, न सावित्रीजपस्येति वर्णयन्ति ॥ ८ ॥
आहिताग्निविषयेऽस्याऽपवादः—
विप्रतिषेधे श्रुतिलक्षणं बलीयः ॥ ९ ॥
विरोधो विप्रतिषेध अग्निहोत्रिणो बहिरासनमग्निहोत्रहोमश्च विरु
ध्येते । तथा च श्रूयते-‘समुद्रो वा एष यदहो रात्रः, तस्यैते गाधे तीर्थे
यत्सन्धी तस्मात् सन्धौ होतव्यम्” इति । तत्र श्रुतिलक्षणमग्निहोत्रमेव
कर्तव्यम्, न स्मार्त्तं बहिरासनम् । तस्य कल्प्यमूलत्वादितरस्य च
क्लृप्तमूलत्वादिति । (३)जैमिनिरप्याह--(४)विरोधे त्वनपेक्षं स्यादसति
ह्यनुमानमिति ॥९॥
सर्वान्रागान्वाससि वर्जयेत् ॥ १० ॥
कुसुम्भादयस्सर्वे रागाः वाससि वर्जनीयाः, न केनचिद्रक्तं वासो
बिभृयादिति ॥ १० ॥
कृष्णं च स्वाभाविकम् ॥ ११ ॥
यच्च स्वभावतः कृष्णं कम्बलादि तदपि न वसीत ॥ ११ ॥
अनूद्भासि वासो वसीत ॥ १२ ॥
उद्भासनशीलमुद्भासि उद्बणम् । ततोऽन्यदनूद्भासि । छान्दसो
दीर्घः । एवम्भूतं वासो वसीत आच्छादयेत् ॥ १२ ॥
अप्रतिकृष्टं च शक्तिविषये ॥ १३ ॥
प्रतिकृष्ट निकृष्टं जीर्णे मलवत् स्थूलं च । तद्विपरीतमप्रतिकृष्टम् ।
तादृशं च वासो वसीत शक्तौ सत्याम् ॥ १३ ॥
१. म. स्मृ. २ १०१ २. गौ. ध २. ११.
३. इत्यादि नास्ति. छ. पु. ४. जै सू १. ३. ३.