अनङ्गरङ्ग (महाकवि कल्याणमल्ल - कामशास्त्र एवं रति-प्रयोग संस्कृत मूल पाठ)
Ananga Ranga of Kalyanamalla with Commentary
महाकवि कल्याणमल्ल (सम्पादक: पं. शालिग्राम वैश्य) द्वारा
पृष्ठ 35, कुल 112 में से
संदर्भ में पढ़ेंस्थल: ] अनङ्गरङ्गः २३
सुरतोत्स्रवसिद्धिहेतवे
तदयं स्तम्भविधिर्निरूप्यते ॥११॥
लज्जालुमूलं २५ गोक्षीरैर्वज्रीक्षीरेण वा पुनः ।
पिष्ट्वा स्वपादौ संलिप्य चिराद्बीजं २६ न मुञ्चति २७ ॥१२॥
अथ कौसुम्भतैलेन वर्षाभूरजसापि वा ।
लिप्तपादः पुमानेतो न जहाति रते द्रुतम् २८ ॥१३॥
सितायाः काकजङ्घाया मूलं २९ श्वेताब्जकेसरम् ३० ।
क्षौद्रेण नाभिसंलेपाद्बीजं स्तभ्नाति ३१ कामिनः ॥१४॥
शम्याके ३२ शम्भुबीजं च कर्पूरं ३३ च ३४ समांशकम् ।
मधुना लेपयेन्नाभौ ३५ यः स बीजं ३६ न मुञ्चति ॥१५॥
सितकोकिलवृक्षस्य ३७ बीजं पुष्योद्धृतं कटौ ।
बद्धं लोहितसूत्रेण बीजस्तम्भं करोत्यलम् ३८ ॥१६॥
सप्तपर्णस्य बीजं वा ३९ रविवारे समुद्धृतम् ।
वक्त्रे धृतं नृणां बीजं स्तभ्नाति सुरते चिरम् ॥१७॥
श्वेतेषुपुङ्खामूलं ४० वा पुष्यार्के प्राप्य यः कटौ ।
कन्याकर्तितसूत्रेण बध्नाति स ४१ भजेचिरम् ॥१८॥
बीजं सितपिकाख्यस्य वटक्षीरेण पेषितम् ।
करञ्जबीजमध्यस्थं स्तम्भयेद्वदने ४२ धृतम् ॥१९॥
॥ अथ वाजीकरणविधिः ॥
शक्तेरभावात्स्तम्भादि ४३ सर्वमेवाप्रयोजकम् ।
अतः ४४ शरीरपुष्ट्यर्थं वाजीकरणमुच्यते ॥२०॥
चूर्णं विदार्याः स्वरसैर्भावितं भानुशोषितम् ।
मध्वाज्यमिश्रितं लीढ्वा ४५ भजते वनिता दश ॥२१॥