सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] चतुर्थं कोशस्थानम् ६८३
यदुक्तम्—"न सर्वेषां कर्मपथानां लोभादिभिर्निष्ठा" इति, अथ कस्य
केन निष्ठा ?
वधव्यापादपारुष्यनिष्ठा द्वेषेण,
एषां प्राणातिपात-व्यापाद-पारुष्याणां द्वेषेण समाप्तिः; परित्यागपरुषचित्त-
सम्मुखीभावात् ।
लोभतः ।
परस्त्रीगमनाभिध्याऽदत्तादानसमापनम् ॥ ७० ॥
लोभेन काममिथ्याचाराभिध्याऽदत्तादानानां समाप्तिः ॥ ७० ॥
मिथ्यादृष्टेस्तु मोहेन,
अधिमात्रभूतो हि तां निष्ठापयति ।
शेषाणां त्रिभिरिष्यते ।
के पुनः शेषाः ? मृषावादपैशुन्यसम्भिन्नप्रल'पाः । एषां त्रिभिरपि निष्ठा—
लोभेन, द्वेषेण, मोहेन वा ।
य एते कर्मपथाश्चतुर्भिः काण्डैरुक्तास्त्रयस्त्रय एकश्चायश्च, एषा

६८४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
यः परं मरणान् नियमय्य समं तेन पूर्वं वा म्रियते, किमस्य मौलः कर्मपथो
भवति ? उताहो न ?
समं प्राक् च मृतस्यास्ति न मौलः,
अत एवोच्यते—"स्यात् प्रयोगं कुर्यात् फलं च परिपूरयेन्न च प्राणाति-
पातावद्येन स्पृश्यते ? आह—स्यात्, यथापि तद्वद्यपरोपकः पूर्वं स वा कालं
कुर्यात्" ( ) इति । किं पुनस्तत् कारणम् ?
न हि वध्ये जीवति हन्तुः प्राणातिपातावद्येनास्ति योगः, नापि सहमृतस्य
हन्तुः ।
अन्याश्रयोदयात् ।
येनाश्रयेण तत्प्रयोगः कृतः स उच्छिन्नः, अन्य एवाश्रयो निकायभागभिन्न
उत्पन्नः, तस्य प्रयोक्तृत्वात् कर्मपथेन योगो न उक्तः ।
यत्सेनापातमृगयावस्कन्धेषु परेषां वधार्थं बहवः समग्राः पतन्ति, एकश्च
प्राणातिपातं करोति, कस्तेन समन्वगतो भवति ?
सेनादिष्वेककार्यत्वात्¹ सर्वे कर्तृवदन्विताः² ॥ ७२ ॥
यथैव हि कर्त्ता, तथा सर्वे समन्वागता भवन्ति; एककार्यत्वात् । अर्थतो
हि तेऽन्योन्यं प्रयोक्तारो भवन्ति ।
यस्तर्हि बलान्नीयते, सोऽपि समन्वागतो भवति ? अन्यत्र य एवं निश्चित्य
यायात्—'यावज्जीवितहेतोरपि प्राणिनं न हनिष्यामि' इति ॥ ७२ ॥
कियता पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति ? कियता याव-
न्मिथ्यादृष्टिः कर्मपथः—इति लक्षणं वक्तव्यम् ? तदुच्यते—
“न मौलः” इति । प्रतिषेधात् पृष्ठमपि न भवतीति गम्यते । मौल-
पूर्वत्वात् पृष्ठस्य ।
न च प्राणातिपातावद्येन स्पृश्यत इति । न मौलेनेत्यभिप्रायः ।
“अन्याश्रयोदयात्” इति । विसभागाश्रयोदयादित्यर्थः ।
अर्थतो हि तेऽन्योन्यं प्रयोक्तार इति । न वाचा तेऽन्योन्यं प्रयोक्तारः, किं
तर्हि ? प्राणातिपातकारणाभ्युपगमादर्थत इति दर्शयति । एककार्यत्वात् ॥ ७२ ॥
१-१. सेनादेश्वैककार्यत्वात् सर्वकर्तृवदस्ति सः—इति पाठान्तरम् ।

निर्देशः ] चतुर्थं कोशस्थानम् ६८५
प्राणातिपातः सञ्चिन्त्य परस्याभ्रान्तिमारणम् ।
यदि 'मारयिष्याम्येनम्' इति संज्ञाय परं मारयति, तमेव च मारयति नान्यं
भ्रमित्वा—इयता प्राणातिपातो भवति । यस्तर्हि सन्दिग्धो मारयति—किमयं
प्राणी न प्राणीति, स एवान्यो वेति, सोऽप्यवश्यमेतं निश्चयं लब्ध्वा तत्र
प्रहरति । योऽस्तु सोऽस्त्विति कृतमेवानेन त्यागचित्तं भवति ।
कथं क्षणिकेषु स्कन्धेषु प्राणातिपातो भवति ? प्राणो नाम वायुः
कायचित्तसन्निश्रितो वर्तते, तमतिपातयति १ । यथा प्रदीपं निरोधयति,
घण्टास्वनं वा ।
जीवितेन्द्रियं वा प्राणः, तन्निरोधयति । यद्येकस्यापि जीवितक्षणस्योत्पद्य-
मानस्यान्तरायं करोति, प्राणातिपातावद्येन स्पृश्यते, नान्यथा ।
कस्य तज्जीवितं यस्तदभावान्मृतो भवति ? 'कस्य' इति षष्ठीं पुद्गलवादे
चिन्तयिष्यामि २ । उक्तं तु भगवता—
संज्ञाय परिच्छिद्येत्यर्थः । नान्यं भ्रमित्वेति । न भ्रान्त्या अन्यं मारयतीत्यर्थः ।
क्षणिकेषु स्कन्धेष्विति । स्वरसेनेव विनश्वराणां स्कन्धानां कथमन्येनेषां
निरोधः क्रियते इत्यभिप्रायः । प्राणो नाम वायुः कायचित्तसन्निश्रितो वर्तत
इति । कथं चित्तसन्निश्रितो वायुः प्रवर्तते ? चित्तप्रतिबद्धवृत्तित्वात् ।
तथा हि—निरोधासंज्ञिसमापत्तिसमापन्नस्य मृतस्य च न प्रवर्तते । शास्त्रेऽ-
प्युक्तम्—"ये इमे आश्वासप्रश्वासाः, किं ते कायसन्निश्रिता वर्तन्त इति
वक्तव्यम् ? चित्तसन्निश्रिता वर्तन्त इति वक्तव्यम् ? नैव कायचित्तसन्निश्रिता
वर्तन्त इति वक्तव्यम् ? कायचित्तसन्निश्रिता वर्तन्त इति वक्तव्यम् ? आह—
कायचित्तसन्निश्रिता वर्तन्त इति वक्तव्यमिति विस्तरः । तमतिपातयति
इति । तं प्राणं विनाशयतीत्यर्थः । उत्पन्नस्य स्वरसनिरोधादनागतस्योत्पत्तिं
प्रतिबध्नन् निरोधयतीत्युच्यते । यथा प्रदीपं निरोधयति । घण्टास्वनं वा ।
क्षणिकमपि सन्तम् । कथं च स निरोधयति ? अनागतस्योत्पत्तिप्रतिबन्धात् ।
जीवितेन्द्रियं वा प्राण इति । चित्तविप्रयुक्तस्वभावमेनं दर्शयति ।
कस्य तज्जीवितम् । यस्तदभावान्मृत इति । यः प्राणी जीवितस्याभावान्मृतो
भवति स बौद्धानां नास्ति; नैरात्म्यवादित्वात् । अत एवं पृच्छति । कस्येति
षष्ठीम् पुद्गलवादे पुद्गलप्रतिषेधप्रकरणे—"असत्यात्मनि कस्येयं स्मृतिः ?
१. तमभिपातयति—का० । २. विचारयिष्यामः—का० ।

१८४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
"आयुरूष्माऽथ विज्ञानं यदा कायं जहात्यमी ।
अपविद्धस्तदा शेते यथा काष्ठमचेतनम्" ॥ ( ) इति
तस्मात् सेन्द्रियः कायो जीवतीत्युच्यते, अनिन्द्रियो मृत इति ।
"अबुद्धिपूर्वादपि प्राणिवधात् कर्तुरधर्मः, यथा—अग्निसंयोगाद् दाहः"
इति निर्ग्रन्थाः ।
तेषां परस्त्रीदर्शनसंस्पर्शन' एष' प्रसङ्गः । निर्ग्रन्थशिरोलुञ्चने च कष्ट-
तपोदेशने च शास्तुः, ²विसुचिकामरणे च दातुः, वैद्यानां चातुरपीडने, मरणे
च मातृ-गर्भस्थयोश्च; अन्योन्यदुःखनिमित्तत्वात् । वध्यस्यापि च तत्क्रियासम्ब-
न्धाद्, अग्निस्याश्रयदाहवत् । कारयतश्चाप्रसङ्गः; तदसम्बन्धात् । परेणाग्निं
स्पर्शयतस्तेनादाहवत् । अचेतनानां च काष्ठादीनां गृहपाते प्राणिनां वधात्
किमर्थैषा षष्ठी" इत्यत्र प्रदेशे चिन्तयिष्यामि । आस्तां तावदेतत् सामान्यासिक-
मित्यभिप्रायः ।
तस्मात् सेन्द्रियः कायो जीवतीति । सेन्द्रियस्यैव कायस्य तज्जीवितं नात्मन
इति दर्शयति । स एव चानिन्द्रियो मृत इति ।
अबुद्धिपूर्वादिति विस्तरः । असञ्चिन्त्यकृतादपि प्राणातिपातं कर्तुरधर्मो
यथाग्निसंस्पर्शादबुद्धिपूर्वदासञ्चिन्त्यकृताद् दाह इति । निर्ग्रन्था नग्नाटकाः । तेषां
निर्ग्रन्थानामेवंवादिनाम् । अबुद्धिपूर्वेऽपि परस्त्रीदर्शनसंस्पर्शन एष प्रसङ्गः । पाप-
प्रसङ्ग इत्यर्थः । अग्निदृष्टान्तात् । निर्ग्रन्थशिरोलुञ्चने वा निर्ग्रन्थशिरःकेशोत्पाटने
च । दुःखोत्पादनबुद्धयभावेऽप्यधर्मप्रसङ्गः । कष्टतपोदेशने च । निर्ग्रन्थशास्तुर-
धर्मप्रसङ्गो बुद्धयपेक्षयाम् । परस्य दुःखोत्पादनमधर्माय भवतीति कृत्वा ।
तद्विसूचिकामरणे च । निर्ग्रन्थानां विसूचिकया अजीर्णेन मरणे । दातुरन्न-
दातुरधर्मप्रसङ्गः । अन्नदानेन मरणकारणात् । अबुद्धिपूर्वोऽपि हि प्राणिवधः
कारणमधर्मस्येति । मातृगर्भस्थयोश्च मातुः, गर्भस्थस्य च । अन्योन्यदुःखनिमित्त-
त्वात् । अधर्मप्रसङ्गः; तत एवाग्निदृष्टान्तात् । वध्यस्यापि च तत्क्रियासम्बन्धात् ।
प्राणातिपातक्रियासम्बन्धात् अधर्मप्रसङ्गः । वध्ये हि सति प्राणातिपातक्रिया
वधकस्य भवति । अग्निस्याश्रयदाहवत् । अग्निर्हि न केवलमन्यजनं दहति,
किं तर्हि ? स्वाश्रयमपि इन्धनं दहतीति । तद्वत् । न हि तेषां चेतनावशेषो-
ऽपेक्ष्यते । कारयतश्च परेण वधादि अधर्मस्याप्रसङ्गः । परेणाग्निं स्पर्शयतः स्पर्श-
यितुस्तेनादाहवत् । आग्नेयधर्माभ्युपगमात् । अचेतनानां च काष्ठादीनां काष्ठ
१-१. परदारदर्शनेऽप्येष—का० । २. ०मरणेन—मुद्रितः पाठः ।

?
Wait, line 3 has:
"अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः ।। ७२ ।।" ?? No, wait, why would line 3 have "।। ७३ ।।"?
Wait, look at line 3:
"अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः ।। ७३ ।।"
Wait, does it say 73 or 72? Let me look at both digits 3 in the page:
Top: ३८७ -> the digit ३ has:
upper curve: ╭╮
indent: >
lower curve: ╰╯
Now look at line 3:
digit 1: ७
digit 2: it has an upper curve, then an indent, then a lower curve!
Wait, does it?
YES! Look at the right edge of that digit: it goes in! It has two curves! It is a ३!
Wait, why does line 3 have ।। ७३ ।। and line 9 have ॥ ७३ ॥?
Wait, look at line 9:
Is line 9 ॥ ७३ ॥?
Yes, line 9 is definitely ॥ ७३ ॥!
Wait, could line 3 be ॥ ७३ ॥? Yes! In Sanskrit texts (especially Shastri's Bauddha Bharati editions), sometimes a kārikā number is printed at the end of the first half (or after the first line), or it's a reprint error, or it's 7

६८८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
पथः । यद्यन्यः परस्त्रीसंज्ञायान्यामभिगच्छेत् परदारप्रयोगाद्, वस्तुपरिभोगाच्च
स्यादित्येके । अन्यत्र प्रयोगान्न स्यात् प्राणातिपातवदित्यपरे ।
भिक्षुणीं गच्छतः कस्यान्तिकात् काममिथ्याचारः ? विषयस्वामिनः । तस्य
हि तन्न मर्षणीयम् । तस्यापि सनियमा स्वभार्यैव तु सा न गम्या ।
कुमारीं गच्छतो यस्य निसृष्टा । नो चेद्यस्य रक्षा, अन्ततो राज्ञः ।
अन्यसंज्ञोदितं¹ वाक्यमर्थाभिज्ञे मृषावचः ॥ ७४ ॥
यदि यमर्थं ब्रवीति तस्मिन्नन्यथासंज्ञी भवति, यं चाधिकृत्य ब्रवीति स तस्य
वाक्यस्यार्थाभिज्ञो भवति, तद्वाक्यं मृषावादः । अनभिज्ञे किं स्यात् ? सम्भिन्न-
प्रलापः स्यात् ।
'वाक्यम्' इत्युच्यते, कदाचिच्च बहवो वर्णा वाक्यं भवन्तीति कतमस्तत्र
कर्मपथः ? पश्चिमः सहाविज्ञप्त्या, यत्र चार्थभिज्ञो भवति । पूर्वे तु वर्णाः प्रयोगः ।
'अर्थाभिज्ञे' इत्युच्यते, किं तावदभिज्ञातार्थे श्रोतरि ? आहोस्वित् अभिज्ञातुं
समर्थे ? किं चातः ? यद्यभिज्ञातार्थे मनोविज्ञानविषयत्वाद्, वाक्यार्थस्य श्रोतृ-
विज्ञानेन सह निरोधाच्च वाग्विज्ञप्तेरविज्ञप्तिरेव स्यात् कर्मपथः ? अथाभिज्ञातुं
समर्थे; एवं दोषो न भवति । कथं चाभिज्ञातुं समर्थोऽप्युत्पन्नभाव उत्पन्ने
श्रोत्रविज्ञाने ? यथा न दोषस्तथास्तु ॥ ७४ ॥
प्राणातिपातवदिति । यथा देवदत्तं मारयामीत्यभिप्रायेण यज्ञदत्तं मारयतो
प्राणातिपातो भवति, तद्वत् । इहान्यस्मिन् वस्तुनि प्रयोगोऽभिप्रेतः, अन्यच्च
वस्तु परिभुक्तमिति न स्यात् काममिथ्याचार इत्यपरे ।
अन्ततो राज्ञ इति । यद्यन्यः कश्चिद् रक्षिता नास्ति । अन्ततः सर्वपश्चाद्
राज्ञोऽन्तिकात् स काममिथ्याचारः । तस्य हि तन्न मर्षणीयमिति ।
आहोस्विदभिज्ञातुं समर्थ इति । योऽपि ह्यर्थमभिज्ञातुं समर्थः सोऽप्यर्था-
भिज्ञ इति शक्यते वक्तुम्—अर्थमभिजानीत इति; विप्रकृतावस्थायामभिप्रेत-
त्वात् । मनोविज्ञानविषयत्वाद् वाक्यार्थस्येति । 'नास्त्यत्र देवदत्तः', 'अस्ति वा'
इत्युच्यमाने शब्दः श्रोत्रा विज्ञायते । तदनन्तरं तु चक्षुरादिसमूहो देवदत्तो
वाक्यार्थो विकल्पेन मनोविज्ञानेन विज्ञायते, तेनाविज्ञप्तिरेव मौलः कर्मपथः
स्यात् । वाग्विज्ञप्तेः श्रोत्रविज्ञानेन सह निरोधात् । इष्यते च विज्ञप्त्यविज्ञप्ति-
१. अन्यथासंज्ञिनो—का ।

निर्देशः ] चतुर्थं कोशस्थानम् ६८९
षोडश व्यवहाराः सूत्र उक्ताः--"अदृष्टे दृष्टवादिता, अश्रुते, अमते,
अविज्ञाते विज्ञातवादिता, दृष्टे अदृष्टवादिता, यावद् विज्ञातेऽविज्ञातवादिता
इतीमेऽनार्या अष्टौ व्यवहाराः । दृष्टे दृष्टवादिता, यावद्विज्ञाते विज्ञातवादिता,
अदृष्टेऽदृष्टवादिता, यावदविज्ञातेऽविज्ञातवादिता इतीमे आर्या अष्टौ व्यवहाराः ।
तत्रैषां दृष्टश्रुतमतविज्ञातानां किं लक्षणम् ?
चक्षुःश्रोत्रमनश्चित्तैरनुभूतं त्रिभिश्च यत् ।
तद् दृष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम् ॥ ७५ ॥
यच्चक्षुर्विज्ञानेनानुभूतं तद् दृष्टमित्युक्तम् । यच्छ्रोत्रविज्ञानेन तच्छ्रुतम् ।
यन्मनोविज्ञानेन तत् विज्ञातम् । यत् घ्राणजिह्वाकायविज्ञानैस्तन्मतम् । किं
कारणम् ? गन्धरसस्प्रष्टव्यान्यव्याकृतत्वान्मृतकल्पानि । अत एतेषु मतारुयेति
वैभाषिकाः ।
किमत्र ज्ञापकम् ? सूत्रम्, युक्तिश्च ।
सूत्रं तावत्--"तत्किं मन्यसे माहकीमातः यानि त्वया चक्षुषा रूपाणि
न दृष्टानि न दृष्टपूर्वाणि न पश्यसि, नापि ते एवं भवति पश्येयमिति; अपि
नु ते तन्निदानमुत्पन्नम्, छन्दो वा रागो वा स्नेहो वा येन वा आलयो वा
नियतिरध्यवसानं वा ? नो भदन्त । ये त्वया श्रोत्रेण शब्दा न श्रुता न श्रुतपूर्वाः,
विस्तरेण यावन्मनसा धर्मा न विज्ञाताः ? विस्तरेण यावन्नो भदन्त । अत्र च ते
माहकीमातर्दृष्टे दृष्टमात्रं भविष्यति, श्रुते मते विज्ञाते विज्ञातमात्रम्" ( )
इत्युक्तम् । अतस्त्रिषु विषयेषु दृष्टश्रुतविज्ञातशब्दापदेशाद् गन्धादिषु मतारूया
गम्यते ।
स्वभावो मौलः कर्मपथ इति ॥ ७४ ॥
मृतकल्पानि । अत एतेषु मताख्येति । नैरुक्तं विधिमालम्ब्य वैभाषिका
व्याचक्षते । स्वेन्द्रियैः प्राप्ता मता इत्याचार्यसङ्घभद्रः ।
विस्तरेण यावन्मनसा धर्मा इति । ये त्वया घ्राणेन गन्धा न घ्राताः,
जिह्वया रसा नास्वादिताः, कायेन स्प्रष्टव्यानि न स्पृष्टानि, यावत् ये त्वया
मनसा धर्मा न विज्ञाता इति ।
त्रिषु विषयेषु रूपशब्दधर्मेषु दृष्टश्रुतविज्ञातापदेशाद् यथाक्रमम् । गन्धादिषु
गन्धरसस्प्रष्टव्येषु मतारूया गम्यते । ते मतशब्देनोच्यन्ते ।

६९० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
अत एवं चानिष्यमाणे दृष्टादिभावबाह्यत्वात् गन्धादिषु व्यवहारो न
स्यादित्येषा युक्तिः ।
सूत्रं तावज्ज्ञापकम्, अन्यार्थत्वात् । न ह्यत्र सूत्रे भगवान् व्यवहाराणां
लक्षणं शास्ति स्म । किं तर्हि ? 'अत्र च तव¹' षड्विधे विषये चतुर्षु व्यवहारेषु
दृष्टादिव्यवहारमात्रं भविष्यति । न हि² प्रियाप्रियनिमित्ताध्यारोप.' इत्ययमत्र
सूत्रार्थो दृश्यते ।
किं पुनर्दृष्टम् ? किं च यावद्विज्ञातम् ?
केचित् तावदाहुः—यत् पञ्चभिरिन्द्रियैः प्रत्यक्षं तद् दृष्टम् । यत् परत
आगमितं तच्छ्रुतम् । यद्³ युक्त्यनुमानतो रुचतं तन्मतम् । यन्मनःप्रत्यक्ष-
एवं चानिष्यमाणे । गन्धादिषु मताख्येत्यनिष्यमाणे । दृष्टादिभावबाह्यत्वात् ।
गन्धादीनामरूपलक्षणत्वेन दृष्टभावबाह्यत्वाद्, अशब्दधर्मायतनलक्षणत्वेन च
श्रुतविज्ञातभावबाह्यत्वात् । गन्धादिषु व्यवहारो न स्यात् । दृष्ट इति वा,
यावद्विज्ञात इति वेत्येषा युक्तिः । तेषु मताख्येति ।
आचार्य आह—सूत्रं तावदिति विस्तरः । अन्यार्थत्वादिति । यस्मात् सूत्र-
स्यान्य एवार्थः । सूत्रार्थं ब्रवीति—अत्र च तव षड्विधे विषये रूपाद्यौ चतुर्षु
दृष्टादिव्यवहारेषु दृष्ट-श्रुत-मत-विज्ञातव्यवहारेषु दृष्टादिव्यवहारमात्रं भविष्य-
तीति । रूपे दृष्टमिति व्यवहारो भविष्यति, यावद्विज्ञातमिति । एवं शब्दादिषु
अत्र च ते माहकीमातर्दृष्टे⁴ विषयषट्के दृष्टमात्रं भविष्यति । श्रुते विषयषट्के,
मते, विज्ञाने विषयषट्के एवं विज्ञातमात्रमित्येवं तत् सूत्रपदं व्याख्यायत
इत्यभिप्रायः । न हि प्रियाप्रियनिमित्ताध्यारोपस्तव भविष्यतीति सूत्रार्थः । ननु
च यानि त्वया चक्षुषा रूपाणि न दृष्टानीत्येवोक्तानि, न तु न श्रुतानि यावन्न
विज्ञातानीत्येवोक्तानि; एवं शब्दा न श्रुता इत्येवोक्ताः, न तु न दृष्टा यावन्न
विज्ञाता इत्युक्ताः; एवं यावद्धर्मा न विज्ञाता इत्येवोक्ताः, न तु न दृष्टा यावन्न
स्पृष्टा इति ? नैष दोषः; उदाहरणरूपमेतदुक्तं भगवता । यथा हि रूपाणि न ।
दृष्टानीत्युक्तानि, तथा न श्रुतानि यावन्न विज्ञातानीति वक्तव्यानि । एवं
शब्दादिषु वक्तव्यम् । तेनेवं लक्षणमुच्यते ।
यत् पञ्चभिरिन्द्रयैरिति विस्तरः । यत् पञ्चभिरिन्द्रियैः प्रत्यक्षं रूपादि
तद् दृष्टम् । यत् परत आगमितं विषयषट्कमपि तच्छ्रुतम् । यद् युक्त्यनुमानतो
रुचितमभिप्रेतं तन्मतम् । युक्त्यनुमानमित्यव्यभिचार्यनुमानम् । तच्च षड्विषय-
१. ते—का० । २. का० पुस्तके नास्ति ।
३. यत् स्वयं—का० । ४. मालकीमात०—मुद्रितः पाठः ।

निर्देशः ] चतुर्थं कोशस्थानम् ६१२
भावेनाधिष्ठितं प्रत्यात्मवेद्यं तद् विज्ञातमिति ।
एते च पञ्च विषयाः प्रत्येकं दृष्टा इति वा कृत्वा व्यवह्रियन्ते, श्रुता मता
विज्ञाता इति वा । षष्ठोऽन्यत्र दृष्टादिति नास्ति गन्धादिषु व्यवहाराभावप्रसङ्गः ।
तस्मात्किद् युरप्येषा युक्तिर्न भवति ।
पूर्वाचार्या एवमाहुः—तद् दृष्टं यत् प्रत्यक्षीकृतं चक्षुषा । श्रुतं यच्छ्रोत्रेण
परतश्चागमितम्¹ । मतं यत् स्वयं चिन्तितम् । विज्ञातं यत् प्रत्यात्मं² प्रति-
संवेदितमधिगतं चोत्पन्नम् ।
प्रसङ्गेन शास्त्रं प्रवर्तयताम् । यः कायेनान्यथात्वं प्रापयेत् स्यान्मृषावादः ?
स्यात् । अत एवोच्यते —“स्यान्न कायेन पराक्रमेत, प्राणातिपातावद्येन च
स्पृश्येत । स्याद् वाचा पराक्रमेत स्यान्न वाचा पराक्रमेत, मृषावादावद्येन च
स्पृश्येत । स्यात् कायेन पराक्रमेत, स्यान्न कायेन न वाचा पराक्रमेत, उभया-
वद्येन वा³ स्पृश्येत । स्यात् ऋषीणां मनःप्रदोषेण । पोषधनिदर्शनं चात्र” इति ।
गोचरम् । षष्ठोऽन्यत्र दृष्टादिति । षष्ठो विषयो धर्माः । स दृष्टव्यवहारं वर्ज-
यित्वा त्रिभिः श्रुतादिभिर्व्यवहारैर्व्यवह्रियते । अतो नास्ति गन्धादिषु व्यवहा-
राभावप्रसङ्गः । तस्माद् युक्तिरप्येषा न युक्तिर्भवति । या वैभाषिकैरुक्ता—‘एवं
चानिष्यमाणे’ इत्येवमादिका; यस्मादन्यथापि गन्धादिषु व्यवहारो भवतीति ।
यत् प्रत्यक्षीकृतं चक्षुषेति । न पञ्चभिरिन्द्रियैः । यच्छ्रोत्रेण श्रुतं परतश्चाग-
मितमिति उभयमप्यभीष्टम् । प्रत्यात्मं प्रतिसंवेदितम् । सुखाद्यसमाहितेन
चित्तेन । अधिगतं तु समाहितेन । लौकिकेनेव, न लोकोत्तरेण । लौकिकं
व्यवहाराधिकारात् । तदेवं योगचारनयेनापि षडप्येते विषयाः प्रत्येकं यथा-
सम्भवं दृष्टा इति वा व्यवह्रियन्ते, श्रुताः, मताः, विज्ञाता इति वेत्यतो नास्ति
गन्धादिषु व्यवहाराभावप्रसङ्ग इति ।
यः कायेनान्यथेति । कायसंज्ञया योऽर्थं गमयति, तस्यापि मृषावादः ।
पराक्रमेत व्यापच्छेत् । वाचा पराक्रमेतेति । वाचा परं मारयेदित्यर्थः । इह तु
प्राणातिपातस्य कायिकत्वात् कायिक्येवाविज्ञप्तिर्मौलसंगृहीता, न वाचिकी ।
नाप्यत्र कायिकी विज्ञप्तिः स्यात् । कायेन पराक्रमेतेति । अत्र मृषावादस्य
वाचिकत्वात् वाचिक्येवाविज्ञप्तिर्मौलसंगृहीतेत्यवगन्तव्यम् । उभयावद्येन वेति ।
काय-वागवद्येन । ऋषीणां मनःप्रदोषेण कायावद्येन योगो भवति । पोषधनिदर्शनं
१. ०आचरितम्—का० । २. प्रत्यात्म०—का० । ३. च—का० ।

६९२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
यद्युभयथापि न पराक्रमेत न चाविज्ञप्तिकास्त्यविज्ञप्तिः कामावचरी, कथ
तयोः कर्मपथः सिद्ध्यति ? कर्तव्योऽत्र यत्नः ॥ ७५ ॥
गतो मृषावादः ॥
पैशुन्यं क्लिष्टचित्तस्य वचनं परभेदने ।
यत् क्लिष्टचित्तस्य परेषां भेदाय वचनमप्रीतये तत् पैशुन्यम् । 'अर्था-
भिज्ञे' इति वर्तते, 'आन्त्या' इति च ।
पारुष्यमप्रियम्
वचनम् । 'क्लिष्टचित्तस्य' इति वर्तते । 'अर्थाभिज्ञे' 'आन्त्या' इति च । यत्
क्लिष्टचित्तस्य परेषामप्रियवचनमर्थाभिज्ञे तत्रैव च यद् विवक्षितं तत् पारुष्यम् ।
सर्वं क्लिष्टं भिन्नप्रलापिता ॥ ७६ ॥
'वाक्यम्' इत्यधिकारो वर्तते । सर्वं क्लिष्टं वचनं सम्भिन्नप्रलापः । सैव च
चात्रेति । वागवद्येन योगो भवति । भिक्षुपोषधे हि 'कच्चित्त्थ परिशुद्धाः' इति
विनयधरेणानुश्राविते यदि कश्चिद् भिक्षुः सतीमापत्तिं नाविष्कुर्यात्, तूष्णी-
म्भावेनैवाधिवासयेत्, स मृषावादी भवेदिति ।
कथं तयोः कर्मपथः सिध्यतीति । कथं तयोर्ऋषिभिक्ष्वोः कायवाग्भ्याम-
पराक्रममाणयोः प्राणातिपातो मृषावादश्च यथाक्रमं कर्मपथः सिध्यतीति ?
कर्तव्योऽत्र यत्नः । वैभाषिकैः कर्तव्यः समाधिरित्यर्थः ।
अत्राचार्यसङ्घभद्रः समाधिमाह—ऋषयोऽर्थत आज्ञापयितारो भवन्ति ।
तेषां हि सत्त्वपरित्यागप्रवृत्तं पापाशयमवेत्यामनुष्यास्तदभिप्रसन्नाः कायेन
पराक्रमन्ते । येन तेषामृषीणां कर्मपथ उत्पद्यते । कथम् ? परविज्ञप्त्येति ।
अवश्यं तथाविधस्य कायवाग्विकारा भवन्ति । अपि च शपन्ति ते तथा ।
तत्र चावश्यं काय-वाक्चेष्टया भवितव्यम् ।
अन्ये त्वाहुः—न कामधाताववश्यमविज्ञप्तिः सर्वैव विज्ञप्यधीना भवति;
फलप्राप्त्यैव सहपञ्चकादीनां प्रातिमोक्षसंवरोत्पत्तिसम्भवात् । इत्यकुशलाप्ये-
वञ्जातीया काचिद् विज्ञप्तिमन्तरेणापि स्यात् । पूर्वविज्ञप्तं तैरिति अवश्यमित-
रत्रापि भविष्यति । ऋषीणां तावदुक्तं पोषधमृषावादेऽपि । यदपरिशुद्धः सङ्घ-
मध्यं प्रविशति, निषीदति, स्वयमीर्यापथं कल्पयति, तत्सम्बद्धं वा यत्किञ्चिद्
भाषते, सास्य पूर्वविज्ञप्तिरिति ॥ ७५ ॥
सर्वं क्लिष्टं वचनं सम्भिन्नप्रलाप इति । मृषावादादि त्रयमपि । न केवलम् ग्र-

निर्देशः ] चतुर्थं कोशस्थानम् ६९३
सम्भिन्नप्रलापिता । तद्योगेन हि सम्भिन्नप्रलापी भवति ॥ ७६ ॥
अतोऽन्यत् क्लिष्टमित्यन्ये,
अतो मृषावादादित्रयात्¹ यदन्यत् क्लिष्टं वचनं स² सम्भिन्नप्रलाप
इत्यपरे ।
लपनागीतनाट्यवत् ।
कुशास्त्रवच्च,
तद्यथा भिक्षुर्मिथ्याजीवी लपनां करोति, रक्ताश्च केचिद् गायन्ति, नाट्ये
च नटाः परेषां रञ्जनार्थं प्रलपन्ति, कुशास्त्राणि च तद्दृष्टयोऽपि गदन्ति; एवं
परिदेवसङ्गिणिकादिकमपि यदन्यन्मृषावादादिभ्यः क्लिष्टं वाक्कर्म तत् सम्भिन्नप्रलापः ।
कथं चक्रवर्तिक़ाले गीतं चास्ति न च सम्भिन्नप्रलापः ? नैष्क्रम्योपसंहितानि
हि तदानीं गीयन्ते स्म, न ग्राम्यरसोपसंहितानि ।
तदाप्यावाहविवाहाद्यभिलापसद्भावादस्ति सम्भिन्नप्रलापो न कर्मपथ
इत्यपरे ।
क्लिष्टम् । सैव च सम्भिन्नप्रलापितेति । यस्य गुणस्य हि भावाद् द्रव्ये शब्द-
निवेशस्तस्य तदभिधाने त्वतलाविधि । तत्प्रत्ययेन क्लिष्टवचनलक्षणः सम्भिन्न-
प्रलाप उच्यते । तद्योगेन हि । सम्भिन्नप्रलापयोगेन हि । स पुद्गलः सम्भिन्नप्रलापी
भवति ॥ ७६ ॥
मृषावादादित्रयात् यदन्यत्³ क्लिष्टं वचनं स सम्भिन्नप्रलाप इत्युक्त्वोदाहरणं
दर्शयन्नाह—
लपनागीतनाट्यवत् कुशास्त्रवच्चेति । लपनां करोतीति । लाभ-यशस्कामतया
सेवाभिद्योतिकां वाचं निश्चारयतीत्यर्थः । परिदेवसङ्गिणिकादिकमिति । आदि-
शब्देन परिदेवसङ्गिणिकाभ्यां योज्यः क्लिष्टचित्तानां कश्चिदालापः ।
आवाहविवाहाद्यभिलापसद्भावादिति । आवाहः = दारिकाया दारकगृहगम-
नम् । विवाहः=दारकस्य दारिकागृहागमनम् । आवाहः=प्रवेशनकः, विवाहः=
परिणयनमित्यपरे । आदिशब्देन रक्तचित्तानामालापः ।
१. ०वादादिकात् वाक्कर्मणोः—का० । २. तत्—का० ।
३. यदन्य०—मुद्रित. पाठः ।

६९४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
अभिध्या तु परस्वविषमस्पृहा ॥ ७७ ॥
'अहो बत यत् परेषां तन्मम स्यात्' इति परस्वेभ्यो या विषमेणान्यायेन
स्पृहा स्वीकरणेच्छा बलाद्वा चोपायाद्वा, साऽभिध्या कर्मपथः ।
सर्वैव कामावचरी तृष्णा अभिध्येत्यपरे । तथा निवरणाधिकारे
कामच्छन्दमधिकृत्योक्तं सूत्रे—"सोऽभिध्यां लोके प्रहाय" इत्येवमादि ।
यद्यपि सर्वाभिध्या न तु सर्वा कर्मपथः; औदारिकदुश्चरितसंग्रहादित्यपरे ।
मा भूच्चक्रवर्तिनामुत्तरकौरवाणां¹ चाभिध्या कर्मपथ इति ॥ ७७ ॥
व्यापादः सत्त्वविद्वेषः,
सत्त्वेषु विद्वेषो व्यापादः परपीडाकारप्रवृत्तः ।
नास्तिदृष्टिः शुभाशुभे ।
मिथ्यादृष्टिः,
शुभे चाशुभे च कर्मणि या नास्तीति दृष्टिः सा मिथ्यादृष्टिः । तद्यथा—
“नास्ति दत्तम्, नास्तीष्टम्, नास्ति हुतम्, नास्ति सुचरितम्, नास्ति दुश्चरित-
मित्येवमादि यावन्न सन्ति लोकेऽर्हन्तः” इति । सैषा साकल्येन कर्मफलार्यापवादिका
विषमेणान्यायेनेति । उद्देशनिर्देशरूपी पर्यायौ ।
तथा हीति विस्तरः । यस्मात् पञ्चानां निवारणानामधिकारेण । कामच्छन्दं
कामतृष्णास्वभावमधिकृत्योक्तम्—"सोऽभिध्यां लोके प्रहाय विगताभिध्येन चेतसा
बहुलं विहरति । व्यापादं स्त्यानमद्धिमौद्धत्यकौकृत्यं विचिकित्सां लोके प्रहाय
तीर्णकांक्षो भवति, तीर्णविचिकित्सः । अकथङ्कथी कुशलेषु धर्मेषु । स पञ्च-
निवारणानि प्रहाय” इत्येवमादि । अतो ज्ञायते—सर्वैव कामावचरी तृष्णाभिध्येति ।
औदारिकदुश्चरितसंग्रहादिति । दशस्वकुशलेषु कर्मपथेषु यदौदारिकं दुश्चरितं
तत् संगृहीतम्, न सर्वम् । एवं कुशलेषु । अतो न सर्वाभिध्या कर्मपथः । किं
तर्हि ? या परस्वे विषमस्पृहा सा कर्मपथ इत्यपरेषामभिप्रायः । मा भूच्चक्रवर्ति-
नामुत्तरकौरवाणां चाभिध्या कर्मपथ इति । न हि तत्र कामावचरी तृष्णा नास्ति ।
न च तत्राकुशलाः कर्मपथा इष्यन्ते ॥ ७७ ॥
सैषा साकल्येन कर्मफलार्थ्यापवादकेति । तथा ह्येषा पठ्यते—"नास्ति
दत्तम्, नास्तीष्टम्, नास्ति पूतम्, नास्ति सुचरितम्, नास्ति दुश्चरितम्, नास्ति
१. ०र्तिनामप्युत्तर०—का० ।

निर्देशः ] चतुर्थ कोशस्थानम्
मिथ्यादृष्टिर्भवति । आदिमात्रं तु श्लोके दर्शितम् । एवंलक्षणा एते दश कर्मपथाः ।
कर्मपथा इति कोऽर्थः ?
त्रयो ह्यत्र पन्थानः, सप्त कर्म च ॥ ७८ ॥
अभिध्यादयो हि त्रयः कर्मणः पन्थान इति कर्मपथाः । तत्सम्प्रयोगिणी
हि चेतना तेषां वाहेन वहति, तेषां गत्या गच्छति; तद्वशेन तथाभिसंस्करणात् ।
सप्त तु प्राणातिपातादयः कर्म च; कायवाक्कर्मस्वभावत्वात्¹ । कर्मणश्च
पन्थान इति कर्मपथाः; तत्समुत्थानचेतनायास्तानधिष्ठाय प्रवृत्तेरिति ।
कर्मपथाश्च कर्म च कर्मपथाश्चेति कर्मपथाः; असरूपाणामप्येकशेषसिद्धेः ।
सुचरितदुश्चरितानां कर्मणां फलविपाकः, नास्त्ययं लोकः, नास्ति परलोकः,
नास्ति माता, नास्ति पिता, नास्ति सत्त्व उपपादुकः, न सन्ति लोकेऽर्हन्तः”
इति । तत्र नास्ति दत्तं यावन्नास्ति दुश्चरितमिति कर्मापवादिका । तथा
नास्ति माता, नास्ति पितेति कर्मापवादिकेव । नास्ति सुचरितदुश्चरितानां
कर्मणां फलविपाकः, नास्त्ययं लोकः, नास्ति परलोकः, तथा नास्ति सत्त्व
उपपादुक इति फलापवादिका । न सन्ति लोकेऽर्हन्त इत्यार्यापवादिका ।
आदिमात्रं तु श्लोके दर्शितमिति । “नास्तिदृष्टिः शुभाशुभे” इति उदा-
हरणमात्रत्वात् ।
कर्मणः पन्थान इति । चेतनाख्यस्य कर्मणः पन्थानः । कथम् ? इत्याह—
तत्सम्प्रयोगिणी हि चेतना । अभिध्यादिसम्प्रयोगिणी । तेषामभिध्यादीनां वाहेन
गत्या वहति गच्छतीत्यर्थः । तद्वशेन तथाभिसंस्करणात् । यस्मादभिध्यादीनां
यथाक्रमं सक्तिप्रतिकूलमिथ्यानीतिरणाकाराणां वशेन । तदनुरूपा चेतनाभि-
संस्करोति । चेतयत इत्यर्थः । अतस्तेषां वाहेन वहति ।
कर्म च, कायवाक्कर्मस्वभावत्वात् । कर्मणश्च चेतनाख्यस्य पन्थान इति
कर्मपथाः । तत्समुत्थानचेतनायाः कायवाक्कर्मसमुत्थान चेतनायाः । तानधिष्ठाय ।
तान् प्राणातिपातादीनधिष्ठाय प्रवृत्तेः । असरूपाणामप्येकशेषसिद्धेरिति । शब्द-
सरूपाणामर्थसरूपाणां वा एकशेष इष्यते, यथा—वृक्षश्च वृक्षश्च वृक्षौ, वक्रश्च
कुटिलश्च वक्राविति । इह तु कर्म च कर्मपथश्चेति न कर्मशब्दस्य कर्मपथ-
शब्दस्य च सारूप्यं शब्दतः, नाप्यर्थतः, कर्मार्थस्य कर्मपथार्थस्य च भिन्नत्वा-
देकशेषो न प्राप्नोति; यस्मात्त्वसरूपाणां साकल्येनेकदेशेन तु सरूपाणामेकशेषः
सिध्यति । इष्यत इत्यर्थः । तद्यथा—“गुणो यङ्लुकोः” (पा० सू० ७.४.८२) ।
१. ०कर्मत्वात्—का० ।

६९६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
एवमनभिध्यादयः प्राणातिपातविरत्यादयश्च ज्ञेयाः ।
प्रयोगपृष्ठानि कर्माणि कर्मपथाः; यस्मात् तदर्थं तन्मूलिका च तेषां प्रवृत्तिः ।
“तदौदारिकसंग्रहात्”१ ( अभि० को० ४.६६ ) इत्युक्तं प्राक् । येषां
चोत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानामुत्कर्षापकर्षौ लोके भवतः ।
ये तर्हि दार्ष्टान्तिका अभिध्यादीनेव मनस्कर्मेच्छन्ति, तेषां ते कथं कर्म-
पथाः ? त एव२ प्रष्टव्याः । अपि तु शक्यं वक्तुम्—कर्म च ते पन्थानश्च
इति यङ् च यङ्लुक् यङ्लुकौ, तयोरिति ? न शक्यते वक्तुम्—यङ् च लुक्
च यङ्लुकौ इत्ययम्, लुकोऽनिष्टत्वात्, एकदेशसारूप्यात् तु यङो यङ्लुगेक-
देशस्य च यङ् इति सारूप्यात् सिध्यत्येकशेषो यङ्लुकोरिति । अतो ज्ञापकात्
अयमपि सिध्यति—कर्म च कर्मपथाश्च कर्मपथा इति, पश्चात् पुनः सरूपैकशेषः ।
कर्मपथाश्चाभिध्यादयः, कर्मपथाश्च प्राणातिपातादय इति कर्मपथाः । अथवैवं
योजना—कर्मणः पन्थानः कर्मपथाः, कर्म च ते कर्मपथाश्च कर्मकर्मपथाः ।
कर्मपथाश्चाभिध्यादयः, कर्मकर्मपथाश्च प्राणातिपातादयः कर्मपथा इति ।
एवमनभिध्यादय इति विस्तरः । कुशला अपि कर्मपथा एवमेव योज्याः ।
अनभिध्यादयो हि कर्मणः पन्थान एव । प्राणातिपातविरत्यादयश्च । कर्म च
कर्मणश्च पन्थान इति ।
यस्मात्तदर्थं इति विस्तरः । यस्मान्मौलकर्मपथार्थं तेषां तत्प्रयोगाणां
प्रवृत्तिः । यस्माच्च मौलकर्मपथमूलिका तेषां तत्पृष्ठानां प्रवृत्तिः; अतो न
तानि कर्मपथाः । यद्यपि कर्मपथोऽपि कर्मपथस्य प्रयोग उक्तः, स तु मौलत्वात्
कर्मपथः, न तु प्रयोगपृष्ठभूतत्वादिति । तदौदारिकसंग्रहादित्युक्तं३ प्रागिति ।
“तदौदारिकसंग्रहाद्वा कर्मपथा उक्ताः” ( अभि० को० ४.६६) इति वचनात् ।
यानि प्रयोगपृष्ठानि तानि न संगृहीतानि । येषां चेति विस्तरः । येषां मौलाना-
मुत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानामुत्कर्षापकर्षौ लोके भवतः । न तु प्रयोग-
पृष्ठानाम् । अतस्त एव कर्मपथाः । तेषां चोत्कर्षापकर्षेण तदुत्कर्षापकर्षेण
तदुत्कर्षापकर्षं वक्ष्यति—'सर्वेऽधिपतिनिष्यन्दविपाकफलदा मताः' ( अभि०
को० ४.८५ ) इत्यत्र । अतो न तानि प्रयोगपृष्ठानि कर्मपथाः ।
तेषां ते कथं कर्मपथा इति । न हि तेषामभिध्यादिभ्योऽन्यत् मनस्कर्मास्ति
चेतना, यस्य कर्मणस्तेऽभिध्यादयः पन्थान इति कर्मपथाः स्युः । त एव
प्रष्टव्या इति । तैरेव परिहारो वक्तव्यो य एवं मन्यन्ते । अपि तु शक्यमिति
१. यथौदारिक च ग्रहणादि—का० । २. एव हि—का० ।
३. यथौदारिकसंग्रहादि०—मू० पाठः ।

निर्देशः ] चतुर्थं कोशस्थानम् ६९७
सुगतिदुर्गतीनामिति कर्मपथाः । इतरेतरावाहनाद् वा ॥ ७८ ॥
य एते दशाकुशलाः कर्मपथाः सर्वे एतेऽकुशलानां १ कर्मणां समुदाचार-
विरोधिनः ।
मूलच्छेदस्त्वसद्दृष्ट्या
कुशलमूलच्छेदस्तु मिथ्यादृष्ट्या भवत्यधिमात्रपरिपूर्णया ।
किं २ तर्हि शास्त्र उक्तम्—“कतमान्यधिमात्राण्यकुशलमूलानि ? यैरकुशल-
मूलैः कुशलमूलानि समुच्छिनत्ति कामवैराग्यं चानुप्राप्नुवन् यानि तत् प्रथमत
उपलिखति” इति ? अकुशलमूलाध्याहृतत्वात् मिथ्यादृष्टेस्तेष्वेव तत्कर्मोपदेश
एष क्रियते । तद्यथाग्निरैव ग्रामं दहति, चौरास्तु तस्याध्याहारका इति चौरैर्ग्रामो
दग्ध इत्युच्यते ।
कतमेषां कुशलमूलानां समुच्छेदो भवति ?
कामाप्तोत्पत्तिलाभििनाम् ।
कामावचराणि कुशलमूलानि समुच्छिद्यन्ते; रूपारूप्यावचरैरसंमन्वा-
गतत्वात् ।
विस्तरः । स्वमतेन तत्पक्षं समर्थयति—इतरेतरावाहनाद् वेति । किम् ?
शंऽभिध्यादयः कर्मपथा इति प्रकृतम् । अभिध्या व्यापादमिथ्यादृष्टी आवाह-
यति । ते च तामिति, कर्म च ते । कर्मणश्चेषामेकतरस्य पन्थान इति
कर्मपथाः ॥ ७८ ॥
मिथ्यादृष्ट्या कुशलमूलसमुच्छेद इत्येतमर्थं वक्तुकाम उपोद्घातं ब्रवीति—
सर्व एतेऽकुशलानामिति विस्तरः । अधिमात्रपरिपूर्णयेति । अधिमात्राधिमात्र-
येत्यर्थः ।
किन्तर्हि शास्त्र उक्तमिति । यदि मिथ्यादृष्ट्या कुशलमूलसमुच्छेदो नाकुशल-
मूलैः । यत्तच्छास्त्र उक्तम् । यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्तीत्यादि । तानि
हि लोभादिस्वभावानि । न मिथ्यादृष्टिस्वभावानीत्यर्थः । अकुशलमूलाध्या-
हृतत्वादिति विस्तरः । अकुशलमूलैर्लोभादिभिरधिमात्रैर्मिथ्यादृष्टिरध्याहृता
अपनीता, तस्माद् अकुशलमूलाध्याहृतत्वाद् मिथ्यादृष्टेः । तेष्वेव तत्कर्मो-
पदेशः । तेष्वेवाकुशलमूलेषु । मिथ्यादृष्टेः कुशलमूलसमुच्छेदकं यत् कर्म
तस्योपदेशः ।
१. एते कुशलानां—का० । २. यत्—का० ।

६९८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
प्रज्ञप्तिभाष्यं तर्हि कथं नीयते—"इयता अनेन पुद्गलेन त्रैधातुकानि
कुशलमूलानि समुच्छिन्नानि भवन्ति" इति ? तत्प्राप्तिदूरीकरणमभिसन्धायै-
तदुक्तम्; सन्ततेस्तद्भाजनत्वापादनात् ।
उपपत्तिप्रतिलाभिकान्येव च समुच्छिद्यन्ते; प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् ।
किमालम्बनया मिथ्यादृष्ट्या समुच्छिद्यन्ते ?
फलहेत्वपवादिन्या,
या च हेतुमपवदते—नास्ति सुचरितं नास्ति दुश्चरितमिति, या च
फलम्—नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाक इति ।
आनन्तर्यविमुक्तिमार्गस्थानीये एते इत्यपरे ।
सास्रवालम्बनयैव नानास्रवालम्बनया, सभागधात्वालम्बनयैव च न विसभा-
गधात्वालम्बनया; सम्प्रयोगमात्रानुशयित्वेन दुर्बलत्वादित्येके ।
प्रज्ञप्तिभाष्यं तर्हि कथं नीयते । यदि कामावचराणि कुशलमूलानि समु-
च्छिद्यन्ते । रूपारूप्यावचरैरसमन्वागतत्वादिति वर्ण्यन्ते । तत्प्राप्तिदूरीकरण-
मिति । रूपारूप्यावचराणां प्राप्तेर्दूरीकरणमभिप्रेत्य तस्य पुद्गलस्य एतदुक्तम्—
त्रैधातुकानि कुशलमूलानि समुच्छिन्नानीति । कथं च पुनस्तत्प्राप्तिदूरीकरणम् -
सन्ततेस्तदभाजनत्वापादनात् । यस्मादसौ तत्सन्ततिः पूर्वं भाजनभूता तत्प्रा-
प्तीनाम् । कुशलमूलसमुच्छेदादिदानीं तत्प्राप्तीनामभाजनमापादितेति । अतस्तत्-
प्राप्तिर्दूरीकृता भवति ।
प्रायोगिकेभ्यः पूर्वं परिहीणत्वादिति । श्रुतचिन्ताभावनामयेभ्यः प्रायोगिकेभ्यः
पूर्वमेवासौ मृदुमृद्ववस्थायां तेभ्यः परिहीणः । तदैव तस्य प्राप्तिच्छेद इत्यर्थः ।
आनन्तर्यविमुक्तिमार्गस्थानीये इति । हेत्वपवादिनी आनन्तर्यमार्गस्थानीया ।
फलापवादिनी विमुक्तिमार्गस्थानीया । तदुक्तं भवति—उभे अपि एते हेतुफला-
पवादिन्यौ मिथ्यादृष्टी कुशलमूलसमुच्छेदे व्याप्रियेते, नैकेवेति ।
अपरः पक्षः—सास्रवालम्बनयैवेति । दुःखसमुदयालम्बनया । नानास्रवालम्ब-
नया निरोधमार्गालम्बनया इत्यर्थः । सभागधात्वालम्बनयैव चेति । कामधात्वा-
लम्बनयैवेत्यर्थः । न विसभाकधात्वालम्बनया । न रूपारूप्यधात्वालम्बनया ।
कुशलमूलानि समुच्छिद्यन्त इत्यधिकृतम्, कस्माद् ? इत्याह—सम्प्रयोगमात्रानु-
शायित्वेन दुर्बलत्वादिति । अनास्रवालम्बना विसभाकधात्वालम्बना च या
मिथ्यादृष्टिः सा सम्प्रयोगमात्रेण सम्प्रयुक्तेषु धर्मेष्वनुशेते, नालम्बनतः । तस्मा-
दसौ दुर्बला भवति, अतो न तया समुच्छिद्यन्ते ।

निर्देशः ] चतुर्थं कोशस्थानम् ६९९
एवं तु वर्णयन्ति—
सर्वथा १
नवप्रकाराण्यपि कुशलमूलानि सकृत् समुच्छिद्यन्ते ।
दर्शनप्रहातव्या २ इवेत्येके२ । एवं तु वर्णयन्ति—
क्रमशः,
नवप्रकार्या मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते ।
भावनाहेयक्लेशवत् यावदधिमात्राधिमात्रया मृदुमृदूनिति ।
एवमयं ग्रन्थः पालितो भवति—“कतमान्यणुसहगतानि कुशलमूलानि ?
आह—यैरकुशलमूलैः कुशलानि समुच्छिन्नानि सर्वपश्चात् विजहाति, यैः विशीर्णैः
समुच्छिन्नकुशलमूल इति संख्यां गच्छति” ( ) इति ।
अस्य तर्हि ग्रन्थस्य को नयः—“कतमान्यधिमात्राण्यकुशलमूलानि ?
यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति” ( ) इति ?
समाप्तिमेतत् सन्धायोक्तम्; तैर्निरवशेषच्छेदात् ।
एवं तु वर्णयन्ति । वैभाषिकाः । “सर्वथा” इति । या च हेतुमपवदते या च
फलम्, या च सभागं धातुमालम्बते या च विसभागम्, या च सास्रवं या
चानास्रवमालम्बते, सर्वथैव तया समुच्छिद्यन्ते ।
दर्शनप्रहातव्या इवेति । यथा दुःखादिदर्शनहेयाः क्लेशा नवप्रकारा अपि
दुःखादिसत्यदर्शनात् सकृत् प्रहीयन्ते, तद्वन्नवप्रकाराण्यपि कुशलमूलानि सकृत्
समुच्छिद्यन्त इत्येके ।
भावनाहेयक्लेशवदिति । यथा नवप्रकारेण मार्गेण नवप्रकारः क्लेशः
प्रहीयते । मृदुमृदुना मार्गेण अधिमात्राधिमात्रक्लेशप्रकारः प्रहीयते, यावदधि-
मात्राधिमात्रेण मृदुमृद्वया मिथ्यादृष्ट्या अधिमात्राधिमात्रः कुशलमूलप्रकारः
समुच्छिद्यते । यावदधिमात्राधिमात्रया मृदुमृदुः कुशलमूलप्रकार इति । एवमयं
ग्रन्थः परिपालितो भवति । यदि भावनाहेयक्लेशवद् यथोक्तं तानि समुच्छिद्यन्ते ।
अणुसहगतानि । मृदुमृदूनि । यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्तीति । अधि-
मात्रैरकुशलमूलैः कुशलमूलसमुच्छेद उक्तः, न मृदुमृद्वादिभिरित्यभिप्रायः । यदि
क्रमशः समुच्छिद्यन्ते, अस्य तर्हीत्यादि कथम् ? समाप्तिमेतत् सन्धायोक्तमिति ।
१. सर्वथा—का० । २-२. ०तव्यवदित्येके—का० ।
अभि० को० २ : २१

एकोऽपि हि प्रकारस्तेषामसमुच्छिन्नः सर्वेषां पुनरुत्पत्तौ हेतुः स्यादिति ।
दर्शनमार्गवदभ्युत्थानेन छिन्दन्तीत्येके । एवं तु वर्णयन्ति—उभयथेति ।
पूर्वं संवरं विजहाति पश्चात् कुशलमूलानि समुच्छिनत्तीत्येके । एवं तु
वर्णयन्ति—यस्य चित्तस्य फलसंवरस्तत्त्यागात् तस्य त्याग इति ।
अथ कुशलमूलानि समुच्छिद्यन्ते
नृषु ॥ ७९ ॥
मनुष्येष्वेव नापायेषु; क्लिष्टाक्लिष्टयोः प्रज्ञयोरदृढत्वात् । न देवेषु; कर्मफले¹
प्रत्यक्षत्वात्¹ । त्रिषु द्वीपेषु, नोत्तरकुरौ ।
अपापाशयत्वात् जम्बूद्वीप एवेत्यपरे । तेषामयं ग्रन्थो विरुध्यते—
“जाम्बूद्वीपकः सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः । एवं पौर्व-
कुशलमूलसमुच्छेदसमाप्तिं सन्धाय कतमानि अधिमात्राणीति विस्तरेण एत-
दुक्तम् । मृदुमृद्वादिसमुच्छेदस्त्वनुक्तोऽपि ग्रहीतव्यः । तस्मात् समाप्तिमेव सन्धा-
येतदुक्तम् । तैर्निरवशेषच्छेदात् । यस्मात्तैर्नवभिर्मिथ्यादृष्टिप्रकारैः कुशलमूलानां
निरवशेषच्छेदो भवति ।
एकोऽपि हि प्रकारस्तेषामसमुच्छिन्न इति । मृदुमृदुनवमः प्रकारः सर्वेषां नवा-
नामपि प्रकाराणां पुनरुत्पत्तौ हेतुः स्यादिति । अतः समाप्तिमेततत् सन्धायोक्तम् ।
उभयथेति² । व्युत्थानेन च, अव्युत्थानेन च । तत्त्यागात् तस्य त्याग इति ।
यो मृदुमृदुना चित्तेन संवरः समात्त आसीत्, तस्य मृदुमृदोश्चित्तस्य मृदु-
मृदुकुशलमूलसम्प्रयुक्तस्य त्यागे समुच्छेदे तस्य संवरस्य त्यागो भवति । एवं
यावद् योऽधिमात्राधिमात्रेण चित्तेन समात्तः संवरः । तत्त्यागात् तस्य
त्याग इति ।
कर्मफले प्रत्यक्षत्वादिति । अचिरोपपन्नस्य देवपुत्रस्य त्रीणि चित्तानि
समुदाचरन्ति—कुतोऽहं च्युतः, कुत्रोपपन्नः, केन कर्मणेति । एवं कर्मफलप्रत्यक्ष-
त्वान्न देवेषु कुशलमूलानि समुच्छिद्यन्ते ।
जम्बूद्वीप एवेति । तत्र विशेषेण तार्किकत्वादित्यभिप्रायः । सर्वाल्पैरष्टाभि-
रिन्द्रियैः समन्वागतः । पञ्चभिर्वेदनेन्द्रियैः कायजीवितमनइन्द्रियैश्च । समुच्छिन्न-
कुशलमूल एव । तस्य हि श्रद्धादीनि समुच्छिन्नानि । पृथग्जनत्वाच्च नाज्ञा-
१-१. कर्मफल०—का० । २. उभयेनेति—मुद्रितः पाठः ।

निर्देशः ] चतुर्थं कोशस्थानम् ७०१
विदेहको¹ गौदानीयकः²" ( ) इति ॥ ७९ ॥
तानि पुनः
छिनत्ति स्त्री पुमान्,
स्त्री च समुच्छिनत्ति, पुरुषश्च; मन्दच्छन्दवीर्यप्रज्ञत्वात् ।
न स्त्रीत्यपरे ।
अयं ग्रन्थो विरुध्येत—"यः स्त्रीन्द्रियेण समन्वागतो नियतमसावष्टाभि-
रिन्द्रियैः समन्वागतः" ( ) इति ?
तेषामपि तृष्णाचरितो न समुच्छिनत्ति; चलाशयत्वात् । कस्तर्हि !
दृष्टिचरितः,
दृढगूढपापाशयत्वात् । अत एव न षण्ढादयः³; तृष्णाचरितपक्षत्वात्⁴ ।
आपायिकवच्च ।
किंस्वभावः कुशलमूलसमुच्छेदः ?
सोऽसमन्वयः ।
स्वामीन्द्रियाणि सन्ति । चक्षुरादीन्यपि न सन्ति । वैकल्ययोगे, क्रममरणा-
वस्थायां वा । एवं पूर्वविदेहको गौदानीयक इति । अतिदेशादस्त्यनयोरपि
कुशलमूलसमुच्छेद इति दर्शयति ॥ ७९ ॥
"छिनत्ति स्त्री पुमान्" इति । स्त्री पुमांश्चेति च-शब्दो लुप्तनिर्दिष्टः । यः
स्त्रीन्द्रियेण समन्वागतो नियतमसावष्टाभिरिन्द्रियैः समन्वागतः । चतुर्भिर्वेदने-
न्द्रियैः, त्रिभिश्च कायजीवितमनइन्द्रियैः, स्त्रीन्द्रियेणाष्टमेन। श्रद्धादीनि समुच्छिन्न-
कुशलमूलावस्थायां व्यभिचारयन्त इत्यभिप्रायः । अयमेव चात्रार्थो विरुध्यते ।
चक्षुरादीन्यपि व्यभिचार्यन्ते पूर्ववत् ।
तेषामपीति । तेषामपि समुच्छेत्तॄणामुक्तानां तृष्णाचरितो न समुच्छिनत्ति ।
दृढगूढपापाशयत्वादिति । दृढो गूढः पापश्चाशयोऽभिप्रायोऽस्येति समासः ।
दृढः = स्थिरः । गूढः = प्रच्छन्नः । पापः = अकल्याणः । तृष्णाचरितपक्षत्वादिति ।
तृष्णाचरितजातीयत्वादित्यर्थः । यथा तृष्णाचरितश्चलाशयः, तद्वत्ते षण्ढादय
इति । आपायिकवच्च । यथा—आपायिकाः क्लिष्टाक्लिष्टयोः प्रज्ञयोरदृढत्वात् न
कुशलमूलानि समुच्छिन्दन्ति, एवं षण्ढादयः ।
१. पूर्व०—का० । २. गोदानीक—का० ।
३ षण्ढा०—का० । ४. ०चरिते पक्षात्वात्—का० ।

७०२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
यदा हि कुशलमूलानां प्राप्तिर्न पुनरुत्पद्यते, अप्राप्तिरप्युत्पद्यते । तस्मिन्न-
समन्वागम उत्पन्ने समुच्छिन्नानि कुशलमूलान्युच्यन्ते ।
तेषां समुच्छिन्नानां कथं पुनः प्रतिसन्धिः ?
सन्धिः काङ्क्षास्तिदृष्टिभ्यां
यदा अस्य हेतुफले विचिकित्सा चोत्पद्यते, अस्तिदृष्टिर्वा, सम्यग्दृष्टिरित्यर्थः,
तदा पुनः तत्प्राप्तिसमुत्पादात् प्रतिसन्धितानि कुशलमूलान्युच्यन्ते । नवप्रकाराणां
युगपत् प्रतिसन्धानं क्रमेण तु सम्मुखीभावः, आरोग्यबललाभबललाभवत् । स पुनस्तेषां
प्रतिसन्धिः ।
नेहानन्तर्यकारिणः ॥ ८० ॥
अन्यस्यैवेह स्यात्, आनन्तर्यकारिणस्तु नेह स्यात् । तमेव सन्धायोक्तम्-
“अभव्योऽयं पुद्गलो दृष्ट एव धर्मे कुशलमूलानि प्रतिसन्धातुम्, नियतमयं
नरकेभ्यश्च्यवमानो वा उपपद्यमानो वा कुशलमूलानि प्रतिसन्धास्यति” ( )
इति । उपपद्यमानोऽन्तराभवस्थः, च्यवमानश्च्युत्यभिमुखः । तत्र पुर्नयो हेतुबलेन
समुच्छिनत्ति स च्यवमानः प्रतिसन्दधाति, यः प्रत्ययबलेन स उपपद्यमानः । एवं
यः स्वबलेन परबलेन ।
पुनराह-य आशयविपन्नः समुच्छिनत्ति स दृष्टे धर्मे प्रतिसन्दधाति ।
य आशयप्रयोगविपन्नः स भेदात् कायस्येति । एवं यो दृष्टिविपन्नो दृष्टिशील-
प्रतिसन्धितानीति । प्रतिसन्धिकृतानि प्रतिसन्धितानि । प्रातिपदिकधातुः ।
प्रतिसंहितानीत्यपरे पठन्ति । आरोग्यबललाभभवदिति । यथा आरोग्यं पूर्वं भवति
क्रमेणैव तु बल-लाभो भवति, तद्वत् ।
“नेहानन्तर्यकारिणः” इति । आनन्तर्यकारिण एव नेह प्रतिसन्धिर्भवतिं-
अर्थत एतदुक्तम्-अनानन्तर्यकारिण इह प्रतिसन्धिर्भवतीति । अन्तराभवस्थ
इति । नरकगमनायान्तराभवस्थः । च्युत्यभिमुख इति । नरकात् च्युत्यभि-
मुखः । हेतुबलेनेति । सभागहेतुबलेन । यस्माद् येषां मिथ्यादृष्टी स्वयं रोचते ।
प्रत्ययबलेनेति । परतो घोषबलेन । यस्माद् येषां मिथ्यादृष्टी रोचते; हेतुबलस्य
सारत्वात् । एवं यः स्वबलेनेति । यः स्वतर्कबलेन । स च्यवमानः । यः परबलेन ।
परतः श्रुतबलेन । स उपपद्यमानः । य आशयविपन्न इति । मिथ्यादृष्टिसम्मुखीभावेन
विपन्नो विनष्टः । स दृष्टे धर्मे जन्मनि प्रतिसन्दधाति । य आशयप्रयोगविपन्नः । यो