सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)

Aparokshanubhuti with Dipika & Hindi Commentary

आदि शङ्कराचार्य द्वारा

स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)

DevanagariSanskritpublished109 पृष्ठ

( २८ ) अपरोक्षानुभूतिः ।
सं. टी. पुनः किंलक्षणं ज्ञानमित्यत आह निर्गुण
इति । अहं निर्गुणो गुणरहितः गुणानां मायामयत्वा-
दित्यर्थः अत एव निष्क्रियः क्रियारहितः तथा नित्यो
विनाशरहितः अत एव नित्यमुक्तः कालत्रयेपि बंधशून्यः
तत्र हेतुः अच्युतः अप्रच्युतसच्चिदानंदस्वभावः ॥२७॥
भा. टी. मैं रजोगुण सतोगुण तमोगुणरूप तीन गुणों करके
रहितहूं क्रिया करके रहितहूं नित्यहूं नित्यमुक्तहूं अर्थात्
सर्वदाही बन्धशून्यहूं अच्युतहूँ अर्थात् सदा ज्ञानमयहूं
मैं नाशवान् देह नहींहूं इस प्रकार ज्ञानको पण्डित जन
तत्वज्ञान कहैं हैं ॥ २७ ॥
निर्मलो निश्चलोऽनन्तः शुद्धोऽहम-
जरोऽमरः ॥ नाहं देहो ह्यसद्रूपो ज्ञान-
मित्युच्यते बुधैः ॥ २८ ॥
सं. टी. पुनरपि ज्ञानलक्षणमाह निर्मल इति । अहं
निर्मलः अविद्यातत्कार्यलक्षणमलरहितः अत एव
निश्चलः व्यापकत्वादाकाशवन्निश्चल इत्यर्थः निश्च-
लत्वे हेतुः अनंतः देशकालवस्तुपरिच्छेदशून्यः शुद्धः
अशुद्धिरहितः पुनरजरः जरारहितः अमरो मरणरहि-
तश्च सर्वधर्माणां देहत्रयवर्तित्वादिति भावः ॥ २८ ॥
भा. टी. मैं निर्मल अर्थात् सर्वदोषों करके रहितहूं
और निश्चलहूं अर्थात् चलायमान नहीं होऊंहूं अनन्तहूं

संस्कृतटीका-भाषाटीकासहित । ( २९ )
अर्थात् मेरा अन्त नहीं है और शुद्धहूं और अजरहूं अर्थात्
बूढा नहीं होऊंहूं और अमर हूं अर्थात् मेरी कभी मृत्यु नहीं
होयहै नाशवान् देह नहींहूं ऐसा जो ज्ञानहै उसको पण्डितजन
तत्त्वज्ञान कहैं हैं ॥ २८ ॥
स्वदेहे शोभनं संतं पुरुषाख्यं च सम-
तम् ॥ किं मूर्ख शून्यमात्मानं देहा-
तीतं करोषि भोः ॥ २९ ॥
सं. टी. नन्वात्मा प्रत्यक्षदेहरूपो न भवति तर्हि
शून्यत्वमात्मनः स्यादित्याशंक्याह स्वदेहे इति । भो
हे मूर्ख शून्यवादिन् स्वदेहे पुरुषाख्यं पुरि मनुष्यशरीरे
उषति अहमाकारेण वसतीति पुरुष इत्याख्या नाम य-
स्य तं अतएवशोभनं मंगलं शरीरविलक्षणत्वादतिमंगलं
तथा संमतम् "अयमात्मा ब्रह्म" इत्यादिवाक्यनिर्णीतं
चकारात् "उत्तमः पुरुषस्त्वन्यः " इत्यादि स्मृतिनि
र्णीतं घटद्रष्टृवद्देहद्रष्टृत्वेन देहातीतमात्मानं सततं भावं
संतं सर्वव्यवहाराधिष्ठानं शून्यं खपुष्पादिवत् अत्यंता-
ऽभावरूपं किंकरोषि कथं मन्यसे मामन्यथा इति भावः।
क्वचित् स्वदेहमिति द्वितीयांतः पाठस्तस्मिन् पक्षे
देहात्मवाद्येव वदति उक्तलक्षणं मनुष्यदेहं त्यक्त्वा
समानमन्यत् ॥ २९ ॥
भा. टी. हे संसारी मूढ ! तू अपने देहमें विद्यमान मङ्गलमय

( ३० ) अपरोक्षानुभूतिः।
ब्रह्मरूप निर्णय किये हुए देहातीत आत्माको शून्य ज्ञान
करै है ॥ २९ ॥
स्वात्मानं शृणु मूर्ख त्वं श्रुत्या युक्त्या
च पूरुषम् ॥ देहातीतं सदाकारं सुदु
र्दर्शं भवादृशैः ॥ ३० ॥
सं.टी. ननु शून्यवादिना एवाभावापत्तेः शून्यं मास्तु
परंत्वात्मनो देहातीतत्वे प्रमाणाभावाद्देह एवात्मा
स्यादित्याशंक्याह स्वात्मानमिति । भो मूर्ख देहात्मवा-
दिन् चार्वाक त्वं स्वात्मनं स्वकीयमात्मानं पुरुषं देहा-
तीतं देहातिरिक्तं श्रुत्या “तस्माद्वा एतस्मादन्नरसमया-
दन्योंतर आत्मा”इत्यादिकया पुनर्युक्त्याच एकस्मिन्क
र्तृकर्मविरोधइत्यादिरूपया शृणु अवधारय देहातीतत्वे
किमाकार आत्मेत्यत आह सदाकारमिति । सदाका-
रमस्तीत्येतन्मात्रान्यव्यवहारकारणभूत आकारो यस्य तं
एवंविधोस्ति चेत्कुतो न दृश्यत इत्यत आह सुदुर्दर्शमिति
भवादृशैः श्रुत्याचार्यश्रद्धाशून्यैः सुदुर्दर्शं सर्वथा दर्श-
नायोग्यं तस्यादृष्टरूपत्वादेवेत्यर्थः यद्वा पूर्वश्लोकोक्त-
द्वितीयापेक्षया देहात्मवादिनः समाधानात्थोंयं श्लोकः
स्वात्मानमिति ॥ ३० ॥
भा. टी. युक्तियों करके और श्रुतियों करके आत्माको
देहातीत निर्णय तौ कर । हे मूढ ! आत्मा तौ सदाकारहै

⸱संस्कृतटीका-भाषाटीकासहिता। (३१)
'आत्मा'है इसप्रकार व्यवहारके कारण आत्माका आकारभान
होयहै परन्तु तुमसे मूर्खोंके दृष्टिगोचर नहीं होय है ॥ ३० ॥
अहंशब्देन विख्यात एक एव स्थितः
परः॥ स्थूलस्त्वनेकतां प्राप्तः कथं स्या-
देहकः पुमान् ॥ ३१ ॥
सं.टी. तदेवाह अहंमित्यादिसप्तभिः। परः देहादन्य
आत्माऽहंशब्देन शब्द इत्युपलक्षणं प्रत्ययस्यापि वि-
ख्यातः प्रसिद्धः किंलक्षण इत्यत आह एकइति एक एव
स्थित एवेति प्रत्येकमवधारणं तुशब्दः पूर्वोक्तादात्मनः
स्थूलदेहस्य वैलक्षण्यद्योतकः।स्थूलो देहकः देहएव देह-
कः स्वार्थे कः प्रत्ययः कथं पुमान् पुरुषः आत्मा स्यान्न
कथंचिदित्यर्थः देहस्यानात्मत्वे हेतुमाह अनेकतामिति
अनेकतां परस्परं भिन्नतां प्राप्तः एवं तमःप्रकाशवदति
विलक्षणत्वेपि देहस्यात्मत्वं ब्रुवन्नतिमूढत्वादुपेक्ष्य
इति भावः ॥ ३१ ॥
भा. टी. अहं शब्द करिकै कहाजायहै और एकहै और
सबसे उत्कृष्टहै तब किसप्रकार स्थूल अनेकताको प्राप्त
देहमय होसकै है ॥ ३१ ॥
अहं द्रष्टृतया सिद्धो देहो दृश्यतया
स्थितः ॥ ममायमितिनिर्देशात्कथं
स्याद्देहकः पुमान् ॥ ३२ ॥

( ३२ ) अपरोक्षानुभूतिः ।
सं.टी.तदेवातिवैलक्षण्यं दर्शयति अहमिति । अह-
महंशब्दप्रत्ययालंबन आत्मा द्रष्टृतया शब्दादिविषयप्र-
काशकतया सिद्धः शब्दंशृणोमीत्यादिव्यवहारेण प्र-
सिद्धः देहस्तु दृश्यतया शब्दादिवत्प्रकाश्यतया स्थितः
तत्र हेतुमाह ममेति ममायं देह इति घटादिवत्स्वीय-
संबंधितया निर्देशात् व्यवहारात् एवमुभयोर्वैलक्षण्ये
सति कथं देहकः पुमान् स्यादिति व्याख्यातार्थश्चतुर्थ-
पादः एवमग्रेपि बोद्धव्यम् ॥ ३२ ॥
भा. टी. यह मेरा है इस प्रकार निर्देश करनेसे आत्मा द्रष्टा
( देखने वाला ) देह दृश्य ( देखने लायक ) है.इसप्रकार प्रतीत
होयहै। फिर आत्मा किसप्रकार देहमय हो सकै है ॥ ३२ ॥
अहं विकारहीनस्तु देहो नित्यं विकार
वान् ॥ इति प्रतीयते साक्षात्कथं ० ॥ ३३ ॥
सं.टी. पुनर्वैलक्षण्यांतरमाह अहमिति अहं व्याख्या
तार्थः विकारहीनः जायतेस्तीत्यादिषड्विकारहीनः तुवै-
लक्षण्ये देहो नित्यं सर्वकालं विकारवान् अत्रकिंप्रमाण-
मत आह इतीति इति साक्षात् प्रत्यक्षप्रमाणेन प्रतीयते
अनुभूयते एवं सतिकथं स्याद्देहकः पुमानिति ॥ ३३ ॥
भा. टी. आत्मा विकाररहित है और देह सदा विकार-
वान् है ऐसा साक्षात् प्रतीत होय् है फिर किस प्रकार आत्मा
देहमय होसकै है ॥ ३३ ॥

संस्कृतटीका-भाषाटीकासहिता । ( ३३ )
यस्मात्परमिति श्रुत्या तयापुरुषलक्ष-
णम्॥ विनिर्णीतं विमूढेन कथं०॥३४॥
सं.टी.एवं युक्त्या देहात्मनोर्वैलक्षण्यमुक्तवा श्रुत्या-
प्याह यस्मादिति । “यस्मात्परं नापरमस्ति किंचिद्यस्मा-
न्नाणीयो नज्यायोस्तिकश्चित् । वृक्षइव स्तब्धो दिवि ति-
ष्ठत्येकस्तेनेदं पूर्णंपुरुषेण सर्वम् ” इति तया प्रसिद्धया
तैत्तिरीयश्रुत्याकृत्वेति करणे तृतीया पुरुषस्यात्मनो ल-
क्षणं विमूढेन विगतमूढभावेनातिचतुरेण श्रुत्यर्थविवेच-
नकुशलेनेत्यर्थः इयं कर्तरितृतीया विनिर्णीतं विचार्य
स्थापितं अन्यत्पूर्ववत् यद्वा श्रुत्येति कर्तृपदमस्मिन्प-
क्षे विमूढेनेति देहात्मवादिनं प्रति संबोधन विमूढानां
इन स्वामिन् मूर्खशिरोमणित्वादेव श्रुतिं नाद्रियस इ-
तिभावः ॥ ३४ ॥
भा. टी. “ यस्मापरं नापरमस्ति किञ्चित् यस्मान्नाणीयो
नज्यायोऽस्तिकश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं
पूर्णं पुरुषेण सर्वम्”इति श्रुतिः । अर्थात् जिससे पर अपर कुछ
नहीं है जिससे और उत्कृष्ट नहीं है जिससे कोई सक्ष्म नहीं है
जिससे कोई प्रधान नहीं है जो एक आत्मा वृक्षकी तरह स्तब्ध
होकर स्वर्गमें वर्तमान है वही आत्मा इस सम्पूर्ण जगत्को
परिपूर्ण रखताहै । इस श्रुतिसे परमात्माका लक्षण निर्णयकिया
गया है फिर वह आत्मा किस प्रकार देहमय होसक्ताहै॥ ३४ ॥

( ३४ ) अपरोक्षाऽनुभूतिः ।
सर्वपुरुषएवेति सूक्ते पुरुषसंज्ञिते॥ अ-
प्युच्यते यतः श्रुत्या कथं० ॥ ३५ ॥
सं. टी. नकेवलमनयैकया श्रुत्या विनिर्णीतं किंतु-
न्ययापीत्याह सर्वमिति । यतो हेतोः श्रुत्या वेदाख्यपरदे-
वतया ‘पुरुषएवेदंसर्वम्’ इति पुरुषसंज्ञिते सूक्तेऽप्युच्यते
पुरुषलक्षणमिति पूर्वश्लोकादध्याहारः अतः कथं स्या-
दितिपूर्ववत् ॥ ३५ ॥
भा. टी. “पुरुष - एवेदं सर्वं यद्भूतं यच्च भाव्यम्” इति
श्रुतिः।जो कुछ दृष्टिगोचर होयहै सो सब आत्मस्वरूपहै और
जो कुछ हुआ और जो कुछ होयगा सर्व आत्मस्वरूप है। इस
श्रुतिसे कहा हुआ परमात्मा देहमय किस प्रकार होसकै है ३५
असंगः पुरुषः प्रोक्तो बृहदारण्यके
ऽपिच॥अनंतमलसंश्लिष्टः कथं०॥३६॥
सं.टी.अपरयापि श्रुत्यैवमेव निर्णीतमित्याह असंग-
इति । “असंगो ह्ययं पुरुषः” इति श्रुत्या बृहदारण्यके
वाजसनेयोपनिषदि पुरुषः असंगः प्रोक्तः देहकस्त्वनं-
तमलसंश्लिष्टः कथं पुमान्स्यादिति ॥ ३६ ॥
भा. टी, “असंयोगोयंपुरुषः” आत्मा सङ्गहीन है यह बृह
दारण्यक उपनिषद्की श्रुति है इस श्रुतिसेभी आत्मा असंग
सिद्ध होताहै और देह नानाप्रकारके मलोंकरकै लिपटा
हुआ फिर किसप्रकार आत्मा देहमय होसकै है ॥ ३६ ॥

संस्कृतटीका-भाषाटीकासहिता । ( ३६ )
तत्रैव च समाख्यातः स्वयंज्योतिर्हि पू-
रुषः॥ जडः परप्रकाश्योसौ कथं० ३७॥
सं. टी. तत्रैवान्यप्रकारेणापि देहात्मनोर्वैलक्षण्यं नि-
रूपितमित्याह तत्रैवेति । तत्रैव बृहदारण्यक एवेत्यर्थः
अत्रायं पुरुषः स्वयंज्योतिर्भवतीति श्रुत्या स्वयंज्योतिः
पुरुषः समाख्यातः हीति विद्वत्प्रसिद्धिं द्योतयति असौ
घटादिवद्दृश्योऽत एव परप्रकाश्यस्तत एव जडो देहकः
कथं पुमान् स्यादिति व्याख्यातम् ॥ ३७ ॥
भा. टी. "पुरुषोज्योतिर्मयः" पुरुष स्वयंप्रकाश ज्योति-
स्वरूपहै यह श्रुति उसी बृहदारण्यक उपनिषदमें लिखीहै
इससे आत्मा तौ ज्योतिःस्वरूपहै और देह जड़है घटादिकोंकी
तरह परप्रकाश्यहै फिर किसप्रकार आत्मा देहमय हो
सकै है ॥ ३७ ॥
प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्वि-
लक्षणः॥ नित्यश्च तत्फलं भुंक्ते देहपा-
तादनंतरम् ॥ ३८ ॥
सं.टी.अथास्तामिदं ज्ञानकांडं कर्मकांडेपिदेहात्मनो
भेद एवनिर्णीत इत्याहप्रोक्तइति।हियस्मात्कर्मकांडेनापि
"यावज्जीवमग्निहोत्रं जुहुयात् " इत्यादिरूपेण कर्मप्र-
तिपादकेन वेदभागेनेत्यर्थः आत्मा देहाद्विलक्षणः प्रोक्तः
कथमित्यतआह नित्य इति नित्यत्वं च कुतइत्यतआह

( ३६ ) अपरोक्षानुभूतिः ।
तदिति देहपातादनंतरं तत्फलमनित्यं कर्मफलं यत
आत्मा भुंक्तेऽतो नित्य इत्यर्थः चकारात् न्यायसांख्या
दावप्येवमेव देहात्मनोर्भेदो वर्णित इति दर्शितम् ॥३८॥
भा. टी. "यावज्जीवमग्निहोत्रं जुहुयात्" "अहरहः सन्ध्या
मुपासीत"। जबतक जिये अग्निहोत्र करै । प्रतिदिन सन्ध्या
करै । इत्यादि कर्मकाण्डमेंभी आत्मा देहसे अलग नित्य
देहपात होनेके अनन्तर कर्मोंके फलोंका भोगनेवाला कहाहै
इसप्रकारभी आत्मा देहातीतसा प्रतीत होयहै ॥ ३८ ॥
लिंगं चानेकसंयुक्तं चलं दृश्यं विकारि
च॥ अव्यापकमसद्रूपं तत्कथं स्यात्पु
मानयम् ॥ ३९ ॥
सं.टी. नन्वेवंसति वेदांतिनामपसिद्धांतःस्यादित्यत
आह लिंगमिति । लिंगं लिंगशरीरं तत्परोक्षादिधर्मवि-
शिष्टं अयं नित्यापरोक्षस्वभावः पुमान् कथं स्यान्नकथं-
चिदित्यर्थः चकारात्कारणशरीरमपि निराकृतं अनयो-
रपिभेदे लिंगदेहस्य वैलक्षण्यसूचकानि विशेषणान्याह
अनेकेति अनेकसंयुक्तं देवमनुष्यादिनानास्थूलशरी-
रसंबधयुक्तं यद्वा श्रोत्रादिबुद्ध्यंतसप्तदशकलासंयुक्तं
तथा चलं चंचलं मनःप्रधानत्वादित्यर्थः पुनर्दृश्यं ममेदं
श्रोत्रं ममेदं मन इत्यादिममतास्पदत्वेनात्मन उपस-
र्जनभूतं च पुनर्विकारि उपचयादिमत् अव्यापकं परि-

संस्कृतटीका-भाषाटीकासहिता । ( ३७ )
च्छिन्नमसद्रूपमात्मज्ञानकबोध्यं च अत्रेद्माकूतं यद्यपि
लिंगशरीराध्यासे नात्मनः कर्तृत्वभोक्तृत्वादिभावस्त-
थाप्यात्मनः स्वतस्तदभावज्ञानेनाऽध्यासनिवृत्तावक-
र्तृत्वाभोक्तृत्वादिभावसिद्धिरिति वेदांतिनां न किंचि
दपसिद्धांतोऽन्यवदिति मंगलम् ॥ ३९ ॥
भा. टी. लिङ्ग और कारण इन दोप्रकारका शरीर नाना
प्रकारके शरीरोंके सम्बन्ध करकै युक्त चञ्चल विकारी एक-
देशमें रहनेवाला और असत्स्वरूप है फिर किसप्रकार देह
मय आत्मा होसकै है ॥ ३९ ॥
एवं देहद्वयादन्य आत्मा पुरुषई-
श्वरः॥ सर्वात्मा सर्वरूपश्च सर्वातीतो
हमव्ययः ॥ ४० ॥
सं.टी. इदानीं पूर्वोक्तमर्थमुपसंहरति एवमिति । एवं
पूर्वोक्तप्रकारेण देहद्वयात् स्थूलसूक्ष्मलक्षणादन्यो भिन्न
आत्मा कोऽसावित्यत आह पुरुष इति पुरुषः शरी
राधिष्ठाता तर्हि किं जीवः नेत्याह ईश्वर इति तत्र हेतुः
सर्वात्मेति तर्ह्यद्वैतहानिः स्यादित्यत आह सर्वरूप इति
एवंसति विकारित्वं स्यादित्यतआह सर्वातीत इति एता-
दृश आत्माचेदस्ति तर्हि कुतो नोपलभ्यत इत्यतआह
अहमिति अहंप्रत्यक्षोऽहंशब्दप्रत्ययालंबनत्वेन सर्वदो
पलब्धिस्वरूप इत्यर्थः तर्ह्यहंकारः स्यान्नेत्याह अव्यय

( ३८ ) अपरोक्षानुभूतिः।
इति अव्ययः अपक्षयादिविकारशून्यः अहंकारसाक्षीति
भावः ॥ ४० ॥
भा. टी. इसप्रकार आत्मा स्थूल और सूक्ष्म दोनों प्रका
रके देहोंसे अलगहै और ईश्वर है सर्वव्यापक है सर्वरूप है
सर्वसे अतीतहै ( अर्थात् जिससे परे और कोई नहीं है
सबसे श्रेष्ठ है ) अहम्शब्द करके कहा जाय है भूत भविष्यत
वर्तमान तीनों कालमें एकरस है ॥ ४० ॥
इत्यात्मदेहभागेन प्रपंचस्यैव सत्य-
ता ॥ यथोक्ता तर्कशास्त्रेण ततः किंपु-
रुषार्थता ॥ ४१ ॥
सं.टी. अथेदानीमात्मनो देहद्वयातिरिक्तत्वप्रतिपा
दनमनर्थकमिति शंकते इतीति । इति पूर्वोक्तप्रकारेण
वर्णितेनात्मदेहविभागेन प्रपंचस्यैव सत्यता तथोक्ता
यथा तर्कशास्त्रेण ततः प्रपंचसत्यत्वप्रतिपादनात्किंपु
रुषार्थता कुत्सितपुरुषार्थत्वं भयनिवृत्त्यभावादित्यर्थः
“द्वितीयाद्वै भयं भवति” इति श्रुतेः ॥ ४१ ॥
भा. टी. तर्कशास्त्र अर्थात् न्याय शास्त्रके माननेवालोंने
इस आत्मा और देहमें भेदबुद्धिकरके न्याय शास्त्रमें जो प्रप-
ञ्चकी सत्यता कही है ( अर्थात् परमाणुको नित्य मानकर
ईश्वरको निमित्तकारण संसारकी उत्पत्ति मानी है ) उसको

संस्कृतटीका-भाषाटीकासहिता ( ३९ )
स्वीकार करते हैं तिसकी अपेक्षा और पुरुषार्थता क्या
होगी ॥ ४१ ॥
इत्यात्मदेहभेदेन देहात्मत्वं निवारि-
तम्॥इदानीं देहभेदस्य ह्यसत्त्वं स्फुट-
मुच्यते ॥ ४२ ॥
सं. टी. भेदज्ञानस्याभेदज्ञानंप्रति कारणत्वादात्म
देहविभागकथनं नानर्थकमित्याह इतीति । इति पूर्वो
क्तेनात्मदेहभेदेनात्मनो देहात्पृथक्करणेन देहस्यैव प्राप्तं
चार्वाकमतेनात्मत्वं तन्निवारितं इदानीमुत्तरग्रंथेन तस्य
देहभेदस्यासत्त्वमात्मसत्तातिरिक्तसत्तारहित्यं स्फुटं
स्पष्टं यथास्यात्तथा हीतिप्रसिद्धमुच्यते ॥ ४२ ॥
भा. टी. इस प्रकार नैयायिकोंने आत्माका और देहका
भेद दिखाकर देहको आत्मत्व निवारण किया है । सो
अब देह आत्माके भेद असत्ता स्पष्ट दिखातैं है ॥ ४२ ॥
चैतन्यस्यैकरूपत्वाद्वेदो युक्तो न कर्हिं
चित् ॥ जीवत्वं च मृषा ज्ञेयं रज्जौ सर्प-
ग्रहो यथा ॥ ४३ ॥
सं. टी. तदेवाह चैतन्यस्येति।चैतन्यस्य सर्वभूतभौ-
तिकप्रपंचाधिष्ठानप्रकाशस्य घटःप्रकाशते पटः प्रकाश-
ते इत्यादिष्वेकरूपत्वादेकाकारत्वाद्भेदोः कर्हिचित्क-

( ४० ) - अपरोक्षानुभूतिः।
स्यांचिदवस्थायामपि भेदो नयुक्तो नयथार्थइत्यर्थः त-
र्हिजीवभेदःसत्यः स्यादित्यत आह जीवत्वमिति जीवत्वं
चकारोप्यर्थः मृषा मिथ्या ज्ञेयं तदुपाधेरेवांतःकरणादे-
र्मायामयत्वादित्यर्थः । अधिष्ठानसत्यत्वेन कल्पितस्य
मिथ्यात्वबोधे दृष्टांतमाह रज्जाविति यथारज्जौ तदज्ञा-
नात् वक्रतादिसादृश्येन मंदांधकारे सर्पग्रहः सर्पबु-
द्धिरव्युत्पन्नस्य भवति न तु व्युत्पन्नस्य तथैवात्मन्या-
त्माज्ञानात् प्रकाशसादृश्यादविशेषप्रकाशे चिज्जडग्रं-
थिरूपचिदाभासभ्रमो भवत्यविवेकिनां न तु विवेकिना
मिति वेदांतसिद्धांत रहस्यम् ॥ ४३ ॥
भा, टी. चैतन्यको (भूत भौतिक प्रपञ्चका जो आधान
है उसको चैतन्य कहते हैं ) एकरूप होनेसे और आत्माको
चैतन्यस्वरूप होनेसे देह और आत्माका भेद कभीभी युक्ति
युक्त नहीं है जिसतरह रज्जुमें वह सर्पका भ्रम होय है वास्तव
में वह सर्प नहीं होय है तिसीप्रकार आत्मासे भिन्न जीवका
मानना वृथा है ॥ ४३ ॥
रज्ज्वज्ञानात् क्षणेनैव यद्वद्रज्जुर्हि स-
र्पिणी ॥ भाति तद्वच्चितिः साक्षाद्वि-
श्वाकारेण केवला ॥ ४४ ॥
सं.टी. इदानीं पूर्वोक्तमेव दृष्टांतं विवृण्वन् सर्वस्यापि
प्रपंचस्य ब्रह्मरूपतामाह रज्ज्वाति। केवलेति विशेषणेन

संस्कृतटीका-भाषाटीकासहिता । (४१)
पूर्वावस्थामपरित्यज्यावस्थांतरप्राप्तिलक्षणविवर्त्तोपादान
त्वमेवोक्तं नारंभोपादानत्वं नापि परिणामोपादानत्व
मिति बोध्यं अन्यत् स्पष्टम् ॥ ४४ ॥
भा. टी. जिस समय रज्जुके स्वरूपका अज्ञान होय है
( अर्थात् यह रज्जुहै जब ऐसा ज्ञान नहीं होयहै ) तब रज्जुमें
भ्रान्ति होयहै ( अर्थात् अज्ञानसे रज्जुको सर्प समझै है) इसी
प्रकार जिससमयपर्य्यन्त आत्माका ज्ञान नहीं होयहै तब-
तक अज्ञानवशसे आत्माके विषयमें पुरुष नाना प्रकारकी
कल्पना करैहै ॥ ४४ ॥
उपादानं प्रपंचस्य ब्रह्मणोऽन्यन्न वि-
द्यते ॥ तस्मात्सर्वप्रपंचोयं ब्रह्मैवास्ति
न चेतरत् ॥ ४५ ॥
सं. टी. अत्र हेतुं दर्शयन् पूर्वोक्तमुपसंहरति उपा
दानमिति । यस्मात्प्रपंचस्याकाशादिदेहांतस्य जगद्वि-
स्तारस्य ब्रह्मणो मायाशबलाच्चैतन्यादन्यत्परमाणवो
यद्वा प्रकृतिरुपादानं कारणविशेषो न विद्यत इति “त-
स्माद्वा एतस्मादात्मन आकाशः संभूतः” इत्यादिश्रुतेः
तस्माद्धेतोरिति स्पष्टमन्यत् ॥ ४५ ॥
भा. टी. ब्रह्मके सिवाय इस प्रपञ्चका उपादान कारण
और कोई नहीं होसकैहै इसकारण सम्पूर्ण प्रपञ्च ब्रह्मही है
( अर्थात् सर्व संसार ब्रह्मस्वरूप है ) और कुछ नहीं है ॥४५॥

( ४२ ) अपरोक्षानुभूतिः ।
व्याप्यव्यापकता मिथ्या सर्वमात्मेति
शासनात् ॥ इति ज्ञाते परे तत्त्वे भेद-
स्यावसरः कुतः ॥ ४६ ॥
सं. टी. ननु व्याप्यव्यापकतारूपे भेदे जाग्रति सति
कथं प्रपंचस्य ब्रह्मतेत्याशंक्याह व्याप्येति । व्याप्य-
मंतरं व्यापकं बाह्यं तयोर्भावो मिथ्या घटाकाशादि-
वत् कल्पितत्वादसन्नित्यर्थः तत्रप्रमाणमाह सर्वमिति
“इदं ब्रह्मेदं क्षत्रमिति प्रकृत्येदं सर्व्वं यदयमात्मा” इत्यादि-
श्रुतिरूपेश्वराज्ञाबलादित्यर्थः ततः किमत आह इतीति
इति ज्ञाते इत्यादि सुगमम् ॥ ४६ ॥
भा. टी. “ब्रह्मैव सर्वमपरं नहि किञ्चिदस्ति” जो कुछ है
आत्मा है और कुछ नहीं है ऐसा कहनेसे आत्माका व्याप्य-
व्यापकभाव मिथ्या है ऐसा प्रतीयमान होता है इस प्रकार सर्वो-
त्कृष्ट अर्थात् सबसे श्रेष्ठ आत्माके जाननेपर भेदका तौ अव-
सरही नहीं है ॥ ४६ ॥
श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन
हि ॥ कथं भासो भवेदन्यः स्थिते चा-
द्वयकारणे ॥ ४७ ॥
सं. टी. ननु प्रत्यक्षेणभासमानो व्याप्यव्यापकभावः
कथं मिथ्येत्याशंक्याह श्रुत्येति नूनमिति निश्चये हीति

संस्कृतकाटीका-भाषाटीकासहिता । ( ४३ )
प्रसिद्धौ श्रुत्या "नेह नानास्तिकिंचन" इत्यादिरूपये-
त्यर्थः । नानात्वं निवारितं तेन च नानात्वनिवारणे-
नाद्वयकारणेऽभिन्ननिमित्तोपादाने ब्रह्मणि स्थिते सति
भासो व्याप्यव्यापकतादिप्रतिभासाः कार्यभूतोऽन्यः
स्वकारणातिरिक्तः कथं भवेन्नकथं चिदित्यर्थः ॥ ४७ ॥
भा. टी. वेदकी श्रुति साक्षात् आप जगत्का नानात्व
निवारण करै है इसप्रकार ब्रह्म अद्वितीय अर्थात् कारण होने-
करिकै किसप्रकार भेदज्ञान होसकै है ॥ ४७ ॥
दोषोपि विहितः श्रुत्या मृत्योर्मृत्युं स-
गच्छति॥ इह पश्यति नानात्वं माय-
या वंचितो नरः ॥ ४८ ॥
सं. टी. किंच भेददृष्टेदोषश्रवणादपि कारणादभि
न्नमेव कार्यमित्याह दोषइति। "मृत्योः स मृत्युमाप्नोति
य इह नानेव पश्यति" इत्यादिरूपया श्रुत्येत्यर्थः तत्र
मृत्योरनंतरं मृत्युं जननमरणपरंपरामित्यर्थः स्पष्ट-
मन्यत् ॥ ४८ ॥
भा. टी: "मृत्योः स मृत्युमाप्नोति यइह नानेव पश्यति"
अर्थात् जो संसारको नानारूप माना है उसको वारंवार जन्म
मृत्यु नरक भोग करना पडैहै।इत्यादि श्रुतिद्वारा जो नानात्व
प्रदर्शन करै हैं । उनको दोष होयहै ऐसाभी कहाहै ।

( ४४ ) अपरोक्षानुभूतिः।
मनुष्य मायासे वञ्चित होकर जगतके नानात्वका अनुभव
करै है ॥ ४८ ॥
ब्रह्मणः सर्वभूतानि जायन्ते परमात्म-
नः॥ तस्मोदेतानिब्रह्मैव भवतीत्यव-
धारयेत् ॥ ४९ ॥
सं.टी. तर्हि किं कुर्यादित्यत आह ब्रह्मण इति। बृह-
त्त्वादपरिच्छिन्नत्वाद्व्रह्म तद्रूपात्परमात्मनः सर्वाणि भू-
तानि जायन्ते उत्पद्यंते जायंतइति स्थितिप्रलययोरप्यु-
पलक्षणं "यतोवा इमानि भूतानि जायन्ते" इत्यादिश्रुतेः
यस्मादेवं तस्माद्धेतोरेतानि भूतानि ब्रह्मैव भवंति
सन्मात्रब्रह्मरूपाणीत्यवधारयेन्निश्चिनुयादिति ॥ ४९ ॥
भा. टी. "यतो वा इमनि भूतानि जायन्ते" इतिश्रुतिः
अर्थात् जिससे प्राणी उत्पन्न होतेहैं इत्यादि श्रुतिसे समस्त
प्राणी ब्रह्मसेही उत्पन्न होते हैं इसीकारण सबही ब्रह्मस्वरूप
हैं ऐसा निश्चय है ॥ ४९ ॥
ब्रह्मैवसर्व नामानि रूपाणि विविधा-
निच॥ कर्माण्यपि समग्राणि बिभर्तीति
श्रुतिर्जगौ ॥ ५० ॥
सं. टी. ननु नानानामरूपकर्मभेदेन विचित्राणि
भूतानि कथं ब्रह्मात्मकानीत्याशंक्याह ब्रह्मैवेति "त्रयं वा
इदं नाम रूपं कर्म" इति बृहदारण्यकश्रुतिर्जगौ गायनं

संस्कृतटीका-भाषाटीकासहिता । (४५)
कृतवती स्वाधिकारिणः श्रावयामासेत्यर्थः । किमि-
त्यत आह ब्रह्मैव सर्वनामान्याकाशादिदेहांतान् संज्ञा-
विशेषान् च पुनर्विविधानि रूपाण्यवकाशादिद्विपदां-
तान् नानाविकारविशेषान् अपिशब्दश्चार्थे रूपग्रहणं
गंधादिग्रहणस्याप्युपलक्षणं समग्राणि कर्म्माण्यकाश-
प्रदानादीनि स्नानशौचादीन् क्रियाविशेषानपि बिभर्त्ति
रज्ज्वादिकमिव सर्पादिप्रतिभासं दधात्यधिष्ठानदर्श-
नशून्यान् प्रति दर्शयतीत्यर्थः ॥ ५० ॥
भा. टी. ब्रह्मही सम्पूर्ण प्रकारके नाम और नाना प्रकारके
रूप धारणकरता है और नानाप्रकारके कर्म्म धारण करताहै ।
ऐसा साक्षात् श्रुति कहती है ॥ ५० ॥
सुवर्णाज्जायमानस्य सुवर्णत्वं च शा-
श्वतम् ॥ ब्रह्मणो जायमानस्य ब्रह्मत्वं
च तथा भवेत् ॥ ५१ ॥
सं. टी. अत्र लोकप्रसिद्धं दृष्टांतमाह सुवर्णेति
सुगमम् ॥ ५१ ॥
भा. टी. जिसप्रकार सुवर्णसे कटक कुण्डलादिक बनाये
जाते हैं जबतक कुण्डलादि आकार रहा तबलों रहा फिर
गलानेसें सुवर्णका सुवर्णही होजाता है इसी प्रकार यह ब्रह्मसै
उत्पन्न हुआ संसार जबलौं किसी आकारमें रहता है तबलौं
रहता.है अन्तमें आकर दूर होने पर ब्रह्मही होता है ॥ ५१ ॥

( ४६ ) अपरोक्षानुभूतिः ।
स्वल्पमप्यंतरं कृत्वा जीवात्मपरमा-
त्मनोः ॥ यः संतिष्ठति मूढात्मा भयं
तस्याभिभाषितम् ॥ ५२ ॥
सं. टीः एवं कर्तृकर्मादिकारकघटस्यैकाधिष्ठानरू-
पत्वे सिद्धेपि भेददर्शिनो भयमाह स्वल्पेति । स्वल्पम-
प्यंतरमुपास्योपासकरूपं भेदं कृत्वा कल्पयित्वा
यस्तिष्ठति तस्य भयं भाषितम् "यदा ह्येवैष एत-
स्मिन्नुदरमंतरं कुरुते अथ तस्य भयं भवति ” इत्या-
दिश्रुत्येत्यर्थः ॥ ५२ ॥
भा. टी. जो पुरुष जीवात्मा और परमात्मामें कुछभी भेद
करै है और मानै है वह मूढ पुरुष भयको प्राप्त होय है अर्थात्
उसके चित्तको कदापि शान्ति नहीं होयहै ॥ ५२ ॥
यत्राज्ञानाद्भवेद्द्वैतमितरस्तत्रपश्यति॥
आत्मत्वेन यदा सर्वं नेतरस्तत्र चा
ण्वपि ॥ ५३ ॥
सं. टीः ननु प्रकाशतमसोरिवपरस्परविरुद्धस्वभा-
वयोर्द्वैताद्वैतयोः कुत एकाधिकरणत्वमित्याशंक्याव-
स्थाभेदादित्याह यत्रेति यत्र यस्यामज्ञानावस्थायां
अज्ञानेन द्वैतमिव भवेत्तत्रतस्यामज्ञानावस्थायाम् "इत
रोऽन्योऽन्यत्पश्यति यत्रहि द्वैतमिव भवति तदितर इ-
तरं पश्यति तदितर इतरं जिघ्रति तदितर इतरं शृणोति

संस्कृतटीका-भाषाटीकासहिता । (४७)
तदितर इतरमभिवदति तदितर इतरं मनुते तदि-
तर इतरं विजानातीति यत्र वाऽन्यदिव स्यात्तत्रान्यो-
न्यत्पश्येदन्योन्यञ्जिघ्रेदन्योऽन्यद्रसयेत्” इत्यादिश्रुतेः
चशब्दः पूर्वोक्ताद्वैलक्षण्यं सूचयति यदा यस्मिन्
ज्ञानकाले सर्वमात्मत्वेन भवेत् तत्र तस्मिन् ज्ञानकाले
इतरोऽपि किंचिदप्यन्यन्नपश्यति यत्रवा “अस्य
सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्” इत्या-
दिश्रुतेः सकार्याज्ञाननिवृत्त्या न द्वैतमिति भावः॥५३॥
भा. टी. जिस अवस्थामैं अज्ञान दशासे द्वैत होयहै उसी
अवस्थामैं एक पदार्थ दूसरे पदार्थका दर्शन करै है जब
आत्मज्ञान होजाय है तब किसीको कुछ अन्य नहीं
मालूम होयहै ॥ ५३ ॥
यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन
विजानतः ॥ न वै तस्य भवेन्मोहो न
च शोकोऽद्वितीयतः ॥ ५४ ॥
सं. टी. ननु द्वैतादर्शने कः पुरुषार्थ इत्याशंक्य
तत्प्रतिपादिकाम्“यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजा-
नतः तत्र को मोहः कः शोक एकत्वमनुपश्यतः” इति
श्रुतिमर्थः पठति यस्मिन्निति । यस्मिन्नवस्थाविशेषे
सर्वाणि भूतान्यात्मत्वेनात्मभावेन विजानतः अपरो-
क्षेण साक्षात्कुर्वतोऽधिकारिणः पुरुषस्य तस्येति षष्ठी