सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 708, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 708

निर्देशः ] चतुर्थं कोशस्थानम् ६८९
षोडश व्यवहाराः सूत्र उक्ताः--"अदृष्टे दृष्टवादिता, अश्रुते, अमते,
अविज्ञाते विज्ञातवादिता, दृष्टे अदृष्टवादिता, यावद् विज्ञातेऽविज्ञातवादिता
इतीमेऽनार्या अष्टौ व्यवहाराः । दृष्टे दृष्टवादिता, यावद्विज्ञाते विज्ञातवादिता,
अदृष्टेऽदृष्टवादिता, यावदविज्ञातेऽविज्ञातवादिता इतीमे आर्या अष्टौ व्यवहाराः ।
तत्रैषां दृष्टश्रुतमतविज्ञातानां किं लक्षणम् ?
चक्षुःश्रोत्रमनश्चित्तैरनुभूतं त्रिभिश्च यत् ।
तद् दृष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम् ॥ ७५ ॥
यच्चक्षुर्विज्ञानेनानुभूतं तद् दृष्टमित्युक्तम् । यच्छ्रोत्रविज्ञानेन तच्छ्रुतम् ।
यन्मनोविज्ञानेन तत् विज्ञातम् । यत् घ्राणजिह्वाकायविज्ञानैस्तन्मतम् । किं
कारणम् ? गन्धरसस्प्रष्टव्यान्यव्याकृतत्वान्मृतकल्पानि । अत एतेषु मतारुयेति
वैभाषिकाः ।
किमत्र ज्ञापकम् ? सूत्रम्, युक्तिश्च ।
सूत्रं तावत्--"तत्किं मन्यसे माहकीमातः यानि त्वया चक्षुषा रूपाणि
न दृष्टानि न दृष्टपूर्वाणि न पश्यसि, नापि ते एवं भवति पश्येयमिति; अपि
नु ते तन्निदानमुत्पन्नम्, छन्दो वा रागो वा स्नेहो वा येन वा आलयो वा
नियतिरध्यवसानं वा ? नो भदन्त । ये त्वया श्रोत्रेण शब्दा न श्रुता न श्रुतपूर्वाः,
विस्तरेण यावन्मनसा धर्मा न विज्ञाताः ? विस्तरेण यावन्नो भदन्त । अत्र च ते
माहकीमातर्दृष्टे दृष्टमात्रं भविष्यति, श्रुते मते विज्ञाते विज्ञातमात्रम्" ( )
इत्युक्तम् । अतस्त्रिषु विषयेषु दृष्टश्रुतविज्ञातशब्दापदेशाद् गन्धादिषु मतारूया
गम्यते ।
स्वभावो मौलः कर्मपथ इति ॥ ७४ ॥
मृतकल्पानि । अत एतेषु मताख्येति । नैरुक्तं विधिमालम्ब्य वैभाषिका
व्याचक्षते । स्वेन्द्रियैः प्राप्ता मता इत्याचार्यसङ्घभद्रः ।
विस्तरेण यावन्मनसा धर्मा इति । ये त्वया घ्राणेन गन्धा न घ्राताः,
जिह्वया रसा नास्वादिताः, कायेन स्प्रष्टव्यानि न स्पृष्टानि, यावत् ये त्वया
मनसा धर्मा न विज्ञाता इति ।
त्रिषु विषयेषु रूपशब्दधर्मेषु दृष्टश्रुतविज्ञातापदेशाद् यथाक्रमम् । गन्धादिषु
गन्धरसस्प्रष्टव्येषु मतारूया गम्यते । ते मतशब्देनोच्यन्ते ।