सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)

Aparokshanubhuti with Dipika & Hindi Commentary

आदि शङ्कराचार्य द्वारा

स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)

DevanagariSanskritpublished109 पृष्ठ

संस्कृतटीका-भाषाटीकासहिताः। ( ५ )
एतेनैवार्थात् पूर्वकांडोत्तरकांडयोः साध्यसाधनभावः
संबंधश्च दर्शितो भवतीति बोद्धव्यम् ॥ २ ॥
भा. टी. इस असार संसारसे मुक्तिके कारण "अपरोक्षा-
नुभूति" ग्रन्थको कहूँहूँ इस ग्रन्थको सज्जनपुरुष वारंवार
प्रयत्न कर देखेंगे ॥ २ ॥
स्ववर्णाश्रमधर्मेण तपसा हरितोष-
णात् ॥ साधनञ्च भवेत्पुंसां वैराग्या-
दिचतुष्टयम् ॥ ३ ॥
सं. टी. ननु कार्यस्य कारणाधीनत्वात् पूर्वोक्तसाधनच-
तुष्टयस्य किं कारणमित्याशंक्याह स्ववर्णेति अत्र स्वश-
ब्देन मुख्यगौणमिथ्याभेदेन त्रिविधेषु साक्षिपुत्रादिदेहा-
दिलक्षणेष्वात्मसु मध्ये मिथ्यात्मायोग्यत्वादूह्यते तस्य
देहादेर्ब्राह्मणादिवर्णब्रह्मचर्याद्याश्रमप्रयुक्तेन धर्मेण ब्रह्मा-
र्पणकृतकर्मानुष्ठानजन्येनाऽपूर्वेण पूर्वमीमांसाप्रसिद्धेन -
भाविफलाधारभूतेन पुण्यादिशब्दवाच्येनेत्यर्थः तथा
तपसा कृच्छ्रचांद्रायणादिना प्रायश्चित्तेनेत्यर्थः पुनः
हरितोषणाद्भगवत्प्रीतिकरात्सर्वभूतदयालक्षणात् कर्म-
विशेषात् एतैस्त्रिभिः साधनैः वैराग्यादिचतुष्टयरूपं
साधनं मोक्षसाधको धर्मविशेषः पुंसां प्रभवेत् संभावना
यां लिङ् यद्वैवमन्वयः स्ववर्णाश्रमधर्मरूपेण तपसा
कृत्वा यद्धरितोषणं तस्मादिति यद्यपि साधनचतुष्टय

६ ) अपरोक्षानुभूतिः ।
विवेकादिक्रमेण हेतुहेतुमद्भावस्तथापि वैराग्यस्या-
साधारणकारणतां द्योतयितुमादौ ग्रहणं कृतमिति
बोद्धव्यम् ॥ ३ ॥
भा. टी. अपने २ वर्णका धर्म धारण करनेसे अर्थात् ब्राह्म-
णोंको पढना पढाना यज्ञकरना यज्ञकराना दानलेना दान देना
इन ६ छः कर्मोंकरके क्षत्रियको प्रजापालन करनेसे वैश्यको
खेतीका कर्म करनेसे शूद्रको ब्राह्मण क्षत्रिय वैश्यकी सेवा
करनेसे और आश्रमधर्म धारण करनेसे अर्थात् ब्रह्मचर्य्य-
अवस्थामें गुरुसेवन करनेसे गृहस्थ अवस्थामें पुत्र उत्पन्न
करनेसे वानप्रस्थ अवस्थामें स्त्रीसहित तथा इकल्ला जाकर
ब्रह्मचर्य धारणकर अग्निहोत्रादि कर्म्म तथा ईश्वरकी आरा-
धना करनेसे सन्यस्त अवस्थामें सर्व कर्म्म त्याग करनेसे
और चान्द्रायणादि व्रत करनेसे हरिकीर्त्तनकर ईश्वरको प्रसन्न
करनेसे मनुष्यको वैराग्य, नित्य अनित्य वस्तुका विवेक,

  • शम दम आदि सम्पत्ति और मुमुक्षुत्व, यह चार साधन
    प्राप्त होय हैं ॥ ३ ॥
    ( वैराग्यस्वरूप )
    ब्रह्मादिस्थावरान्तेषु वैराग्यं विषये-
    ष्वनु ॥ यथैव काकविष्ठायां वैराग्यं:
    तद्धि निर्मलम् ॥ ४ ॥

संस्कृतटीका-भाषाटीकांसहिता । ( ७ )
सं.टी. कीदृशं तद्वैराग्यादिचतुष्टयमित्याकांक्षायां त-
त्स्वयमेव व्याचष्टे ब्रह्मादीत्यारभ्यवक्तव्यासा मुमुक्षुता
इत्यंतेनश्लोकषट्कात्मकेन ग्रंथेन तत्रादौ वैराग्यस्य लक्ष-
णमाहब्रह्मादिस्थावरांतेष्विति ब्रह्मादिस्थावरांतेषु सत्य-
लोकादिमर्त्यलोकांतेषु भोगसाधनेषु अनु कर्मजन्यत्वे-
नानित्यत्वं लक्षीकृत्येत्यर्थः वैराग्यं इच्छाराहित्यं तत्र
दृष्टांतमाह यथैवेति यथैव काकविष्ठायां वैराग्यं गर्दभा-
दिविष्ठायामपि कदाचित् कस्यचित्-ज्वरशांत्यर्थं ग्रहणे
च्छा भवति अतः काकविष्ठाया ग्रहणं उपलक्षणमेतद्वां-
त्यादीनां विषयेष्विच्छानुदये वैराग्यस्य हेतुगर्भितं
विशेषणमाह तद्धिति हि यस्मात्तद्वैराग्यं निर्मलं रागा-
दिमलरहितम् ॥ ४ ॥
भा. टी. जिस प्रकार संसारी पुरुष काककी विष्ठामें घृणा
करै है तिसी प्रकार ब्रह्माको आदिले स्थावर पर्य्यन्त विष-
योंमें जो वैराग्य करना है सो निर्म्मल वैराग्य होय है ॥ ४ ॥
( वस्तु विवेकका स्वरूप )
नित्यमात्मस्वरूपं हि दृश्यं तद्विप-
रीतगम् ॥ एवं यो निश्चयः सम्य-
ग्विवेको वस्तुनः स वै ॥ ५ ॥
सं. टी. इदानीं वैराग्यकारणं विवेकं लक्षयति नित्य-
मिति वैप्रसिद्धं सः वस्तुनः पदार्थस्यविवेको विवेचनवि-

( ८ ) अपरोक्षानुभूतिः ।
शेषो ज्ञेयः सक इत्यतआह एवमिति यं एवं प्रकारेण स-
म्यक् संशयादिशून्यो निश्चयः एवं कथमित्यतआह नि-
त्यमिति हीति विद्वदनुभवप्रसिद्धमात्मस्वरूपं नित्यम-
विनाशि अबाध्यं सत्यमित्यर्थः “अविनाशी वा अरेयमा-
त्मा” इति श्रुतेः दृश्यमानात्मस्वरूपं तद्विपरीतगं तदा-
त्मस्वरूपं तस्माद्विपरीतत्वेन गच्छति प्राप्नोति व्यवहार-
भूमिमिति तथाविधं विनाशि बाध्यमित्यर्थः अत्रेदमनु-
मानमपि सूचितं भवति आत्मस्वरूपं नित्यं द्रष्टृत्वात्
यन्न नित्यं तन्न द्रष्टृ यथा घटादीति केवलव्यतिरेकीहेतुः
तथाऽनात्मस्वरूपमनित्यं दृश्यत्वात् यन्नानित्यं तन्नदृश्यं
यथात्मस्वरूपमित्ययमपि केवलव्यतिरेकी हेतुः ॥ ५ ॥
भा. टी. आत्मा नित्यहै और जो कुछ संसारकी वस्तु
देखनेमें आवै है सो अनित्यहै इस प्रकारका अच्छी तरह जो
पुरुषको निश्चय होनाहै सो वस्तुका विवेक कहावै है ॥ ५ ॥
( शमदमका स्वरूप )
सदैव वासनात्यागः शमोयमिति श-
ब्दितः ॥ निग्रहो बाह्यवृत्तीनां दम
इत्यभिधीयते ॥ ६ ॥
सं.टी. तदेवं वैराग्यकारणं विवेकं व्याख्याय वैराग्य-
कार्यं शमादिषट्कं लक्षयति सदैवत्यादितिभिः श्लोकैः स-
दैव सर्वस्मिन्नपि काले वासनात्यागः पूर्वसंस्कारोपेक्षायंऽ-

विषयेभ्यः परावृत्तिः परमोपरतिर्हि

संस्कृतटीका-भाषाटीकासहिता । ( ९ )
शमइतिशब्दितः अंतःकरणनिग्रहः शमशब्दार्थः
बाह्यवृत्तीनां श्रोत्रवागादीनां निग्रहो निषिद्धप्रवृत्तिंति-
रस्कारोदम इति शब्देनाभिधीयते कथ्यते ॥ ६ ॥
भा. टी. संसारकी वासनाओंका त्याग करना 'शम'
कहावै है और बाह्य वृत्तियोंको रोक लेना अर्थात् नासि-
कादि इन्द्रियोंको गन्धादि विषयसे हटाकर वशमें कर लेना
'दम' कहावै है ॥ ६ ॥
( उपरति और तितिक्षास्वरूप )
विषयेभ्यः परावृत्तिः परमोपरतिर्हि
सा ॥ सहन सर्वदुःखानां तितिक्षा सा
शुभा मता ॥ ७ ॥
सं. टी. विषयेभ्यइति हीति प्रसिद्धेभ्यो बंधकेभ्यः
शब्दादिभ्यो या परावृत्तिर्निवृत्तिरनित्यत्वादिदोषदर्श-
नेन ग्रहणानिच्छा सोपरतिरुच्यत इत्यर्थः कीदृशी
सेत्यत आह परमेति परमुत्कृष्टमात्मज्ञानं यस्याः
सकाशाज्जायते सा परमा आत्मज्ञानसाधनभूतेत्यर्थः
अनया सर्वकर्मसंन्यासो लक्ष्यते किंच सहनमिति सर्व-
दुःखानां सर्वदुःखसाधनानां शीतोष्णादिद्वंद्वानां यत्स-
हनं प्रतीकारानिच्छा सा शुभा सुखरूपा तितिक्षा मता
विदुषामित्यर्थः ॥ ७ ॥
भा. टी. विषयोंसे अत्यन्त चित्तको हटालेनेका नाम

(१०) अपरोक्षानुभूतिः।
'उपरति' है। और संपूर्ण प्रकारके दुःखोंको सह लेना सो
'तितिक्षा' कहावे है ॥ ७ ॥
( श्रद्धा और समाधानस्वरूप )
निगमाचार्यवाक्येषु भक्तिः श्रद्धेति
विश्रुता ॥ चित्तैकाग्र्यन्तु सल्लक्ष्ये स-
माधानमिति स्मृतम् ॥ ८ ॥
सं. टी. अपिच निगमेति निगमाचार्यवाक्येषु वेद-
गुरुवचनेषु यद्दोपनिषद्व्याख्यात्रुपदेशेषु भक्तिर्भज-
नं विश्वास इत्यर्थः सा श्रद्धेति विश्रुता वेदांतप्रसिद्धा
तु पुनः सल्लक्ष्ये “ सदेव सोम्येदमग्रआसीत् ” इत्या-
दिश्रुतिलक्ष्ये प्रत्यगभिन्ने ब्रह्मणि चित्तैकाग्र्यं तदेक-
जिज्ञासेत्यर्थः तत्समाधानमिति स्मृतम् ॥ ८ ॥
भा. टी. वेद शास्त्र पुराण और गुरुके वाक्योंमें जो भक्ति
करनाहै सो 'श्रद्धा' कहावे है और शब्दादि विषयोंसें अन्तः
करणको हटाकर मोक्षोपकारक श्रवण, मनन, निदिध्यासन
द्वारा निरन्तर नित्य अनित्यके विचारको समाधान कहें हैं॥८॥
( मुमुक्षुता स्वरूप )
संसारबन्धनिर्मुक्तिः कथं मे स्यात्क-
दा विधे ॥ इति या सुदृढा बुद्धिर्वक्त
व्या सा मुमुक्षुता ॥ ९ ॥

संस्कृतटीका-भाषाटीकासहिता । ( ११ )
सं. टी. एवं शमादिष मभिधायैतत्कार्यभूतां मु-
मुक्षुतामाह संसारबंधेति इति यासुदृढा बुद्धिः सा
मुमुक्षुता वक्तव्येत्यन्वयः साकेत्यत आह भो विधे म-
दैव यद्वा सर्वकर्तर्विधातर्ब्रह्मन् मे मम संसारबंधनिर्मुक्ति-
र्नानायोनिसंबंधनिवृत्तिः कदा कस्मिन्काले कथं केन
प्रकारेण भवेदित्येवंरूपा बुद्धिर्मुक्षुतेत्यर्थः ॥ ९ ॥
भा. टी. किसप्रकार इस संसारबन्धनसे मेरी मुक्ति होगी
ऐसी जो अत्यन्त दृढ बुद्धिहै सो मुमुक्षुता कहावे है ॥ ९ ॥
उक्तसाधनयुक्तेन विचारःपुरुषेण हि ॥
कर्त्तव्यो ज्ञानसिद्धयर्थमात्मनः शु-
भमिच्छता ॥ १० ॥
सं. टी. इदं साधनचतुष्टयं यदर्थमपन्यस्तं तदिदानीं
दर्शयति उक्तेति उक्तानि ब्रह्मादीत्यारभ्य वक्तव्यासा
मुमुक्षुतेत्यंतग्रंथसंदर्भैण वर्णितानि यानि वैराग्यादिसा-
धनानि ज्ञानोपकरणानि तैर्युक्तेन पुरुषेणाधिकारिणा
देहवता मनुष्योत्तमेन हीति विद्वत्प्रसिद्धत्वेन वक्ष्य-
माणलक्षणः यद्वा हीत्यव्ययमेवार्थेऽन्यनिषेधार्थइत्यर्थः।
विचारो विवेकः कर्त्तव्य आवर्त्तयितव्यः किमर्थमित्यत
आह ज्ञानसिद्धयर्थमिति आत्मनो ज्ञानसिद्धयर्थं ब्रह्मा-
त्मैक्यबोधोद्भवनाय नन्वात्मज्ञानसिद्ध्याकः पुरुषार्थ
इत्याशंक्य मोक्षाख्यं चतुर्थपुरुषार्थरूपं फलं द्योतयत

( १२ ) अपरोक्षानुभूतिः ।
पुरुषार्थं विशिनष्टि शुभमिति शुभं परमानन्दरूपत्वेन
मंगलं मोक्षसुखमित्यर्थः इच्छता प्रार्थयता आत्मनः
शुभमिति वान्त्रयः ॥ १० ॥
भा. टी. ऊपर कहे हुए वैराग्य आदि साधनों करके युक्त
अपना शुभ चाहनेवाले पुरुषको ज्ञानकी सिद्धिके निमित्त
विचार करना योग्यहै । (ऊपर कहे हुए साधनोंकरके युक्त )
इसकारण कहा कि 'शान्तो दान्तः' ऐसी वेदकी श्रुतिहै
अर्थात् शम, दम युक्त पुरुष वेदान्तका अधिकारी होय है । जैसे
और जगहभी कहाहै "प्रशान्तचित्ताय जितेन्द्रियाय प्रक्षीणदो-
षाययथोक्तकारिणे ॥ गुणान्वितायानुगताय सर्वदा प्रदेयमेतत्
सकलं मुमुक्षवे ॥ १ ॥" शान्तचित्त जितेन्द्रिय दोषरहित
शास्त्रोक्त कार्य्य करनेवाले शास्त्रोक्त गुणोंकरके युक्त शुभ
आचरण करनेवाले तथा मोक्षकी इच्छा करनेवाले पुरुषको
यह शास्त्र देना चाहिये ॥ १० ॥
( ज्ञानकी आवश्यकता )
नोत्पद्यते विना ज्ञानं विचारेणान्यसा-
धनैः ॥ यथा पदार्थभानं हि प्रकाशेन
विना क्वचित् ॥ ११ ॥
सं. टी. ननु ज्ञानसिद्धयर्थं विचार एव कर्तव्य इति
नियमः कुतः क्रियत इत्याशंक्य सदृष्टांतमाह नोत्पद्य-
तइति विचारेण विना अन्यसाधनैः कर्मोपासनालक्षणैः

संस्कृतटीका-भाषाटीकासहित । ( १३ )
ज्ञानं नोत्पद्यते तत्र दृष्टांतमाह यथेति यथा क्वचित्क-
स्मिंश्चिद्देशे सूर्यादिप्रकाशेन विना पदार्थभानं घटादि-
वस्तुप्रकाशो नभवति हीतिसर्वजनप्रसिद्धं अतो नि-
यमः क्रियत इति भावः ॥ ११ ॥
भा. टी. विना ज्ञानके और साधनों करके नित्य अनित्य
वस्तुका विचार नहीं होय है जैसे सूर्य्यदीपक इत्यादिकोंके
प्रकाशके विना कहीं भी कोई घटपटादिपदार्थोंका भान
नहीं होयहै ॥ ११ ॥
( ज्ञानपूर्वक विचारस्वरूप )
कोऽहं कथमिदं जातं को वै कर्त्ताऽस्य
विद्यते ॥ उपादानं किमस्तीह विचा-
रः सोऽयमीदृशः ॥ १२ ॥
सं. टी. तर्हि स विचारः कीदृश इत्यत आह कोऽहमि
ति अहं कर्त्ता सुखीत्यादिव्यवह्रियमाणः कः किंस्वरूपः
तथा इदं जगत् स्थावरजंगमात्मकं कथं कस्माज्जातं
किमधिष्ठानमित्यर्थः तथाऽस्यप्रत्यक्षादिप्रमाणसिद्ध-
स्य जगतः कर्त्तोत्पादकः को विद्यते वै इति विकल्पं
द्योतयति किं जीवदृष्टं कर्तृ किंवेश्वरः किं वान्यदेव
किंचिदिति विकल्पः किं चेह जगति उपादानं घटस्य
मृद्वत् किमस्ति अयमात्माजगत्कारणविषयः ईदृश
एवंस्वरूपो विचारः स एव ज्ञानसाधनमित्यर्थः ॥१२॥

( १४ ) अपरोक्षानुभूतिः ।
भा टी. मैं कोनहूँ ? यह संसार किस प्रकार उत्पन्न हुआ ?
कौन इस जगत्का कर्त्ता है ? और संसारका उपादान कारण
कौन है ? इस प्रकार नानाप्रकारका जो विचार करना है सो
‘विचार’ है ॥ १२ ॥
नाहं भूतगणो देहो नाहं चाक्षगणस्त-
था ॥ एतद्विलक्षणः कश्चिद्विचारः
सोऽयमीदृशः ॥ १३ ॥
सं. टी. ननु “चैतन्यविशिष्टःकायःपुरुषः”इति बा-
र्हस्पत्यसूत्राद्देहाकारेण परिणतानि पृथिव्यादिचत्वारि
भूतान्येवात्मेति चार्वाका वदंति स एव कर्ता सुखी-
त्यादि सर्वव्यवहारमूलमिति सर्वजनप्रसिद्धौ सत्यामा-
त्मविषयो विचारो न स्यादित्यतआह नाहमिति अहम
ंशब्दप्रत्यालंबनः प्रत्यगात्मा भूतगणो यो देहः स न
भवामि तस्य घटादिवद्दृश्यत्वादित्यर्थः तहींद्रियगण
स्त्वं स्या इति चार्वाकैकदेशिमतमुत्थाप्य दूषयति नाह
मिति च पुनरक्षगणः श्रोत्रादींद्रियसंघातोप्यहं न भवामि
तथेति पदेन देहवदिंद्रियगणस्यापि भूतविकारत्वं
दर्शितं “स वा एष पुरुषोन्नरसमयः अन्नमयं हि सोम्य मन
आपोमयः प्राणस्तेजोमयी वाक्” इत्यादिश्रुतिरुभयत्र
प्रमाणं ननु यदि देहद्वयं त्वं नासि तर्हि शून्यमेवस्या
दित्याशंक्याह एतदिति एतद्विलक्षणः एताभ्यां स्थूल

संस्कृतटीका-भाषाटीकासहिता । (१५)
सूक्ष्मदेहाभ्यां विपरीतधर्मकोस्मि'अस्थूलमण्वह्रस्वम्'
इत्यादि श्रुतेः कश्चिदिति जात्यादिरहितत्वान्मनो-
वाचामगोचरत्वं दर्शितं अयमीदृशः सविचार इति व्या-
ख्यातार्थश्चतुर्थः पादः श्लोकचतुष्टयेपि बोद्धव्यः॥१३॥
भा. टी. मैं भूतगण समष्टिरूप देह नहीं हूँ मैं समष्टि रूप
इन्द्रियोंका समूह नहीं हूँ इससे विलक्षण कोई है सो विचार
कहावे है ॥ १३ ॥
अज्ञानात्प्रभवं सर्वं ज्ञानेन प्रविलीय-
ते ॥ सङ्कल्पो विविधः कर्त्ता विचारः
सोऽयमीदृशः ॥ १४ ॥
सं. टी. तदेवं कोहमित्येतन्निश्चित्येदानीं कथमिदं
जातमित्यस्य निश्चयः क्रियते तत्र पृथिव्यादिभूतानि
कार्यत्वात्स्वस्वपरमाणुभ्यो जायंते इति तार्किकादयो
मन्यंते कर्मणो जायंते इतिमीमांसकाः प्रधानादेवेति
सांख्याः तदेतन्निराकुर्वन्नाह अज्ञानेति सर्वं जगदिदं ना-
मरूपात्मकमज्ञानप्रभवमज्ञानात्पूर्वोक्तस्वस्वरूपस्फुर-
णात्प्रभवति तथाविधं अतएवैतद्विरोधिना ज्ञानेन स्व-
स्वरूपस्फुरणेन तम इव प्रकाशेन प्रविलीयते निश्शे-
षलीनं भवतीत्यर्थः। को वै कर्त्तेत्यस्य निर्णयमाह संक-
ल्प इति विविधो नानाप्रकारः संकल्पः इदं करिष्यामी

( १६ ) अपरोक्षानुभूतिः।
त्यादिलक्षणोऽन्तःकरणपरिणामः कारणानुकूलव्यापार
वान् कर्त्ता शेषं पूर्वोक्तम् ॥ १४ ॥
भा. टी. समस्त जगत् अज्ञानसे उत्पन्न होयहै ( अज्ञान
ये है इस सब संसारकी कल्पना होयहै ) ज्ञान होयहै तब नष्ट-
प्राय मालूम होयहै ( अर्थात् ज्ञानका प्रकाश होनेसे स्वरूप
जानाजायहै इसीकारण ज्ञानावस्थामें इस पुरुषको सङ्कल्प
विकल्प नहीं होयहैं ) नानाप्रकारका जो सङ्कल्पहै सो इस
संसारका कर्त्ता है इस प्रकार जो चिन्तनाहै सो विचारहै॥१४॥
एतयोर्यदुपादानमेकं सूक्ष्मं सदव्य-
यम् ॥ यथैव मृद्घटादीनां विचारः सो-
यमीदृशः ॥ १५ ॥
सं. टी. अथोपादानं किमस्तीत्यस्य निर्णयमाह
एतयोरिति एतयोरज्ञानसंकल्पयोर्यदुपादानं उत्पत्ति-
स्थितिनाशाय कारणं तत्तु सत्कालत्रयाबाध्यं ब्रह्मैव
नान्यदित्यर्थः अत एवाधिष्ठानज्ञाननिवर्त्त्याऽज्ञानका-
र्य्यत्वेन मिथ्याभूतमपि जगत् यावज्ज्ञानोदयं रज्जुसर्पा-
दिवत् संसारभयव्यवहारक्षमं भवेदितिभावः ब्रह्मणःस-
त्त्वेहेतुः अव्ययमिति अव्ययमपक्षयरहितं अनेनैतत्पूर्व-
भूताअपि जन्मादिविकारा निरस्ताः नाशश्च निरस्तः
षड्भावविकारराहित्ये हेतुः एकं सजातीयादिभेदशून्यं

संस्कृतटीका-भाषाटीकासहिता । ( १७ )
ताद्व कुतो न दृश्यते तत्राह सूक्ष्ममिति सूक्ष्मं मनोवा
गार्दीन्द्रियागोचरं तेषां प्रवृत्तिनिमित्तजातिक्रियादिशू-
न्यत्वादित्यर्थः ब्रह्मण उपादानत्वे दृष्टांतमाह यथैवेति
यथैव मृत्घटादीनामुपादानं तथैवेत्यर्थः एवंप्रकारेण
कार्यकारणभेदो नाममात्रमिति सूचितम् ॥ १५ ॥
भा. टी. जैसे मृत्तिका घटका उपादान कारणहै और
सुवर्ण कुण्डलादिका कारणहै इसी प्रकार जो एक ‘सूक्ष्म’
सत्यस्वरूप, अविनाशी अज्ञान ‘सङ्कल्प’ इनका जो उपादान
कारण है सोई इस जगत्का उपदान कारणहै इसका जो
निरूपण है सो विचार कहावे है ॥ १५ ॥
अहमेकोपि सूक्ष्मश्च ज्ञाता साक्षी सद
व्ययः ॥ तदहं नात्र सन्देहो विचारः
सोऽयमीदृशः ॥ १६ ॥
सं. टी. ननु यद्यपि कार्यकारणभेदो वाचारंभणमा
त्रस्तथापि जीवब्रह्मणोर्भेद्दोवास्तवः स्यादित्याशंक्याह
अहमिति अत्र यत इत्यध्याहारस्तथाचायमर्थः यतोह-
महंप्रत्ययवेद्योप्येकः सजातीयादिभेदशून्यो मनुष्यमा-
त्रेप्यहंबुद्धेरेकत्वप्रतीतेरित्यर्थः च पुनः सूक्ष्म इंद्रिया-
गोचरः पुनर्ज्ञाताऽहंकारादिप्रकाशकत्वेन चेतन इत्यर्थः
तथा साक्षी साक्षादिन्द्रियार्थसन्निकर्षं विनैवेक्षते पश्यति
प्रकाशयतीति साक्षी निर्विकार इत्यर्थः अत एव

( १८ ) अपरोक्षानुभूतिः ।
सदव्ययः संश्चासावव्ययश्चविनाशापक्षयोपलक्षितसर्व-
विकारशून्य इत्यर्थः यस्मादेवंभूतोऽहं तत्तस्मादहमहं-
प्रत्ययवेद्यस्तत्सत्यज्ञानादिलक्षणं ब्रह्म अत्र संदेहो
नास्तीत्यर्थः सोयमीदृशो विचारइति ॥ १६ ॥
भा. टी. अहम् शब्द करके प्रतिपाद्य अर्थात् आत्मा
अद्वितीय अतिसूक्ष्म जाननेवाला सर्वसाक्षी नित्य और
अविनाशी ब्रह्म है इसमें कोई सन्देह नहीं है इस प्रकार जो तत्त्व
निर्णय है सो विचार कहावे है ॥ १६ ॥
आत्मा विनिष्कलो ह्येको देहो बहु
भिरावृतः ॥ तयोरैक्यं प्रपश्यन्ति
किमज्ञानमतः परम् ॥ १७ ॥
सं. टी. एतदेव जीवब्रह्मैक्यज्ञानप्रदर्शनेन द्रढयति
आत्मेत्यादिपंचभिः यतोऽप्रत्ययवेद्य आत्मा अतीत
संततभावेन जाग्रदादिसर्वावस्थास्वनुवर्तत इत्यत्माः
अवस्थात्रयभावाभावसाक्षित्वेन सत्यज्ञानादिस्वरूप
इत्यर्थः स त्वंपदलक्ष्यार्थोपि तत्पदलक्ष्यार्थ एव विनि-
ष्कलो विशेषण निर्गतकलो निरवयवइत्यर्थः अन्यथा
सावयवत्वे घटादिवद्विनाशित्वापत्तिरिति भावः अत्रहेतुः
एकः हीति “एकमेवाद्वितीयम्” इत्यादि श्रुतिप्रसिद्धिं
द्योतयति ननु तथा लिंगदेहोप्यस्तीति चेन्नेत्याह देह
इति देहो लिंगदेहः सूक्ष्मशरीरमिति यावत् सबहुभिः

संस्कृतटीका-भाषाटीकासहिता । (१९)
कलाभिः श्रोत्रादिबुद्ध्यंताभिः सप्तदशभिरावृत आ-
च्छादितस्तत्संघात इत्यर्थः अतएव लिंगदेहस्य निरव-
यवत्वाद्यभावात् ज्ञानेन तत्कारणाऽज्ञाननिवृत्तौ निवृ-
त्तिरन्यथाऽनिर्मोक्षप्रसंग इतिभावः एवमतिवैलक्षण्ये
सत्यपि तयोरात्मदेहयोः प्रकाशतमसोरिवैक्यमैका-
त्म्यं प्रपश्यंति तार्किकादयइत्यर्थः अतो विपरीतद-
र्शनात्परमन्यदज्ञानं किमस्ति एतदेवाज्ञानमित्यर्थः
विपर्ययरूपकार्यान्यथानुपपत्त्या तत्कारणं मूलाऽज्ञानं
कल्प्यत इतिभावः ॥ १७ ॥
भा. टी. आत्मा विनिष्कल अर्थात् अवयवहीनहै इसी
कारण एक है और देह बहुत अवयवोंसे बना है तबभी संसार
बन्धनमें फँसेहुए पुरुष आत्मा और देहकी ऐक्यता कर व्यव-
हार करते हैं इससे अधिक और क्या अज्ञान होगा ॥ १७॥
आत्मा नियामकश्चान्तर्देहो बाह्यो
नियम्यकः ॥ तयोरैक्यं प्रपश्यन्ति
किमज्ञानमतः परम् ॥ १८ ॥
सं. टी. पुनर्वैलक्षण्यमाह आत्मेति आत्मा नियाम-
को नियंता च पुनरंतः पंचकोशांतरः देहस्तु नियम्यः
सन् बाह्यः तयोरैक्यमित्युत्तरार्द्धं व्याख्यातं एवमग्रेपि
ज्ञेयम् ॥ १८ ॥

(२०) अपरोक्षानुभूतिः ।
भा. टी. आत्मा अन्दर स्थित है और प्रेरणा करने वाला
है देह बाहर और प्रेरित है तबभी संसार बन्धनमें फँसे हुए
अज्ञानी पुरुष देह और आत्मांकी समता कर व्यवहार करें-
हैं इससे अधिक और क्या अज्ञान होगा ॥ १८ ॥
आत्मा ज्ञानमयः पुण्यो देहो मांसम-
योऽशुचिः ॥ तयोरैक्यं प्रपश्यन्तिकि-
मज्ञानमतः परम् ॥ १९ ॥
सं. टी. अन्यदपि वैलक्षण्यमाह आत्मेति आत्मा
ज्ञानमयः प्रकाशरूपोऽतएव पुण्यः शुद्धःदेहस्तु मांसा-
दिविकारवानतएवाऽशुचिः एतेनात्मनः स्थूलदेहादपि
वैलक्षण्यमुक्तं भवति तयोरैक्यमित्यादि पूर्ववत् ॥ १९ ॥
भा. टी. आत्मा ज्ञानमय है पवित्रहै और देह मांस रुधिर
अस्थि चर्बी इत्यादिकोंसे बनाहुआ है इसी कारण अप-
वित्र है तबभी संसार बंधनमें फँसे हुए अज्ञानी पुरुष देह
और आत्माकी समताकर व्यवहार करें हैं इससे अधिक और
क्या अज्ञान होगा ॥ १९ ॥
आत्मा प्रकाशकःस्वच्छो देहस्तामस
उच्यते ॥ तयोरैक्यं प्रपश्यन्ति किम-
ज्ञानमतःपरम् ॥ २० ॥
सं. टी. वैलक्षण्यांतरमाह आत्मेति आत्मा स्वयंप्र-
काशः सन् सूर्यादिवदन्यसर्वप्रकाशकोऽतएवस्वच्छः

संस्कृतटीका-भाषाटीकासहिता । ( २१ )
प्राकाश्यगुणदोषसंबंधशून्यइत्यर्थः“असंगोह्ययं पुरुषः”
इतिश्रुतेः देहस्तु तामसो घटादिवत्प्रकाश्यत्वेन जडः
तयोरैक्यामत्यदि पूर्ववत् ॥ २० ॥
भा. टी. आत्मा सबका प्रकाशक ज्योतिःस्वरूपहै और
स्वच्छ है ( अर्थात जिसमें रजोगुण सतोगुण तमोगुणरूप
सृष्टि मरु मरीचिका की तरह मालूम होय वास्तवमें आत्मा
निर्मलहै ) और देह सदा तमोगुण करके युक्त रहेहै तबभी
संसारी पुरुष देह आत्माकी समता कर व्यवहार करें हैं
इससे अधिक और क्या अज्ञान होगा ॥ २० ॥
आत्मा नित्यो हि सद्रूपो देहोऽनि-
त्योह्यसन्मयः ॥ तयोरैक्यं प्रपश्य-
न्ति किमज्ञानमतःपरम् ॥ २१ ॥
सं. टी. अत्र सर्वत्रपौनरुक्त्यंनाशंकनीयमात्मनोऽलौ-
किकत्वेनात्यंतदुर्बोधत्वादेव बहुधा वैलक्षण्यं प्रदर्श्यते
परमकारुणिकैः श्रीमदाचार्यैः आत्मेति आत्मा नित्यो
ध्वंसाप्रतियोगी तत्रहेतुः हि यस्मात्सद्रूपः अबाध्यस्व-
रूपःदेहस्तु ध्वंसप्रतियोगी अत्रापि हेतुः हियस्मादसन्म-
योऽनित्यः विकारित्वेन बाध्ययोग्यइत्यर्थः यस्मादेवमा-
त्मदेहयोरत्यंतवैलक्षण्यं तस्मात्तयोरैक्यदर्शनं केवल-
मज्ञानमिति ॥ २१ ॥

( २२ ) अपरोक्षानुभूतिः।
भा. टी. आत्मा नित्यहै अर्थात् आदि मध्य अन्त करके
रहितहै, इसी कारण सद्रूप है अर्थात् सदा एकरस रहे है और
देह अनित्य है अर्थात् उत्पन्नहोय है, बालक होयहै, युवा
होय है, वृद्धहोयहै, रोगी होयहै, सुखदुःख करके ग्रसित रहै है
और असत् है अर्थात् नाशवान् है तौभी संसारी पुरुष
देह और आत्माकी समता कर व्यवहारकरे हैं इससे अधिक
और क्या अज्ञान होगा ॥ २१ ॥
आत्मनस्तत्प्रकाशत्वं यत्पदार्थाव-
भासनम् ॥ नाग्न्यादिदीप्तिवद्दीप्तिर्भ-
वत्यान्ध्यं यतो निशि ॥ २२ ॥
सं. टी. नन्वात्मनः प्रकाशत्वं किं नामेत्यत आह
आत्मनइति आत्मनस्तत् प्रकाशत्वं बोद्धव्यं किंतदि-
त्यतआह यदिति यत्पदार्थावभासनं घटपटादिवस्तुवि-
षयप्रकाश इदंतया निर्दिश्यमानविषयदर्शनमिति या
वत् । तर्ह्यग्न्यादिप्रकाशवद्विकारित्वं स्यादित्यतआह
नाग्न्यादिदीप्तिवद्दीप्तिरिति इयमात्मदीप्तिरग्न्यादिदी-
प्तिवन्न कदाचिदुत्पत्तिविनाशादिविकारवतीत्यर्थः तत्र
हेतुमाह भवतीति भवत्यांध्यं यतो निशि यतःकारणा-
न्निशि रात्रावग्न्यादिप्रकाश एकस्मिन्देशेसत्यपितदन्य-
त्रलोकस्यांध्यं रूपग्रहणाक्षमत्वं भवति नैतादृश्यात्मदी-
प्तिरेकत्र विद्यमाना चैकत्राऽविद्यमाना परिच्छिन्ना चास्ति

संस्कृतटीका-भाषाटीकासहिता । (२३)
किंतु दीपादिरूपस्याग्न्यादिप्रकाशस्य प्रकाशिका
तद्भावे चांधकारस्य प्रकाशिका उत्पत्तिनाशरहि-
ता च सदा सर्वत्र पूर्णेवास्ति यद्वा इयमात्मदीप्तिरग्न्या-
दिदीप्तिसदृशी न कुतः यतः कारणात्निशि रात्रावांध्यमं-
धकारोभवत्यतद्विलक्षणाऽऽत्मदीप्तिर्ज्ञेया यद्यात्म-
दीप्तिरग्न्यादिदीप्तिसदृशीभवेत्तर्ह्यग्न्यादिदीप्त्या यथां-
धकारस्य नाशोभवति तथात्मदीप्त्याऽप्यंधकारस्य ना
शः स्यात् परंत्वात्मनः सत्ताप्रकाशाभ्यां सर्वत्र सर्वदा
विद्यमानत्वेऽप्यंधकारस्य नाशो नभवत्यत आत्मदीप्ति-
रग्न्यादिदीप्तिसदृशी न किंतु इयमग्न्यादिदीप्तिर्भातीद
मांध्यंभातीत्याद्याकारेणाऽग्न्यादिदीप्तेरांध्यस्य चान्य-
स्य सर्वस्य च प्रकाशिका चाविरोधिन्त्यात्मदीप्तिः स्वप्र-
काशैवाभ्युपेतव्या सर्वैरात्मज्ञानारूढैरित्यर्थः तस्मा-
दग्न्यादिदीप्तीनामपि दीपिकान्यसाधननिरपेक्षांयादी-
प्तिः स आत्मप्रकाश इतिभावः ॥ २२ ॥
भा. टी. जिस प्रकार घटपटादि पदार्थ प्रकाश होय हैं
तिसी प्रकार आत्माका प्रकाश होयहै सूर्य्य चन्द्र अग्निके
प्रकाशकी तरह आत्माका प्रकाशविकारको नही प्राप्त होय
है क्योंकि जब रात्रिमें सूर्यादिकका प्रकाश नहीं होयहै तब
अन्धकार होय है इससे जानाजायहै कि अग्नि आदिका
प्रकाश विकारको प्राप्त होय है किन्तु आत्माका प्रकाशक

( २४ ) अपरोक्षानुभूतिः ।
भी विकारको नहीं प्राप्त होयहै अर्थात् आत्माका प्रकाश
सदा सब जगह रहेहै ॥ २२ ॥
देहोऽहमित्ययं मूढो धृत्वातिष्ठत्यहो
जनः ॥ ममायमित्यपि ज्ञात्वा घटद्र-
ष्टेव सर्वदा ॥ २३ ॥
सं. टी. तदेवं प्रकाश्य प्रकाशकत्वादिलक्षणवैलक्ष-
ण्येसत्यपि आत्मानात्माभेददर्शिनमुपसंहरन्नुभयोर्भेदं
स्पष्टयति देहइति अहमहंशब्दप्रत्ययालंबनः प्रत्यगा
त्माऽयमिदंतयानिर्देश्यमानो घटादिवत्प्रत्यक्षतयादृ-
श्यमानोदेहोऽस्मीत्युभयोर्द्रष्टृदृश्ययोरैक्यंकृत्वा मूढः
स्वाज्ञानकार्यविपर्ययमोहव्याप्तोजनस्तिष्ठति कृतकृत्य
बुद्ध्या निर्व्यापारोभवतीत्यर्थः एतदहो महदज्ञान
मितिभावः किंकृत्वापीत्यत आह ममेति मम मत्संबंधी
अयं देह इति सामान्यतो भेदं ज्ञात्वापि अतएवाश्चर्य-
मिति तात्पर्यं कइव, सर्वदा घटद्रष्टेव यथा सर्वकाले
घटद्रष्टा पुरुषो ममायं घट इति जानाति नत्वहं घट
इति कदाचिदपि जानातीत्यर्थः ॥ २३ ॥
भा. टी. मनुष्यके पास एक घडा होयहै तब 'मेराघडा
है' ऐसा व्यवहार करै है मैं घट हूं ऐसाःव्यवहार नहीं करै
किन्तु यह देह मेरा है मैं हूं ऐसा संसारी पुरुष ज्ञान करैहै
परन्तु वास्तवमें अज्ञानहै ॥ २३ ॥