अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 17, कुल 109 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासहिता । ( ११ )
सं. टी. एवं शमादिष मभिधायैतत्कार्यभूतां मु-
मुक्षुतामाह संसारबंधेति इति यासुदृढा बुद्धिः सा
मुमुक्षुता वक्तव्येत्यन्वयः साकेत्यत आह भो विधे म-
दैव यद्वा सर्वकर्तर्विधातर्ब्रह्मन् मे मम संसारबंधनिर्मुक्ति-
र्नानायोनिसंबंधनिवृत्तिः कदा कस्मिन्काले कथं केन
प्रकारेण भवेदित्येवंरूपा बुद्धिर्मुक्षुतेत्यर्थः ॥ ९ ॥
भा. टी. किसप्रकार इस संसारबन्धनसे मेरी मुक्ति होगी
ऐसी जो अत्यन्त दृढ बुद्धिहै सो मुमुक्षुता कहावे है ॥ ९ ॥
उक्तसाधनयुक्तेन विचारःपुरुषेण हि ॥
कर्त्तव्यो ज्ञानसिद्धयर्थमात्मनः शु-
भमिच्छता ॥ १० ॥
सं. टी. इदं साधनचतुष्टयं यदर्थमपन्यस्तं तदिदानीं
दर्शयति उक्तेति उक्तानि ब्रह्मादीत्यारभ्य वक्तव्यासा
मुमुक्षुतेत्यंतग्रंथसंदर्भैण वर्णितानि यानि वैराग्यादिसा-
धनानि ज्ञानोपकरणानि तैर्युक्तेन पुरुषेणाधिकारिणा
देहवता मनुष्योत्तमेन हीति विद्वत्प्रसिद्धत्वेन वक्ष्य-
माणलक्षणः यद्वा हीत्यव्ययमेवार्थेऽन्यनिषेधार्थइत्यर्थः।
विचारो विवेकः कर्त्तव्य आवर्त्तयितव्यः किमर्थमित्यत
आह ज्ञानसिद्धयर्थमिति आत्मनो ज्ञानसिद्धयर्थं ब्रह्मा-
त्मैक्यबोधोद्भवनाय नन्वात्मज्ञानसिद्ध्याकः पुरुषार्थ
इत्याशंक्य मोक्षाख्यं चतुर्थपुरुषार्थरूपं फलं द्योतयत