सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 709, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 709

६९० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
अत एवं चानिष्यमाणे दृष्टादिभावबाह्यत्वात् गन्धादिषु व्यवहारो न
स्यादित्येषा युक्तिः ।
सूत्रं तावज्ज्ञापकम्, अन्यार्थत्वात् । न ह्यत्र सूत्रे भगवान् व्यवहाराणां
लक्षणं शास्ति स्म । किं तर्हि ? 'अत्र च तव¹' षड्विधे विषये चतुर्षु व्यवहारेषु
दृष्टादिव्यवहारमात्रं भविष्यति । न हि² प्रियाप्रियनिमित्ताध्यारोप.' इत्ययमत्र
सूत्रार्थो दृश्यते ।
किं पुनर्दृष्टम् ? किं च यावद्विज्ञातम् ?
केचित् तावदाहुः—यत् पञ्चभिरिन्द्रियैः प्रत्यक्षं तद् दृष्टम् । यत् परत
आगमितं तच्छ्रुतम् । यद्³ युक्त्यनुमानतो रुचतं तन्मतम् । यन्मनःप्रत्यक्ष-
एवं चानिष्यमाणे । गन्धादिषु मताख्येत्यनिष्यमाणे । दृष्टादिभावबाह्यत्वात् ।
गन्धादीनामरूपलक्षणत्वेन दृष्टभावबाह्यत्वाद्, अशब्दधर्मायतनलक्षणत्वेन च
श्रुतविज्ञातभावबाह्यत्वात् । गन्धादिषु व्यवहारो न स्यात् । दृष्ट इति वा,
यावद्विज्ञात इति वेत्येषा युक्तिः । तेषु मताख्येति ।
आचार्य आह—सूत्रं तावदिति विस्तरः । अन्यार्थत्वादिति । यस्मात् सूत्र-
स्यान्य एवार्थः । सूत्रार्थं ब्रवीति—अत्र च तव षड्विधे विषये रूपाद्यौ चतुर्षु
दृष्टादिव्यवहारेषु दृष्ट-श्रुत-मत-विज्ञातव्यवहारेषु दृष्टादिव्यवहारमात्रं भविष्य-
तीति । रूपे दृष्टमिति व्यवहारो भविष्यति, यावद्विज्ञातमिति । एवं शब्दादिषु
अत्र च ते माहकीमातर्दृष्टे⁴ विषयषट्के दृष्टमात्रं भविष्यति । श्रुते विषयषट्के,
मते, विज्ञाने विषयषट्के एवं विज्ञातमात्रमित्येवं तत् सूत्रपदं व्याख्यायत
इत्यभिप्रायः । न हि प्रियाप्रियनिमित्ताध्यारोपस्तव भविष्यतीति सूत्रार्थः । ननु
च यानि त्वया चक्षुषा रूपाणि न दृष्टानीत्येवोक्तानि, न तु न श्रुतानि यावन्न
विज्ञातानीत्येवोक्तानि; एवं शब्दा न श्रुता इत्येवोक्ताः, न तु न दृष्टा यावन्न
विज्ञाता इत्युक्ताः; एवं यावद्धर्मा न विज्ञाता इत्येवोक्ताः, न तु न दृष्टा यावन्न
स्पृष्टा इति ? नैष दोषः; उदाहरणरूपमेतदुक्तं भगवता । यथा हि रूपाणि न ।
दृष्टानीत्युक्तानि, तथा न श्रुतानि यावन्न विज्ञातानीति वक्तव्यानि । एवं
शब्दादिषु वक्तव्यम् । तेनेवं लक्षणमुच्यते ।
यत् पञ्चभिरिन्द्रयैरिति विस्तरः । यत् पञ्चभिरिन्द्रियैः प्रत्यक्षं रूपादि
तद् दृष्टम् । यत् परत आगमितं विषयषट्कमपि तच्छ्रुतम् । यद् युक्त्यनुमानतो
रुचितमभिप्रेतं तन्मतम् । युक्त्यनुमानमित्यव्यभिचार्यनुमानम् । तच्च षड्विषय-
१. ते—का० । २. का० पुस्तके नास्ति ।
३. यत् स्वयं—का० । ४. मालकीमात०—मुद्रितः पाठः ।