सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)

Ananga Ranga of Kalyanamalla with Commentary

महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा

DevanagariSanskritpublished112 पृष्ठ

४ अनङ्गरङ्गः [ द्वितीयः
रजनीसुरतेषु पद्मिनी
न सुखं याति निसर्गतः क्वचित् ।
दिवसे शिशुयोगतो ⁴⁸ ऽपि सा
विकसत्यम्बुजिनी यथा ⁴⁹ रवेः ⁵⁰ ॥ १६ ॥
इति श्रीलाडग्वानविनोदाय महाकवि --- --- -चिते-
ऽनङ्गरङ्गे पद्मिन्यादिजातिवर्णनो नाम
प्रथमः स्थलः ॥ १ ॥
❧ ❦
अथ द्वितीयः स्थलः।
───:०:───
॥ अथ पद्मिनीप्रभृतीनां साधारणी चन्द्रकला
निरूप्यते ॥
सीमन्ताक्ष्यधरे कपोलगलके कक्षाकुचोः स्थले¹
नाभिश्रोणिवराङ्गजानुविषये² गुल्फे पदे ऽङ्गुष्ठके ।
कृष्णाकृष्णविभागतो³ मनसिजस्तिष्ठेत्क्रमाद्यापितां
वामाङ्गेष्वथ ऊर्ध्वतो ऽभिगमनान्मासस्य पक्षद्वये ॥ १ ॥
सीमन्ते करजं ददीत नयने गण्डे ऽपि संचुम्बनं
दन्तेनाधरखण्डनं च नखरैः कक्षां सकण्ठां लिखेत् ।
श्रोणीं चाथ कुचं करेण सुदृढं गृह्णीत नाभौ पुनः
संदंशाच्च चपेटकं⁴ स्मरगृहे मातङ्गलीलायितम् ॥ २ ॥
कुर्याद्वक्षसि ताडनं तु शनकैर्मुष्ट्यासकृद्बुद्धिगा-⁵
जान्वङ्गुष्ठपदेषु गुल्फविषये तैरात्मनो घातनम्⁶ ।

स्थलः ] अनङ्गरङ्गः ५
इत्थं चन्द्रकलाप्रदीपनविदो⁷ रागान्विता भोगिनो
नीत्वा⁸ स्वीयवशं कुरङ्गनयनां⁹ विन्दन्ति सौख्यं परम् ॥ ३ ॥
॥ अथ तासामेव पृथक्तया शशिकलोच्यते ॥
कण्ठे संश्लिष्य गाढं मृदु करजचयं गण्डपाल्यां नितम्बे¹⁰
पृष्ठे पार्श्वोदरे वा विदधदथ रदैः¹¹ खण्डयन्दन्तवासः ।
प्रेम्णा चुम्बँल्ललाटं वपुषि च जनयन् रोमहर्षं नितान्तं
सीत्कारप्रायवक्त्रां प्रतिपदि¹² नलिनीं द्रावयेन्ना¹³ विदग्धः ॥ ४ ॥
संचुम्ब्य दन्तवसनं जघने कपाले
पादद्वये स्तनयुगे च नखानि दत्त्वा¹⁴ ।
प्रायः प्रबुद्धमदनां¹⁵ युगलाख्यतिथ्यां¹⁶
कामी नयेद्वशदशां¹⁷ नलिनीं सहर्षम्¹⁸ ॥ ५ ॥
गाढालिङ्गनपूर्वकं कुचयुग

६ अनङ्गरङ्गः [ द्वितीयः
विलिखन्द्रुतमेव चित्रिणीं
' ननु²⁶ षष्ठ्यां द्रवतां नयेन्नरः ॥८॥
कण्ठे संपरिरभ्य बाहुलतया नाभिं²⁷ लिखन्पाणिजैः
दष्ट्वा चापि रदच्छदं सपुलकं गृह्णन्नुरोजद्वयम्²⁸ ।
कुर्वन्मन्मथमन्दिरे करिकरक्रीडायितं बुद्धिमा-
नष्ठम्यां स्मरवारिनिर्झरवतीं²⁹कुर्वीत चित्रप्रियाम् ॥९॥
कर्णोरुस्तनमध्यपृष्ठमदनागारेषु कव्यां तथा
कामिन्या निजवामपाणिकमलं कान्तः समालोडयन्³⁰ ।
ग्रीवां³¹ पाणिरुहैर्लिखंश्च शनकैश्चुम्बँल्ललाटं भृशं
कुर्यादाशु विसृष्टमन्मथजलां रामां दशम्यां तिथौ ॥१०॥
गाढं संपरिरभ्य गण्डफलके³² चुम्बन्दशंश्चाधरं³³
कर्णश्रोणिनखप्रदानरसिकः कुर्वन्निमेषं दृशोः³⁴ ।
सङ्कर्षंश्चिकुरान्विलासकुशलः³⁵ सीत्कारयुक्तां प्रियां
द्वादश्यां त्वरयातिविह्वलतनुं कुर्यात्पुमांश्चित्रिणीम् ॥११॥
॥ अथ शङ्खिन्याश्चन्द्रकला ॥
बाहुभ्यां³⁶ परिरभ्य गाढमधरं दन्तैर्दशन्निर्दयं
दोर्मूले खरपाणिजक्षतचयं³⁷ यच्छन्यथेष्टं भृशम् ।
संकुर्वञ्छुरितं कुचद्वयतटे नूनं तृतीयातिथौ³⁸
मुक्तानङ्गजलां स्वकीयवशगां कुर्यान्नरः³⁹ शङ्खिनीम् ॥१२॥
वक्षःकपोलगलकर्णपदेषु यच्छ-
न्यायो नखानि परिरभ्य कृतास्यपानः⁴⁰ ।
गाढं विमर्द्य मदनालयमाशुरीं न
संद्रावयेन्नरवरः किल सप्तमीषु ॥१३॥

स्थलः ] अनङ्गरङ्गः ७
परिरभ्य दृढं रदच्छदं
पिबन्नाघातरतो वराङ्गके⁴¹ ।
नखरैः परितो विदारय-
न्स्ववशं शम्भुतिथौ⁴² नयेत्प्रियाम् ॥१४॥
विलिखन्नखरैः⁴³ शिरोधरा-
मथ गृह्णंश्च कुचौ ससीत्कृतम्⁴⁴ ।
परिचुम्ब्य कपोलमङ्गनां
श्लथयेदाशु तिथौ मनोभवः⁴⁵ ॥१५॥
॥ अथ हस्तिनीचन्द्रकला ॥
मदनसदनमुच्चैर्मर्दयन्नाभिमूले
तरलितनिजपाणिर्दन्तवासो निपीय⁴⁶ ।
मृदुतरकरजाग्रैः संलिखन्पार्श्वदेशं⁴⁷
कलितकुच इभीनां⁴⁸ वल्लभः स्यान्नवम्याम् ॥१६॥
नयने परिचुम्ब्य कक्षयो-
र्नखघातरतः स्मरालये ।
रचयन्करिकेलिमानये-
त्स्ववशं शम्भुतिथौ⁴⁹ द्विपाङ्गनाम् ॥१७॥
नानालिङ्गनचुम्बनानि रचयन्प्रायेण तीक्ष्णैर्नखैः⁵⁰
कक्षोरुस्तनमण्डलान्यकरुणं संदारयन्केलिषु⁵¹ ।
कामागारचुचूलिकाश्रितकरः⁵² संत्यक्तरत्यम्बुकां
दर्शे पूर्णतिथौ च निःसहतनुं⁵³ कुर्यान्नरो हस्तिनीम् ॥१८॥
इति श्रीलाडखानविनोदाय महाकवि कल्याणमल्लविरचिते
ऽनङ्गरङ्गे चन्द्रकलानिरूपणं नाम
द्वितीयः स्थलः ॥ २ ॥

अथ तृतीयस्थलः।
— ❖ —
॥ अथ शशमृग्यादिभेदेन सुरतभेदो निरूप्यते ॥
आरोहैर्मदनाङ्कुशस्य पुरुषा ज्ञेयाः सदाथ स्त्रियो
योनीनां परिणाहकै² रसनवादित्याङ्गुलीकैः क्रमात्¹।
जात्या ते तु नराः शशाश्च वृषभा अश्वास्तथैवाङ्गना
मृग्यश्वा द्विरदाङ्गनाश्च³ कथिताः प्राज्ञमुनिभिः सर्वतः ॥ १ ॥
हरिणीशशयोर्वृषाश्वयोः
समयोगः⁴ करिणीतुरङ्गयोः ।
भवतीह परस्परं द्वयो-
र्नितरां प्रीतिरनङ्गमङ्गले ॥ २ ॥
हरिणीवृषभं⁵ तथाश्विका-
तुरगं चोच्चमिति⁶ द्वयं रतम्⁷ ।
तुरगीशशकं द्विपद्वृषं
स्मृतमेतद्वितयं तु नीचकम् । ॥ ३ ॥
कुरङ्गीहययोर्योगे⁸ रतमत्युच्चकं विदुः ।
हस्तिनीशशयोश्चाथ⁹ रतं स्यादतिनीचकम् ॥ ४ ॥
तत्र प्रशस्य

स्थलः ] अनङ्गरङ्गः ९
कृमयो रुधिरोद्भवास्त्रिधा
लघुमध्योरुबलाः स्मरालये ।
जनयन्ति बलानुसारतो
बहुकण्डूं वनिताजनस्य ते ॥ ६ ॥
प्रमाणहीनलिङ्गेन सा कण्डूर्नोपशाम्यति¹² ।
अतो न नीचसम्भोगे¹³ तृप्तिं गच्छन्ति योषितः ॥ ७ ॥
वराङ्गमध्यं नारीणामत्यन्तं कोमलं स्मृतम्¹⁴ ।
अतिप्रमाणलिङ्गेन नातस्तासां¹⁵ सुखं भवेत् ॥ ८ ॥
समप्रमाणलिङ्गेन स्थूलेन सुदृढेन च ।
शमयन्मूलकण्डूतिं¹⁶ स्पन्दयंश्च मुहुर्मुहुः ॥ ९ ॥
कामकेलिकलाभिज्ञः सुखयन्विविधैर्गुणैः¹⁷ ।
विसृष्टकामसलिलां वशीकुर्यान्मृगीदृशम् ॥ १० ॥
नारी विसृष्टकुसुमेषुजला रतान्ते
नृत्यं करोति बहुवल्गनरोदने¹⁸ च ।
वैकल्यमेति मुकुलीकृतचारुनेत्रा
शक्नोति नो किमपि सोढुमतिप्रयासम् ॥ ११ ॥
चिरमध्यमशीघ्रसम्भवा
नरनार्योस्तु विसृष्टिरुच्यते ।
समयमितिम्भेदतो¹⁹
नवधैवं सुरतं समीरिताम् ॥ १२ ॥
चण्डमध्यमन्दाख्यांस्त्रीन्वेगांस्तु²⁰ विदुस्तयोः ।
क्रिया च²¹ त्रिविधा प्रोक्ता लघुमध्यचिरोदया ॥ १३ ॥
अत्रापि कालभेदेन नवधात्वं समूहयेत् ।
सप्तत्रिंशतिसंख्या हि कीर्तितेवं रतिर्बुधैः²² ॥ १४ ॥

१० अनङ्गरङ्गः [ तृतीयः
प्रचण्डवेगे बहुशो विसृष्टिः
कामाकुलत्वं रतिलोलता च ।
स्यान्मन्दवेगे विपरीतमेत-
त्तन्मध्यभावः ²³ खलु मध्यमेषु ॥१५॥
॥ अथ शशस्वरूपं निरूप्यते ॥
प्रायः कोमलकुन्तलाः पृथुदृशः शान्ताश्च तुच्छाशनाः ²⁴
सूक्ष्माङ्गाः शुचयः सुवर्तुलमुखास्त्वल्पदन्तास्तथा ²⁵ ।
बिभ्राणाः ²⁶ करजानुपादजघनग्रीवोरुषु श्यामतां
धन्याः स्वल्परताः ²⁷ सुगन्धिमदनस्यन्दा विनीताः शशाः ॥१६॥
॥ अथ वृषभलक्षणानि ॥
क्रूराः प्रोन्नतमौलयो दृढभुजाः सुप्रौढवक्षःस्थलाः
रूक्षाः कूर्मसमोदराश्च कठिनास्त्याम्रान्विताः पीवराः ।
शोणान्तःस्थिरदीर्घलोचनभृतः स्वारक्तहस्तोदराः ²⁸
व्यालोला वृषभा नृपाङ्गुलिमितं कामाङ्कुशं बिभ्रति ²⁹ ॥१७॥
॥ अथाश्वलक्षणानि ॥
दीर्घस्थूलशिरोरुहाश्चलदतिस्फारेक्षणाः ³⁰ क्रोधना
अत्यन्तं कृशदीर्घकन्धररदश्रोत्रानना ³¹ लोभिनः ³² ।
पीनोरःस्थलदीर्घबाहुयुगला ³³ निद्रालवः सालसाः
प्रौढा वक्रनखाङ्घ्रिजानुयुगला ³⁴ गम्भीरसंभाषिणः ॥१८॥
धृष्टाः खण्डरते रताश्च नितरां दीर्घाङ्गुलिश्रेणयः
स्थूलस्त्रीरतिलालसा बहुभुजो गत्या तु पृथ्व्यान्विताः ।
भूरिक्षारविगन्धिमन्मथजलप्रायास्तथा ³⁵ व्याकुला
आदित्याङ्गुलिसंमितं ³⁶ च तुरगा लिङ्गं सदा बिभ्रति ³⁷ ॥१९॥

स्थलः ] अनङ्गरङ्गः ११
॥ अथ मृगीलक्षणानि ॥
सान्द्राकुञ्चितकुन्तला समशिरास्तन्वी सुतुङ्गस्तनी ३८
फुल्लेन्दीवरलोचनाल्पविवरघ्राणा च तुच्छोदरी ३९ ।
आरक्ताधरपाणिपादयुगला पीनोरुकामालया
प्रायः कोमलचञ्चलर्जुभुजका ४० विस्तीर्णगण्डश्रुतिः ४१ ॥ २०॥
ईर्ष्यालुः सुकुमारिका पिकरवात्यन्तं रते लम्पटा
बिभ्रत्यम्बुजमञ्जुगन्धिमदनस्यन्दं ४२ तथालपाशना ।
सुश्रोणी सरलाङ्गुलिर्गजगतिश्चञ्चन्मना रागिणी
ज्ञेया निम्नषडङ्गुलैः परिमितं गुह्यं वहन्ती मृगी ॥ २१॥
॥ अथ वडवालक्षणानि ॥
मौलिं निम्नसमुन्नतं विदधती स्थूलर्जुसान्द्रैः कचै-
र्नीलाम्भोजदलेक्षणायतगलश्रोत्रानना कोमला ।

१२ अनङ्गरङ्गः [ चतुर्थः
दुःशीला शबलाङ्गिका पृथुकुचा कष्टैकसाध्या रता-
वत्यन्तं⁵¹ बहुभोजना⁵² च नितरां पापेषु बद्धस्पृहा ।
बिभ्रत्यैभमदोग्रगन्धमपि⁵³ सा कन्दर्पनीरं सदा
ज्ञेया भानुमिताङ्गुलीकमदनावासा बुधैर्हस्तिनी ॥२५॥
इति निर्दिष्टभेदानां व्यभिचारो ऽपि लक्ष्यते⁵⁴ ।
श्रेष्ठमध्याधमत्वेन सांकर्याच्च विशेषतः⁵⁵ ॥२६॥
इति श्रीमल्लाडखानविनोदाय महाकविकल्याणमल्लविरचिते
ऽनङ्गरङ्गे जातिविशेषपूर्वकं सुरतभेदनिरूपणं नाम
तृतीयः स्थलः ॥ ३ ॥
अथ चतुर्थः स्थलः ।
—:०:—
॥ अथाङ्गनानां समानधर्मा निरूप्यन्ते ॥
यावत्षोडशसंख्यमन्दमुदिता¹ बाला ततस्त्रिंशतं²
यावत्स्यात्तरुणीति बाणविशिखप्रख्यं³ तु यावद्भवेत् ।
सा प्रौढेत्यभिधीयते कविवरैर्वृद्धा तदूर्ध्वं⁴ स्मृता
निन्द्या कामकलाकलापविधिषु त्याज्या सदा कमिभिः⁵ ॥ १ ॥
बाला नवीनसुरते मुदिता तमिस्रे
संजायते ऽथ तरुणी महति प्रकाशे ।
प्रौढा प्रकाशतमसोः समुपैति सौख्यं
वृद्धा तु न क्वचन जीवितहारिणी⁶ सा ॥ २ ॥
बाला ताम्बूलमालाद्यैस्तरुणी भूरिभूषणैः ।
सुप्रेम्णा रज्यते⁷ प्रौढा वृद्धा त्वालापगौरवैः⁸ ॥ ३ ॥

स्थूलः ] अनङ्गरङ्गः १६
कृशतनुरतिदीर्घा निम्नकक्षा च कृष्णा
सुचिरपतिवियुक्ता कामिनी स्याच्छ्लथाङ्गी ।
पृथुलतरशरीरा गौरवर्णा च खर्वा ¹⁰
सततसुरतयोगा ¹¹ व्यूढकक्षा ¹² दृढा स्यात् ॥ ४ ॥
॥ अथ प्रकृतिलक्षणानि ॥
श्रेष्ठा बलासप्रकृतिः ¹³ पित्तला मध्यमा स्मृता ¹⁴ ।
अधमा वातला नारी तल्लक्षणमपि वक्ष्यते ¹⁵ ॥ ५ ॥
सुस्निग्धदन्तनखलोचनपद्मयुग्मा ¹⁶
मानोन्नता प्रियतमे सुदृढानुरागा ¹⁷ ।
श्यामाथ शीतमृदुमांसलगुह्यरन्ध्रा ¹⁸
प्रोक्ता कफप्रकृतिरेव वरा पुरन्ध्री ॥ ६ ॥
स्यात्पित्तला तु ¹⁹ गौराङ्गी शोगलोचनपाणिजा ।
क्षणं क्रुद्धा ²⁰ प्रसन्ना च पीनश्रोणिपयोधरा ²¹ ॥ ७ ॥
बिभर्ति घर्मसलिलं विस्रगन्धि सुबुद्धिका ।
श्लथकोष्णवराङ्गी ²² च कुशला सुरते मृदुः ॥ ८ ॥
वातला तु ²³ कठोराङ्गी रूक्षकेशी प्रलापिनी ²⁴ ।
चञ्चला बहुभोज्या च कृष्णपाणिजलोचना ²⁵ ॥ ९ ॥
श्यामा धूसरवर्णा च सुरते कठिना भृशम् ।
गोजिह्वाभखरस्पर्शं बिभर्ति मदनालयम् ॥ १० ॥
॥ अथ देवसत्त्वादय उच्यन्ते ॥
प्रसन्नवक्त्राम्बुजसौरभाङ्गी
सन्तोषयुक्ता शुचिकर्मदक्षा ²⁶ ।
प्रियंवदा भूरिधना जनाढ्या
नारीयमुक्ता किल देवसत्त्वा ॥ ११ ॥

१४ अनङ्गरङ्गः [ चतुर्थः
संगीतलीलारसिकातिशान्ता
सुगन्धमाल्यादिरुचिः शुभाङ्गी ।
विलासिनी निर्मलचारुवेषा²⁷
गन्धर्वसत्त्वा वनिता प्रदिष्टा ॥१२॥
अपेतलज्जा मधुमांससक्ता
पीनस्तनी चम्पकगौरदेहा ।
रोषान्विता²⁸ संततभोगवाञ्छा
प्रोक्ता कवीन्द्रैः खलु यक्षसत्त्वा ॥१३॥
आतिथ्यसख्यादिषु²⁹ बद्धभावा-
नुरागिणी निर्मलचित्तवृत्तिः ।
नानाव्रतैरेति³⁰ न च प्रयासं³¹
मनुष्यसत्त्वा परिकीर्तिता सा ॥१४॥
दुश्चारिणी कुत्सितभूरिभोज्या
हृष्टातिदुष्टा³² परितप्तगात्री ।
खर्वातिकृष्णा³³ गविकारवक्रा
मालिन्ययुक्तेति³⁴ पिशाचसत्त्वा ॥१५॥
व्याकुला भ्र

स्थलः ] अनङ्गरङ्गः १५
जातिसत्त्वादयो ये तु नारीणामत्र भाषिताः ⁴⁸ ।
प्रधाना ⁴⁹ प्रकृतिर्ज्ञेया तेषु सर्वेषु पण्डितैः ॥२०॥
॥ अथ स्त्रीणां नाशहेतव उच्यन्ते ॥
पितृसदननिवासः, संगतिः पुंश्चलीभिः,
प्रवसनमपि पत्युर्वार्द्धिकं सेर्यता च ⁵⁰ ।
वसतिरपरपुंभिर्दुष्टशीलैरवश्यं ⁵¹
क्षतिरपि निजवृत्तेर्योषितां ⁵² नाशहेतुः । ॥२१॥
॥ अथ वैराग्यहेतवः ॥
कार्पण्यादतिमानरोगविरहाद्योगादिपारुष्यतो
मालिन्यासमयज्ञतादिभयतः ⁵³ शोकाद्दरिद्र्यादपि ।
भर्तॄणां तनुतादिभिश्च ⁵⁴ वपुषः काठिन्यतः शङ्कना-
द्दोषाणां च वृथा प्रयान्ति ⁵⁵ वनिता वैराग्यमुच्चैः सदा ॥२२॥
॥ अथ विरक्तालक्षणानि ॥
नाभिपश्यति भर्तारं नोत्तरं संप्रयच्छति ⁵⁶ ।
वियोगे सुखमाप्नोति संयोगे चातिखिद्यति ⁵⁷ । ॥२३॥
शय्यामुपगता शेते वदनं मार्ष्टि चुम्बिता ।
तन्मित्रैर्द्वेष्टि मानं च विरक्ता नाभिवान्छति ॥२४॥
॥ अथ प्रीतिलक्षणम् ॥
नैसर्गिकी विषयजा समा चाभ्यासिकी तथा ।
चतुर्विधेति विद्वद्भिर्दम्पत्योः प्रीतिरुच्यते ॥२५॥
अभ्यासविषयासाध्या ⁵⁸ दम्पत्योः सहजा तु या ⁵⁹ ।
सान्द्रा निगडभूता च ⁶⁰ प्रीतिर्नैसर्गिकी मता ⁶¹ ॥२६॥

१६ अनङ्गरङ्गः [चतुर्थः
मालाचन्दनभोज्याद्यैर्विषयैर्वर्धिता तु या ।
प्रीतिर्विषयजा सोक्ता⁶² समयोगे समा स्मृता ॥२७॥
आखेटदेवपूजादिकेलिसंगीतकर्मसु ।
अभ्यासयोगाद्या वृद्धिं याति साभ्यासिकी मता⁶³ ॥२८॥
॥ अथ भोजन(न्दिव्यवस्था ॥
भोजनं द्विगुणं स्त्रीणां बुद्धिः कृत्ये चतुर्गुणा ।
निश्चयः षड्गुणः⁶⁴ पुंभ्यः⁶⁵ कामश्चाष्टगुणः स्मृतः⁶⁶ ॥२९॥
॥ अथ योनिस্বরূপं निरूप्यते ॥
योनिरभ्यन्तरे कापि पद्मकिञ्चल्ककोमला⁶⁷ ।
कापि स्यात्त्रुटिकाकीर्णा काचिद्गलिचयाकुला ॥३०॥
गोजिह्वाखरस्पर्शा काचिदभ्यन्तरे भवेत्⁶⁸ ।
पूर्वपूर्वतरा तासु श्रेष्ठा ज्ञेया⁶⁹ विचक्षणैः ॥३१॥
योनिमध्येऽस्ति नाड्येका⁷⁰ कामाङ्कुशसमा हि या⁷¹ ।
लिङ्गेन क्षोभिता सैव मदवारि⁷² निरन्तरम् ॥३२॥
कामातपत्रात्सृजति⁷³ स स्यन्दे इति कीर्त्यते ।
वराङ्गरन्ध्रादूर्ध्वं⁷⁴ तु नासिकाभं यदस्ति तत्⁷⁵ ॥३३॥
मन्मथच्छत्रमित्याहुराढ्यं मदशिराचयैः⁷⁶ ।
योनिरन्ध्रे⁷⁷ नातिदूरात्पूर्णचन्द्रास्ति नाडिका ॥३४॥
मनोजवारिसंपूर्णा स्त्रीणां तिष्ठति सर्वदा ।
तद्विसृष्ट्या⁷⁸ द्रुता नारी प्रोच्यते पूर्वसूरिभिः ॥३५॥
॥ अथालपसाध्योच्यते ॥
रङ्गादिश्रान्तदेहा⁷⁹ चिरविरहवती मासमात्रप्रसूता
गर्भालस्या च नव्यज्वरयुततनुका⁸⁰ त्यक्तमानप्रसङ्गा ।

स्थलः ] अनङ्गरङ्गः १७
स्नाता पुष्पावसाने नवरतिसमये मेघकाले वसन्ते ⁸¹
प्रायः सम्पन्नरागा मृगशिशुनयना स्वल्पसाध्या रते स्यात् ॥३६॥
कन्दर्पयुद्धे प्रथमे ऽल्पभावा-
श्चिरेण तृप्तिं वनिता लभन्ते ।
शीघ्रं द्वितीये धृतभूरिभावाः
पुंसः ⁸² क्रमोऽयं विपरीत उक्तः ॥३७॥
॥ अथ रताभिलाषचिन्हानि प्रोच्यन्ते ॥
संगृह्णात्यलकान्मुहुः स्तनयुगं ⁸³ वस्त्रेण नाच्छादये-
दन्तेनाप्यधरं दशेच्च विरमेत्सञ्जात लज्जा क्षणं ।
प्रायश्चुम्बति बालकं निजवपुः संभञ्जते जृम्भते
रथ्यां चापि रुणद्धि पश्यति च दोर्मूलं हसत्यादरात् ॥३८॥
आलिङ्गेत्स्वसखीं प्रियं प्रलपति ⁸⁴ प्रत्युत्तरं याचते ⁸⁵
रुऽव्यक्तं ⁸⁶ न च भाषते स्मितमुखी व्रीडां वृथा धारयेत् ।
व्याजेनैव विलम्बते प्रकुरुते ⁸⁷ मौलौ ⁸⁸ च कण्डूयनं
नारीणां सुरतस्पृहा ⁸⁹ बुधजनैर्ज्ञेयेति भावैः सदा ॥३९॥
इति श्रीलाडखानविनोदाय महाकवि कल्याणमल्लविरचिते
ऽनङ्गरङ्गे सामान्यधर्मनिरूपणं नाम
चतुर्थः स्थलः ॥ ४ ॥
— ✤ —

-ला-नु-रा-गि-णी = 10 syllables!)
Wait! Verse 2 Pada 1:
उ (1) प (2) भो (3) ग (4) क (5) ला (6) नु (7) रा (8) गि (9) णी (10)!
It IS 10 syllables!
Wait, what about Pada 3 of Verse 2:
करघातनुष्टमानसा (10 syllables: क-र-घा-त-नु-ष्ट-मा-न-सा = 8? No:
क (1) र (2) घा (3) त (4) नु (5) ष्ट (6) मा (7) न (8) सा (9) = wait, 9 syllables? Or करघाततुष्टमानसा: क-र-घा-त-तु-ष्ट-मा-न-सा = 8?
Wait! Let's count properly:
क (1)
र (2)
घा (3)
त (4)
तु/नु (5)
ष्ट (no, ष्ट has vowel a, so it's 6)
मा (7)
न (8)
सा (9)
Wait! 9 syllables?!
What meter is this?!
Let's look at Verse 4:
परिरम्भणलोलुपा रद- (9?

स्थलः ] अनङ्गरङ्गः १९
त्रपाविहीनातिमनोरमाङ्गी
स्यादान्ध्रकर्णाटभवा⁹ पुरन्ध्री ॥ ५ ॥
नितान्तकण्डूतियुतस्मराल्या¹⁰
द्रवन्ति चण्डध्वजघातनाच्चिरम्¹¹ ।
रतिप्रयोगे¹² चतराश्च योषितः
प्रकीर्तिताः कोसलराष्ट्रसम्भवाः¹³ ॥ ६ ॥
ईषद्धासमनोरमाश्च नितरां साक्षेपवाग्विभ्रमा
निर्लज्जाश्चपलाः कलासु कुशला गाढानुरागान्विताः ।
नार्यः पाटलिपुत्रजा अपि महाराष्ट्रोद्भवाः¹⁴ संततं
नानावेषविनोदभावरसिकाः सङ्कीर्तिताः पण्डितैः ॥ ७ ॥
कुसुममृदुशरीरा चुम्बनालिङ्गनादौ
बहुत रधृतभावा¹⁵ क्रूरचेष्टा विरक्ता¹⁶ ।
विषमविशिखयुद्धे स्तोकवेगा पुरन्ध्री
भवति तरलनेत्रा¹⁷ वङ्गजा गौडजा¹⁸ च ॥ ८ ॥
[L16

२० अनङ्गरङ्गः [ पञ्चमः
वनिता वनवाससम्भवा
दृढदेहाः परिकीर्तिता बुधैः ॥११॥
उपभोगरता सुलोचना
लघुसम्भोगविधिप्रतोषिणी²³ ।
शुभवेषधरा विचक्षणा
कथिता सा²⁴ खलु गुर्जरी बुधैः ॥१२॥
प्रचण्डवेगा अतिकृच्छ्रसाध्याः
सुकोपवत्यश्चलनेत्रपाताः²⁵ ।
भवन्ति दुष्टाः किल²⁶ सिन्धुजाता-
अवन्तिबाह्लीकभवाश्च नार्यः²⁷ ॥१३॥
नानोपभोगरसिका रतिरङ्गदक्षा
प्रोत्फुल्लपद्मनयना²⁸ प्रियबद्धरागा ।
कन्दर्पदर्पपरिदीपनभावशीला²⁹
ज्ञेया बुधैर्मृदुगतिः³⁰ खलु तीरभुक्ता³¹ ॥१४॥
सम्भोगशिक्षाकुशलाः सलज्जाः
प्रियोपभोगा अतिचण्डवेगाः ।
मनोरमाः पुष्पपुरप्रसूताः³²
स्युरङ्गजा मद्रतिलङ्गजाश्च³³ ॥१५॥
मृद्यः सुवाचो लघुभोगसाध्याः
ससाहसा³⁴ वीतभयत्रपाश्च ।
समानरूपा द्रविडे प्रजाताः³⁵
सौवीरभेदे³⁶ मलये च नार्यः ॥१६॥
नखादिविन्यासकलाविहीनाः³⁷
सम्भोगसंमर्दनजाततोषाः³⁸ ।

स्थलः ] अनङ्गरङ्गः २१
स्वभावतो दुष्टतमाः ३९ प्रचण्डाः
काम्बोजपौण्ड्रप्रभवाः ४० पुरन्ध्रयः ४१ ॥१७॥
दुर्गन्धिगात्रा लघुभोगतुष्टाः
संचुम्बनाश्लेषणभावहीनाः ४२ ।
म्लेच्छाङ्गनाः पर्वतजाश्च नार्यो
गाध्याश्च ४३ काश्मीरभवास्तथैव ४४ ॥१८॥
जात्यादिसात्म्यमिति तत्त्वत एव ४५ यस्तु
ज्ञात्वा नरः सकलकामकलाप्रवीणः ।
सन्तोषयेच्च ४६ सततं सुरतप्रयोगे ४७
प्राणैः समत्वमुपयाति स ४८ कामिनीनाम् ॥१९॥
इति श्रीमल्लाडखानविनोदाय महाकविकल्याणमल्ल विरचिते
ऽनङ्गरङ्गे जात्यादिधर्मनिरूपणं नाम
पञ्चमः स्थलः ॥ ५ ॥
━:•:━
अथ षष्ठः स्थलः ।
━:•:━
॥ अथ द्रावणादियोगा निरूप्यन्ते ॥
प्रागेव पुंसः सुरते न याव-
न्नारी द्रवेद्भोगफलं न तावत् ।
अतो बुधैः कामकलाप्रवीणैः १
कार्यः प्रयत्नो दनिताद्रवत्वे ॥ १ ॥
जात्यादिसात्म्यं २ दुर्ज्ञेयं ३ साङ्कर्यादिविशेषतः ।
अत एवऽतिसौक्ष्म्याच्च कलापीन्दोर्गोचरा ४ ॥ २ ॥

२१ अनङ्गरङ्गः [ षष्ठः
तस्माल्लोकहितार्थाय दम्पत्योः सुखसिद्धये ।
नानौषधविधानेन द्रवयुक्तिरुदीर्यते ॥ ३ ॥
मधुना सहितं घोषाचूर्णं⁵ यस्या वराङ्गके ।
निक्षिप्यते नताङ्गी सा पुंसः प्राग्द्रवतां व्रजेत्⁶ ॥ ४ ॥
शुद्धं शङ्करबीजं च जातीरसवमर्दितम्⁷ ।
वराङ्गमध्य निक्षिप्तं नारीं सन्द्रावयेद्द्रुतम्⁸ ॥ ५ ॥
चिञ्चाफलं ससिन्दूरं⁹ माक्षिकेण समन्वितम् ।
क्षिप्तं गुह्यान्तरे योषां¹⁰ प्रागेव द्रवतां नयेत् ॥ ६ ॥
कर्पूरं टङ्कणं शम्भुबीजं चेति¹¹ त्रिभिः समैः ।
सक्षौद्रैर्लिप्तलिङ्गस्तु¹² नरः सन्द्रावयेत्प्रियाम्¹³ ॥ ७ ॥
मध्वाज्यागस्त्यपत्रोत्थ रससंमर्दितेन च¹⁴ ।
टङ्कणेन ध्वजं लिप्त्वा द्रावयेदबलां नरः¹⁵ ॥ ८ ॥
जीर्णो गुडश्चिञ्चिकाफलं च
घोषारज¹⁶ क्षौद्रयुतं समांशम् ।
एभिर्ध्वजं यः परिलिप्य शेते¹⁷
कुर्यात्स¹⁸ रेतश्च्युतिमङ्गनानाम् ॥ ९ ॥
मरिचकनकबीजैः पिप्पलीलोध्रयुक्तै¹⁹-
र्विमलमधुविमिश्रैर्मानवो लिप्तलिङ्गः ।
स्मरसमरविलासे कष्टसाध्यां च नारीं²⁰-
मपगतरतरागां²¹ संविदध्यादवश्यम्²² ॥ १० ॥
॥ अथ स्तम्भनविधिः ॥
पतनान्मदनाम्भसो द्रुतं²³
परितोषो न भवेद्विलासिनाम्²⁴ ।

स्थल: ] अनङ्गरङ्गः २३
सुरतोत्स्रवसिद्धिहेतवे
तदयं स्तम्भविधिर्निरूप्यते ॥११॥
लज्जालुमूलं २५ गोक्षीरैर्वज्रीक्षीरेण वा पुनः ।
पिष्ट्वा स्वपादौ संलिप्य चिराद्बीजं २६ न मुञ्चति २७ ॥१२॥
अथ कौसुम्भतैलेन वर्षाभूरजसापि वा ।
लिप्तपादः पुमानेतो न जहाति रते द्रुतम् २८ ॥१३॥
सितायाः काकजङ्घाया मूलं २९ श्वेताब्जकेसरम् ३० ।
क्षौद्रेण नाभिसंलेपाद्बीजं स्तभ्नाति ३१ कामिनः ॥१४॥
शम्याके ३२ शम्भुबीजं च कर्पूरं ३३ च ३४ समांशकम् ।
मधुना लेपयेन्नाभौ ३५ यः स बीजं ३६ न मुञ्चति ॥१५॥
सितकोकिलवृक्षस्य ३७ बीजं पुष्योद्धृतं कटौ ।
बद्धं लोहितसूत्रेण बीजस्तम्भं करोत्यलम् ३८ ॥१६॥
सप्तपर्णस्य बीजं वा ३९ रविवारे समुद्धृतम् ।
वक्त्रे धृतं नृणां बीजं स्तभ्नाति सुरते चिरम् ॥१७॥
श्वेतेषुपुङ्खामूलं ४० वा पुष्यार्के प्राप्य यः कटौ ।
कन्याकर्तितसूत्रेण बध्नाति स ४१ भजेचिरम् ॥१८॥
बीजं सितपिकाख्यस्य वटक्षीरेण पेषितम् ।
करञ्जबीजमध्यस्थं स्तम्भयेद्वदने ४२ धृतम् ॥१९॥
॥ अथ वाजीकरणविधिः ॥
शक्तेरभावात्स्तम्भादि ४३ सर्वमेवाप्रयोजकम् ।
अतः ४४ शरीरपुष्ट्यर्थं वाजीकरणमुच्यते ॥२०॥
चूर्णं विदार्याः स्वरसैर्भावितं भानुशोषितम् ।
मध्वाज्यमिश्रितं लीढ्वा ४५ भजते वनिता दश ॥२१॥