अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] चतुर्थं कोशस्थानम् ६०७
सिका च पुनरुपासक इति । न च व्यञ्जनपरिवृत्तौ पूर्वसंवरत्यागकारणमस्ति १,
नाप्यपूर्वसंवरप्रतिलम्भे । तस्मादभिन्न एषां चतुर्णां संवराणा त्रिभ्यः स्वभावः ।
य उपासकसंवरान्छ्रामणेरसंवरं समादत्ते तस्माच्च पुनर्धिक्षुसंवरम्, किं ते
संवरा विरतिवृद्धियोगादन्योन्य उच्यन्ते, पञ्च-दश-विंशतिवत्, दीनारसतेरवच्च २ ?
आहोस्वित् पृथगेव ते सकला उपजायन्ते ३ ? आह—
पृथक्,
अस्यामिश्रा एव ते पृथग्लक्षणा उपजायन्ते । त्रिषु संवरेषु तिस्रः प्राणा-
तिपातविरतयो यावन्मद्यपानविरतयः । एवं शेषाः ।
नेष्यते, परिवृत्तव्यञ्जनो भिक्षुर्भिक्षुसंवरं च त्यजति भिक्षुणीसंवरं च प्रति-
लभते ? इत्यत आह—न च व्यञ्जनपरिवृत्ताविति विस्तरः । न भिक्षुभिक्षुणी-
व्यञ्जनप्रादुर्भावे पूर्वसंवरत्यागकारणमस्ति ।
प्रातिमोक्षदमत्यागशिक्षानिक्षेपणाच्च्युतेः ।
उभयव्यञ्जनोत्पत्तेर्मूलोच्छेदान्निशात्ययात् ॥ (अभि० को० ४.३८ )
इत्यत्र यत् कारणमुक्तम्। नाप्यपूर्वसंवरप्रतिलम्भे । कारणमस्तीति वर्तते ।
यदुक्तम्-प्रातिमोक्षाख्यः परविज्ञानादिभिरिति । अतो विज्ञायते—न भिक्षु-
संवरादन्यो भिक्षुणीसंवर इति । एवं श्रामणेरादीनामपि वक्तव्यम् । तस्मा-
दभिन्नोऽनन्यश्चतुर्णां भिक्षुणीशिक्षमाणाश्रामणेर्युपासिकासंवराणां त्रिभ्यो भिक्षु-
श्रामणेरोपासकसंवरेभ्यः स्वभावः ।
किं ते संवरा इति विस्तरः । यथा पञ्चसंख्यायामन्यानि पञ्च प्रक्षिप्य
पञ्चवृद्धियोगाद् दश भवन्ति । पञ्चदशसंख्यायां चान्यानि पञ्च प्रक्षिप्य च
विंशतिर्भवन्ति । दीनारसतेरवच्च । यथा पूर्वको दीनारो द्वितीयेन सह सतेरो
भवति । तथा हि लोके एकदीनारमूल्येन द्वितीयं दीनारं दीनारमूल्यं वा तेन
पूर्वकेन दीनारमूल्येन सहाधिकमपेक्ष्य कश्चिद् वक्ता भवेत् — दीनारसतेरं
मया लब्ध इति । दीनारद्वयं मया लब्धमित्यर्थः । किमेवमेतदुपासकश्रामणे-
भिक्षुसंवरा विरतिवृद्धियोगात् प्राणातिपातादिविरतिषु तथैवावस्थितासु पु०-
र्नृत्यगीतविरत्यादीनां पूर्वासां विरतीनां वृद्धियोगादन्योन्य उच्यन्ते । अन्य
उपासकसंवरान्छ्रामणेरसंवरः, श्रामणेरसंवराच्चान्ये भिक्षुसंवर इति एकदेश-
विशेषयोगादन्योन्यव्यवस्थेत्यर्थः । आहोस्वित् पृथगेव ते सकला उपजायन्ते ।
अन्याः प्राणातिपातादिविरतय उपासकस्य, ततोऽन्याः श्रामणेरस्य, ततोऽन्याश्च
भिक्षोः—इत्येकस्मिन् भिक्षुसन्ताने तिस्रः प्राणातिपातादिविरतयः । एवमदत्ता-
१. ०त्यागे०—का० । २. ०शतेर०—का० । ३. जायन्ते—का० ।
६०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [कर्म-
को नु तासां विशेषः ? निदानविशेषाद् विशेषः ।
कथं कृत्वा ? यथा यथा हि बहुतराणि शिक्षापदानि समादित्सते, तथा
तथा बहुतेरेभ्यो मदप्रमादेभ्यो¹ निवर्तमानो बहुतेरेभ्यः प्राणातिपातादीनां
निदानेभ्यो निवर्तते, विरतीनां च निदानेषु प्रवर्तत इति निदानविशेषाद् विरतीनां
विशेषः। एवं चासति भिक्षुसंवरं प्रत्याचक्षाणस्त्रीनपि संवरान् विजह्याद्, द्वयोरपि
तत्रान्तर्भावात् । न चैतदिष्टम् । तस्मात् पृथगेव ते संवराः ।
ते चाविरोधिनः ॥ १४ ॥
ते च त्रयोऽपि सह वर्तन्ते । नोत्तरसंवरसमादानात् पूर्वकस्य त्यागः ।
मा भूत् भिक्षुसंवरपरित्यागादनुपासक एवेति ॥ १४ ॥
कथं चायमुपासको भवति, कथमुपवासस्थो यावद् भिक्षुः ?
पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् ।
उपासकोपवासस्थश्रमणेद्देशभिक्षुता ॥ १५ ॥
यथासंख्यमनुदेशो वेदितव्यः । पञ्चभ्यो वर्जनीयेभ्यो धर्मेभ्यो विरतिसमा-
पादनादुपासकसंवरस्थो² भवति — प्राणातिपाताद्, अदत्तादानात्, काममिथ्या-
चारात् , मृषावादात् , सुरामैरेयमद्यपानाच्च ।
अष्टाभ्यो विरतिसमादानादुपवासस्थः — प्राणातिपाताद्, अदत्तादानादब्रह्मचर्य-
मृषावादमद्यपानेभ्यः, गन्धमाल्यविलेपननृत्यगीतवादित्राद्, उच्चशयनमहाशयनाद्,
अकालभोजनाच्च ।
दानविरतयः । इत्येवमादि । एवं शेषा इति । नृत्यगीतविरत्यादयः ।
मदप्रमादेभ्य इति । उच्चशयनादिमद्यपानादिभ्यः । बहुतेरेभ्यः प्राणाति-
पातादीनां निदानेभ्य इति । उपासकाच्छ्रामणेरो बहुतेरेभ्यः प्राणातिपातादि-
निदानेभ्यो निवर्तते । तद्यथा — विकालभोजनं प्राणातिपातनिदानं भवेत्,
तस्माच्छ्रामणेरो निवर्तते, नोपासक इत्येवमादि योज्यम् । एवं चासति । एवं
च यदि न स्यादित्यर्थः । भिक्षुसंवरं प्रत्याचक्षाणस्त्यजन् त्रीनपि उपासक-
संवरादीन् विजह्यात् । द्वयोरप्युपासकश्रामणेरसंवरयोस्तत्र भिक्षुसंवरेऽन्त-
र्भावात् ॥ १४ ॥
विरतिसमापादनादिति । विज्ञप्यविज्ञप्तिविरतिरिति वक्ष्यति । समापादना-
१. मदप्रमादपदेभ्यः—का० । २. ०समादानादु०—का० ।
. निर्देश: ] चतुर्थं कोशस्थानम् १०'
दशभ्यो विरतिसमादानाच्छ्रामणेरो भवति—एभ्य एव, जातरूपरजतप्रति-
ग्रहाच्च । नृत्यगीतवादित्रगन्धमाल्यविलेपनं चात्र द्वयीकृत्य दश भवन्ति ।
सर्वेभ्य एव वर्जनीयेभ्यः कायवाक्कर्मभ्यः विरतिसमादानात् भिक्षुरित्यु-
च्यते ॥ १५ ॥
स एष प्रातिमोक्षसंवरः—
शीलं सुचरितं कर्म संवरश्चोच्यते,
विषमकर्मणां विरतिसमादानाच्छीलम्; शीतलत्वादिति निरुक्तिः । "सुख-
शीलसमादानं कायो न परिदह्यते" ( ) इति गाथावचनात् ।
विद्वत्प्रशस्तत्वात् सुचरितम् । क्रियास्वभावत्वात् कर्म ।
ननु चाविज्ञप्तिरक्रियेत्युच्यते, सा कथं क्रिया भवति, न कुर्वन्ति तया
समाच्या लज्जिनः पापमित्यक्रियेत्युच्यते ?
सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति क्रिया भवति ।
क्रियाहेतुत्वात्, क्रियाफलत्वाच्चेत्यपरे । संवर इति कायवाचोः
संवरणात् ।
एवं तावदविशेषेण प्रातिमोक्षसंवरः संशब्द्यते ।
पुनः ।
दिति । प्रतिसंस्थापनमादित्यर्थः । पापकर्मणो हि सत्त्वेषु विषमं सम्प्रवर्तते ॥१५॥
सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति । विज्ञप्त्या च क्रियते प्रातिमोक्षसंवर-
संगृहीता अविज्ञप्तिः, चित्तेन च क्रियते ध्यानानास्रवसंवरसंगृहीता अविज्ञप्तिः ।
समाधिना क्रियत इत्यर्थः । तदेवं क्रियत इति क्रियेति कर्मसाधनम् ।
क्रियाहेतुत्वादिति । क्रियाया हेतुत्वात् । संवरस्थो हि संवरपरिरक्षणार्थं
क्रियां विज्ञप्तिलक्षणामारभते । क्रियाफलत्वाच्चेति । विज्ञप्तिलक्षणायाः
क्रियायाः फलत्वादित्यर्थः । समाधिसम्भूता कथं क्रिया भवति ? समाधिजाया-
श्चेतनायाः फलत्वात् सापि क्रिया । प्रतिमोक्षसंवराधिकारद्वा । न तत्र चिन्ता १ ।
३ एवं तावद् अविशेषेण प्रातिमोक्षसंवरः संशब्द्यत इति । आद्योऽपि क्षणो
द्वितीयादयोऽपि च क्षणाः प्रातिमोक्षसंवर इत्युच्यते ।
१. चित्ता—इति मुद्रितः पाठः ।
६१० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
आद्ये विज्ञप्त्यविज्ञप्ती प्रातिमोक्षक्रियापथः ॥ १६ ॥
संवरसमादानस्य प्रथमे विज्ञप्त्यविज्ञप्ती प्रातिमोक्ष इत्युच्यते; पापस्य
तेन प्रातिमोक्षणाद् । उत्सर्जनादित्यर्थः । स्वार्थे वृद्धिविधानाद् वैकृत-वैशसवत् ।
प्रातिमोक्षसंवर इत्यपि कायवाक्संवरणात् कर्मपथ इत्युच्यते; मौलसंगृ-
हीतत्वात् ।
द्वितीयादिषु क्षणेषु प्रातिमोक्षसंवर एव, न प्रातिमोक्षः । पृष्ठं च न मौल-
कर्मपथः ॥ १६ ॥
अथैषां संवराणां केन कः समन्वगतः ?
प्रातिमोक्षान्विता अष्टौ,
प्रातिमोक्षसंवरेणाष्टौ निकायाः समन्वागताः—भिक्षुः, भिक्षुणी यावदुप-
वासस्थोऽष्टमः ।
किं खलु बाह्यकानां समादानशीलं नास्ति ? अस्ति, न तु प्रातिमोक्षसंवरः ।
किं कारणम् ? नहि तदत्यन्तं पापस्य प्रतिमोक्षणाय संवर्तते; भवसन्निश्श्रितत्वात् ।
प्रातिमोक्षस्वभावस्त्वाद्यक्षण एव। तदर्थमाह—पुनः आद्ये विज्ञप्त्यविज्ञप्ती
प्रातिमोक्ष इत्युच्यते। पापस्य तेन प्रतिमोक्षणादिति। प्रथमेनैव क्षणेन पापं
प्रतिमोक्ष्यते = उत्सृज्यते। त्यज्यते इत्यर्थः। प्रतिमोक्ष इति प्राप्ते प्रातिमोक्ष
इति वचनं स्वार्थे वृद्धिविधानात्। स्वार्थे प्रत्यये कृते वृद्धिकरणादित्यर्थः।
वैकृतवैशसवत्। यथा विकृतमेव वैकृतम्, विशसमेव मारणं वैशसम्। एवं
प्रतिमोक्ष एव प्रतिमोक्ष इति।
प्रातिमोक्षसंवर इत्यपीति। प्रातिमोक्षश्चासौ संवरश्च। कायवाचोः संवरणार्थ
इत्यर्थः। कर्मपथ इत्यप्युच्यत इति। मौलः कर्मपथ इत्यर्थः। द्वितीयादिषु
प्रातिमोक्षसंवर एव। प्रातिमोक्षजातीयः, प्रातिमोक्षाद्वा जातः संवरः प्राति-
मोक्षसंवरः। न प्रातिमोक्षः। यस्मात् न तेन पापं प्रतिमोक्ष्यते, प्रथमक्षण
एव प्रतिमोक्षितत्वात् ॥ १६ ॥
अष्टावेव निकाया इत्यवधारणे पृच्छति—किं खलु बाह्यकानामिति विस्तरः।
समादानशीलमिति विशेषणं शीलद्वैध्यात्। द्विविधं हि शीलम्—समादान-
शीलम्, धर्मताप्रातिलम्भिकं च। तत्र समादानशीलं यद् गृह्यते। इदं चेदं च न
करिष्यामीति। धर्मताप्रातिलम्भिकम्—ध्यानसंवरः, अनास्रवसंवरश्च। भव-
सन्निश्श्रितत्वादिति। मोक्षार्थिनामपि तेषां मिथ्यादृष्ट्याद्युपहतत्वात्। भवविशेष
निर्देशः ] चतुर्थं कोशस्थानम् ६११
ध्यानजेन तदन्वितः ।
ध्यानाद् ध्याने वा जातो ध्यानजः । यो ध्यानेन समन्वागतः, सोऽवश्यं
ध्यानसंवरेण । सामन्तकम्प्यत्र ध्यानं कृत्वोच्यते । यथा ग्रामसामन्तमपि ग्राम
इत्युच्यते—अस्त्यस्मिन् ग्रामे शालेयं क्षेत्रम्, अस्ति व्रीहेयमिति ।
अनास्रवेणार्यसत्त्वाः,
आर्यपुद्गला अनास्रवेण संवरेण समन्वागताः । ते पुनः शैक्षाशैक्षाः ।
यदुक्तम्—“सहभूहेतावुच्यमाने द्वौ संवरौ चित्तानुवर्तिनौ” ( ) इति ।
कतमौ तौ ? एषामेव त्रयाणाम्
अन्त्यौ चित्तानुवर्तिनौ ॥ १७ ॥
ध्यानसंवरः, अनास्रवसंवरश्च । न प्रातिमोक्षसंवरः । किं कारणम् ? अन्य-
चित्ताचित्तकस्याप्यनुवृत्तेः ।
पुनस्तावेव ध्यानानास्रवसंवरौ प्रहाणसंवराख्यां लभेते ॥ १७ ॥
कस्यामवस्थायाम् ? इत्याह—
अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ ।
अनागम्ये तौ ध्यानानास्रवसंवरौ नवस्वानन्तर्यमार्गेषु 'प्रहाणसंवरौ' इत्यु-
च्येते; ताभ्यां दौःशील्यस्य तत्समुत्थापकानां च क्लेशानां प्रहाणात् ।
एव च तेषां केषाञ्चिन्मोक्ष इति । भवसन्निधितमेव शीलम् । ततोऽस्ति तेषां
समादानशीलम्, न प्रातिमोक्षसंवर इति ।
सामन्तकम्प्यत्र ध्यानं कृत्वोच्यत इति । यस्मात् सामन्तकेऽपि ध्यान-
संवरोऽनास्रवसंवरश्चेष्यते, तस्माद् ध्यानसामन्तकम्प्यत्र ध्यानशब्देनोच्यत
इतीष्यते । अपिशब्दान्मौलमपि गृह्यत एव ।
सहभूहेतावुच्यमान इति । "चैत्ता द्वौ संवरौ तेषाम्" (अभि० को० २.५१)
इत्यत्र । त्रयाणामिति । प्रातिमोक्षसंवरध्यानसंवरानास्रवसंवराणाम् । अन्य-
चित्ताचित्तकस्याप्यनुवृत्तेरिति । "विज्ञप्ताचित्तकस्यापि” (अभि० १.११) इति
वचनात् ॥ १७ ॥
“अनागम्ये” इति ग्रहणं कामावचरस्यैव दौःशील्यस्य प्रतिपक्षत्वात् । आन-
न्तर्यमार्गोष्विति । तेषां प्रहाणमार्गत्वात् । तत्समुत्थापकानामिति । दौःशील्य-
समुत्थापकानाम् ।
६१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
अत एव 'स्याद्ध्यानसंवरो न प्रहाणसंवरः' इति चतुष्कोटिकं क्रियते—
प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्यः सास्स्रवो ध्यानसंवरः, द्वितीया अनागम्या-
नन्तर्यमार्गेष्वनास्रवः, तृतीया अनागम्यानन्तर्यमार्गेषु सास्स्रवः, चतुर्थी अना-
गम्यानन्तर्यमार्गवर्ज्योऽनास्रवसंवरः ।
एवं 'स्यादनास्रवसंवरो न प्रहाणसंवरः' इति चतुष्कोटिकं यथायोगं
वेदितव्यम् ।
यत्तर्हि भगवतोक्तम्—
“कायेन संवरः साधु साधु वाचाथ संवरः ।
मनसा संवरः साधु साधु सर्वत्र संवरः ॥” ( ) इति,
यच्चोक्तम्—“चक्षुरिन्द्रियेण संवरसंवृतो विहरति” ( ) इति,
एतौ मनइन्द्रियसंवरौ किंस्वभावौ ? नैतावविज्ञप्तिशीलस्वभावौ । किं तर्हि ?
सम्प्रजानस्मृती द्वे तु मनइन्द्रियसंवरौ ॥ १८ ॥
प्रत्येकं द्विस्वभावज्ञापनाथं पुनर्द्विग्रहणम्, मा यथासंख्यं विज्ञायीति; मनः-
संवरोऽपि स्मृतिसम्प्रज्ञानस्वभाव इति । इन्द्रियसंवरोऽपि ॥ १८ ॥
अतएवेति । यस्मादनागम्यानन्तर्यमार्गेष्वेव तद्व्यवस्थानम् । तस्माच्चतुः-
कोटिकं क्रियते । प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्यो ध्यानसंवरः । अनागम्य-
भूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु मौलप्रथमध्यानादिषु वा चतुर्थाद् ध्याना-
दानन्तर्यविमुक्तिप्रयोगविशेषमार्गेषु यो ध्यानसंवरः । अयं ध्यानसंवरः, न
प्रहाणसंवरः; तेन दौःशील्यस्य तत्समुत्थापकानां च क्लेशानामप्रहाणात् ।
द्वितीया—अनागम्यानन्तर्यमार्गेष्वनास्रवसंवरः । अयं प्रहाणसंवरः; तेनैव दौःशी-
ल्यादिप्रहाणात् । न ध्यानसंवरः; अनास्रवत्वात् । तृतीया—अनागम्यानन्तर्य-
मार्गेषु सास्स्रवसंवरः । अयं प्रहाणसंवरश्च; तेन दौःशील्यादिप्रहाणात् । ध्यान-
संवरश्च; सास्स्रवसमाधिजत्वात् । चतुर्थी—अनागम्यानन्तर्यमार्गवर्ज्योऽनास्रव-
संवरः । अयं न ध्यानसंवरः; आस्रवत्वात् । नापि प्रहाणसंवरस्तेन दौःशील्याद्य-
प्रहाणात् । स पुनस्तथैवानागम्यभूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु विस्तरेण
योज्योऽनास्रवसंवरः । संवरनियमेनैवमुक्तम् । अन्यथाप्यन्ये धर्मा वक्तव्याः स्युः ।
एवं स्यादनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकम् । प्रथमा कोटि-
रनागम्यानन्तर्यमार्गवर्ज्योऽनास्रवसंवरः ।
मनःसंवरोऽपि स्मृतिसम्प्रज्ञानस्वभावः । इन्द्रियसंवरोऽपि स्मृतिसम्प्रज्ञानस्व-
निर्देशः ] चतुर्थं कोशस्थानम् ६१३
इदं विचार्यते—कः कतमया विज्ञप्त्या, अविज्ञप्त्या वा कियन्तं कालं
समन्वागत इति ? तत्र—
प्रातिमोक्षस्थितो नित्यमत्यागाद् वर्तमानया ।
अविज्ञप्त्यान्वितः,
यः प्रातिमोक्षसंवरस्थः पुद्गल उक्तः, स यावत् तामविज्ञप्तिं न त्यजति
तावत् तया वर्तमानया नित्यं समन्वागतः ।
पूर्वात् क्षणादूर्ध्वमतीतया ॥ १९ ॥
प्रथमात् क्षणादूर्ध्वमतीतयापि समन्वागतः । 'अत्यागात्' इति सर्वत्रा-
धिकृतं वेदितव्यम् ॥ १९ ॥
यथा प्रातिमोक्षसंवरस्थ उक्तः,
तथैवासंवरस्थोऽपि,
असंवरस्थोऽपि यावदसंवरं न त्यजति तावन्नित्यमविज्ञप्त्या वर्तमानया
एव¹ समन्वागतो भवति¹ । क्षणादूर्ध्वमतीतयापि ।
ध्यानसंवरवान् सदा ।
अतीताजातया,
ध्यानसंवरस्य लाभी नित्यमतीतानागतया² अविज्ञप्त्या² समन्वागतः;
भाव इति । द्विस्वभावज्ञापनार्थं द्विग्रहणम्; द्विकर्मनिर्देशेन हि द्वित्वसिद्धिः ।
कथं पुनर्गम्यते—एतावेवंस्वभावाविति ? आगमात् । “अन्यतरा किल देवता
भिक्षुं विषयेष्विन्द्रियाणि विचारयन्तमवोचत्—भिक्षो भिक्षो व्रणं मा
कार्षीरिति ? भिक्षुराह—पिधास्यामि देवते । देवताह—कुम्भमात्रं भिक्षो
व्रणं कृत्वा केन पिधास्यसि ? भिक्षुराह—स्मृत्या देवते पिधास्यामि, सम्प्रजन्येन
वा” ( ) इति ॥ १८ ॥
स यावत्तामविज्ञप्तिं न त्यजतीति । शिक्षानिक्षेपादि ।
“पूर्वात् क्षणादूर्ध्वमतीतया” इति । प्रथमे क्षणे वर्तमानयैव समन्वागतो
भवतीत्युक्तं भवति ॥ १९ ॥
“ध्यानसंवरवान् सदा अतीताजातया” इति । ध्यानसंवरवान् किं पृथग्जनोऽ-
थार्यः ? उभय इत्याह; अविशेषित्वात् । सोऽतीतानागतया अविज्ञप्त्या समन्वागतः।
१. का० पुस्तके नास्ति । · २-२. ०नागताभ्यामविज्ञप्तिभ्या—का० ।
अत्यागात्¹ । प्रथमे हि क्षणे स जन्मान्तरत्यक्तं ध्यानसंवरमतीतं लभते ।
आर्यस्तु प्रथमे नाभ्यतीतया ॥ २० ॥
आर्यस्तु पुद्गलोऽप्येवमनास्रवया । अयं तु विशेष:— स प्रथमे तु²
क्षणे नाभ्यतीतया³ समन्वगतः; मार्गस्य पूर्वमनुत्पादितत्वात् ॥ २० ॥
समाहितार्यमार्गस्थौ तौ युक्तौ वर्तमानया ।
तौ ध्यानानास्रवसंवरान्वितौ समाहितार्यमार्गसमापन्नौ वर्तमानया
किल्लक्षणया ? ध्यानसंवराधिकाराद् ध्यानसंवरलक्षणयेति गम्यते । स जन्मा-
न्तरत्यक्तमिति । उदाहरणप्रदर्शनपरमेतत् । इदं जन्म त्यक्तमपि हि गृह्यते ।
“आर्यस्तु प्रथमेनाभ्यतीतया” इति । आर्यः सदातीताजातया अविज्ञप्त्या
समन्वगतः । किल्लक्षणया—अनास्रवया । आर्याधिकारात् । अत एवाह—
आर्यपुद्गलोऽप्येवमनास्रवयेति । अयं तु विशेष इति । तु-शब्दार्थं दर्शयति । स च
भिन्नक्रमः । प्रथमे तु क्षणे दुःखधर्मज्ञानक्षान्तिकणे । नाभ्यतीतया अविज्ञप्त्या
समन्वगत इत्यर्थः । कस्मात् ? अनादिमति संसारे मार्गस्य पूर्वमनुत्पादितत्वात् ।
ननु च फलप्राप्तिकाले, इन्द्रियसञ्चारकालेऽपि वा पूर्वमार्गंत्यागे नेवातीत्या
अविज्ञप्त्या समन्वगम इष्यते ? एवं तर्हि स चापि फलमार्गस्य प्रथमक्षणो
भवति । तत्र नातीतयाऽविज्ञप्त्या समन्वगतो भवति; फलमार्गस्य पूर्वमनुत्पा-
दितत्वादिति व्याख्यातव्यम् ।
अत्र च—'ननु इन्द्रियसञ्चारस्य' चोद्यस्य परिहारमाह— अनास्रवसंवरोऽत्र प्रकृतः ।
स च दुःखधर्मज्ञानक्षान्तिकाल एव लब्धः । अतस्तेन प्रथमे क्षणे नातीतेन
समन्वगतो द्वितीयादिष्वतीतानागतेनेति । ऊर्ध्वं तु यो मार्गान्तरलाभस्तत्रा-
नास्रवसंवरसादृश्यमस्तीति न तदुच्यते इति ।
तदिह 'सादृश्यमस्ति' इति न बुध्यामहे—किं सास्रवसंवरोऽस्तीत्यपेक्ष्ये
निर्देशः ] चतुर्थं कोशस्थानम् ६१५
अविज्ञप्त्या समन्वागतौ यथाक्रमम्, न तु व्युत्थितौ ।
संवरासंवरस्थानां तावदेष वृत्तान्तः ॥
अथेदानों मध्यस्थस्य ?
मध्यस्थस्यास्ति चेदादौ मध्यया,
यो नैवसंवरनासंवरे१ स्थितः स मध्यस्थः । तस्य नावश्यमविज्ञप्तिरस्ति ।
यस्य त्वस्ति दौःशील्यशीलाङ्गादिसंगृहीता स आदौ मध्यया समन्वागतः ।
वर्तमाना ह्यविज्ञप्तिरतीतानागतयोर्मध्याद्—
ऊर्ध्वं द्विकालया ॥ २१ ॥
प्रथमात् क्षणादूर्ध्वमतीतया वर्तमानया च । अत्यागादिति२ वर्तते ॥२१॥
किमसंवरस्थः कदाचित् कुशलया विज्ञप्त्या समन्वागतो भवति, संवरस्थो
वा पुनरकुशलया भवति ? भवन् कदा कियन्तं वा कालम् ? इत्याह—
नावमभिरूढः स नौस्थः। एवं य आर्यमार्गमभिरूढः समापन्नः स आर्य-
मार्गस्थः । अन्यथा ह्यार्यमार्गसमन्वितोऽप्यार्यमार्गस्थ इति कृत्वा प्रकृति-
स्थोऽप्यार्यो वर्तमानया अनास्रवया अविज्ञप्त्या समन्वागत इति प्राप्नोति ।
अन्यः पुनरेवं प्रसङ्गं परिहरन् व्याचष्टे—एकशेषोऽत्र क्रियते । समाहितश्च
समाहितार्यमार्गश्च मार्गौ समाहितार्यमार्गौ, तयोः स्थितौ समाहितार्य-
मार्गस्थौ । तौ यथाक्रमं वर्तमानया ध्यानसंवराविज्ञप्त्या, अनास्रवसंवराविज्ञप्त्या
च समन्वागतौ । न तु व्युत्थितौ । न तु तन्मार्गव्युत्थितौ तया । वर्तमानया
समन्वागतौ; तस्याः चित्तानुपरिवर्तनीयत्वात् । एवं व्याख्यायते—यच्चोदित-
माचार्यसङ्घभद्रेण । कथमविज्ञप्तेः प्रत्युत्पन्नता आर्यमार्गस्थवचनादेव गम्यते,
तत्समापन्न एवायम् । न पुनस्तत्समन्वागमवचनप्रसङ्ग इति चेत् ? न;
ध्यानाधिकारात् । तत्राविज्ञप्त्यभावाच्च ।
यो नैवसंवरनासंवरस्थितः स मध्यस्थ इति । यो न भिक्ष्वादिः । न च
कैवर्तादिः । स मध्यस्थः । दौःशील्यशीलाङ्गादिसंगृहीतेति । दौःशीत्यं प्राणाति-
पातादि । शीलाङ्गं प्राणातिपातविरत्यादि । यन्नसंवरनासंवरसंगृहीतम् ।
आदिशब्देन स्तूपवन्दना-खट्चपेटादिक्रियाविज्ञप्त्यादि गृह्यते ॥ २१ ॥
असंवरसंवरस्थौ पुद्गलावकुशल-कुशलधर्मप्रतिष्ठितौ इत्यनयोर्विपर्ययम-
सम्भावयन् पृच्छति—किमसंवरस्थ इति विस्तरः ।
१. नैव संवरे नासंवरे—का० । २. आत्यागा०—का० ।
६१६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
असंवरस्थः शुभयाऽशुभया संवरे स्थितः ।
अविज्ञप्त्यान्वितो यावत् प्रसादक्लेशवेगवान् ॥ २२ ॥
येन प्रसादवेगेनासंवरस्थस्य कुशलाविज्ञप्तिरुत्पद्यते स्तववन्दनादिक्रियां
कुर्वतः, येन च क्लेशवेगेन संवरस्थस्याकुशलाविज्ञप्तिरुत्पद्यते वधबन्धनताडना-
दिक्रियां कुर्वतः; तौ यावदनुवर्तेते तावत्ते अप्यविज्ञप्ती। स आद्ये क्षणे वर्तमान-
यैवाविज्ञप्त्या समन्वगतो भवति। अन्येष्वतीताऽपि ॥ २२ ॥
अविज्ञप्त्यधिकारः समाप्तः ॥
विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः ।
सर्वे संवरासंवरमध्यस्था यावद् विज्ञप्तिं कुर्वन्ति तावत् तया वर्तमानया
समन्वागताः।
अतीतया क्षणादूर्ध्वमात्यागात्,
प्रथमात् क्षणादूर्ध्वमात्यागादतीतया विज्ञप्त्या समन्वागतो भवति।
नास्त्यजातया ॥ २३ ॥
अनागतया तु विज्ञप्त्या न कश्चित् समन्वागतः ॥ २३ ॥
निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः ।
अतीताभ्यामपि निवृतानिवृताव्याकृताभ्यां विज्ञप्तिभ्यां न कश्चित्
समन्वागतः। दुर्बलस्य हि धर्मस्य प्राप्तिरपि दुर्बला नानुबन्धीभवति।
किंकृतं तस्या दौर्बल्यम् ? चित्तकृतम्।
तौ यावदनुवर्तेते इति। प्रसादक्लेशवेगौ। अन्येष्वतीतायापीति। द्वितीय-
क्षणादिषु अतीतया ॥ २२ ॥
"क्षणादूर्ध्वमात्यागाद्" इति। यो यस्यास्त्यागस्तस्मादात्यागात् तयातीतया
विज्ञप्त्या समन्वागतः। कथम् ? संवरलक्षणायास्तावद् विज्ञप्तेस्त्यागः शिक्षानि-
क्षेपादिभिः। तस्मादात्यागादनया अतीतया विज्ञप्त्या समन्वागतः। असंवर-
लक्षणायाः संवरसमादानादिभिस्त्यागः, तस्मादात्यागादनया समन्वागतः।
नैवसंवरनासंवरलक्षणायाः प्रसादक्लेशवेगच्छेदादिभिस्त्यागः, तस्मादात्या-
गादनया समन्वागत इति। यो हि संवराद्यविज्ञप्तिमन्वागतः सोऽवश्यं मौल-
कर्मपथस्वभावया क्षणादूर्ध्वमतीतयाविज्ञप्त्या समन्वागतः।
अनागतया तु विज्ञप्त्या न कश्चित् समन्वागत इति। चित्ताननुपरिवर्त-
नीयत्वात् ॥ २३ ॥
प्त्यैव समन्वागतो भवति; अविज्ञप्तेरनुत्पादात् । प्रागेवाव्याकृतं
Line 27:
कुर्वन् सुतरां विज्ञप्त्यैवासौ समन्वागतः, नाविज्ञप्त्या; अविज्ञप्त्युत्पादाशङ्काया
Line 28:
अभावात् । अन्यत्रेति विस्तरः । अन्यत्र सप्तभ्य औपधिकेभ्यः पुण्यक्रियावस्तुभ्यः ।
Line 29:
कर्मपथेभ्यश्च प्राणातिपातादिभ्यः । तत्र ह्याव्याकृतमपि कुर्वंश्च विज्ञप्त्या
Line 30:
१. प्रागेवाव्याकृते—का० । २. ०चेतना—मुद्रितः पाठः ।
Everything matches the printed page with extreme accuracy.निर्देशः ] चतुर्थं कोशस्थानम् ६१७
चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् ? नैतदेवम् ; जडा हि विज्ञप्तिः,
परतन्त्रा च । न चैवं चित्तम् । सा हि निवृत्तेर्दुर्बलेनेत्यादिना दुर्बलतरा भवति ।
असंवरस्थ इत्युक्तम् । कोऽयमसंवरो नाम ?
संवरो दुश्चरितं दौःशील्यं कर्म तत्पथः ॥ २४ ॥
असंवरस्य
६१८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्गलः ॥ २५ ॥
अविज्ञप्त्यैव समन्वागतो न विज्ञप्त्या; येनार्यपुद्गलेन जन्मान्तरपरिवृत्तौ
न तावद् विज्ञप्तं भवति, विज्ञप्तं वा पुनर्विहीनम् ॥ २५ ॥
उक्तं संवरासंवरमध्यस्थानां विज्ञप्त्यविज्ञप्तिसमन्वागमनव्यवस्थानम् ॥
अथैते संवराः कथं लभ्यन्ते ?
ध्यानजो ध्यानभूम्यैव लभ्यते,
यदा ध्यानभूमिकं चित्तं प्रतिलभ्यते मौलीयं सामन्तकीयं वा सास्रवम्, तदा
ध्यानसंवरोऽपि; सहभूतत्वात् ।
अनास्रवस्तया ।
आर्यया,
समन्वागतो भवति; "सततसमितं चरतो वा तिष्ठतो वा विस्तरेण यावदुप-
जायत एव पुण्यम्" इति सूत्रे वचनात् । प्राणातिपातादींश्च कर्मपथान् मृदु-
चेतनयापि कुर्वन् अविज्ञप्त्या समन्वागतो भवति ।
येनार्यपुद्गलेनेति विस्तरः । परिवृत्तजन्मनार्यपुद्गलेन यदा न तावद् विज्ञप्तं
भवति । कललावस्थायामन्तर्गर्भगतेन वा । विज्ञप्तं वा पुनर्विहीनमव्याकृत-
चित्तोत्थापितविज्ञप्तिविहीनाच्च । न हि तस्याः प्राप्तिरनुबन्धिनी भवति ।
कृतस्तूपादिकस्य वां, तद्वस्तुच्छेदात् । स हि तदानीमविज्ञप्तिमपि परित्यजति
प्रागेव विज्ञप्तिमिति । आस्रवस्थस्तु जन्मान्तरपरिवृत्तावार्यपुद्गलोऽनास्रवयैवा-
विज्ञप्त्या जन्मान्तरलब्धया समन्वागतः, न विज्ञप्त्या ।
ननु च पृथग्जनस्याप्ययं विधिः सम्भवति ? सम्भवति । अनावश्यकत्वात्तु
पृथग्जनो नोक्तः । यो हि ध्यानलाभी परिवृत्तजन्मान्तरः रूपधातावकृत-
विज्ञप्तिः, कृतविज्ञप्तिविहीनो वा, स एव तथा सम्भवति, नान्य इति; कामा-
वचरसत्त्वाभिसन्धिवचनाद्वा । अथवा उदाहरणरूप आर्यपुद्गल उक्तः, तेन पृथ-
ग्जनोऽपि तथा गृहीतव्यः । अत एव "विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः"
इत्यत्रोक्तः—'अन्यत्रौपधिकपुण्यक्रियादानकर्मपथेभ्यः' इति । सावशेषमेतद्वचन-
मिति कृत्वा । एवं द्वे कोटी सूत्रिते प्रथमद्वितीये । तृतीयचतुर्थ्यौ तु योज्ये—
तृतीया संवरासंवरमध्यस्थास्तीव्रया चेतनया कुशलमकुशलं वा कुर्वन्तः;
चतुर्थी येन जन्मान्तरपरिवृत्तौ पृथग्जनेन न तावद् विज्ञप्तं भवति, विज्ञप्तं वा
विहीनमिति ॥ २५ ॥
सहभूतत्वादिति । यस्माद् ध्यानचित्तेन सह भवति ध्यानसंवरः ।
निर्देशः ] चतुर्थं कोशस्थानम् ६१९
तयैव ध्यानभूम्याऽनास्रवया लभ्यमानोऽनास्रवः संवरो लभ्यते । तत्र
षड् ध्यानभूमयोऽनास्रवा भवन्ति—चत्वारि ध्यानानि अनागम्यस्यानन्तरं चेति
पश्चात् प्रवेदयिष्यामः ।
प्रातिमोक्षाख्यः परविज्ञापनादिभिः ॥ २६ ॥
प्रातिमोक्षसंवरस्तु परविज्ञप्तितो लभ्यते, यद्येनं परो विज्ञापयति¹ असौ
च परम् । स पुनः सङ्घाद्वा, पुद्गलाद्वा । सङ्घाद् भिक्षुभिक्षुणीशिक्षमाणासंवरः,
पुद्गलादन्ये ।
दशविधा उपसम्पदिति विनयविभाषिकाः । तस्य उपसंग्रहणार्थमादि-
शब्दः ।
१. स्वयम्भूत्वेन बुद्धानां प्रत्येकबुद्धानां च, २. नियमावक्रान्त्या पञ्चकानाम्,
३. एहिभिक्षुकया यशःप्रभृतीनाम्, ४. शास्तुरभ्युपगमात् महाकाश्यपस्य,
५. प्रश्नाराधनेन सोदायिनः, ६. गुरुधर्माभ्युपगमेन महाप्रजापत्याः, ७. दूतेन
परो विज्ञापयतीति । प्रत्यापयति । पुद्गलादन्य इति । श्रामणेरश्रामणेर्यु-
पासकोपासिकोपवाससंवराः ।
नियमावक्रान्त्या । आर्यमार्गावतारणेन । पञ्चकानामाज्ञातकौण्डिन्यादीनाम् ।
एहिभिक्षुकयेति । 'एहि भिक्षो चर ब्रह्मचर्यम्' इति भगवतो वचने । 'एहीति
चोक्तः सुगतेन तायिना मुण्डश्च काषायधरो बभूव' इति । शास्तुरभ्युपगमान्महा-
काश्यपस्येति । महाकाश्यपः किल यां यां देवताप्रतिमां वन्दते सा सा स्फुटति;
तस्य महानुभावात् । स भगवन्तमुपसंक्रम्य न वन्दते—माऽस्य रूपविनाशो
भूदिति । तमभिप्रायं विदित्वा भगवांश्चोदयति स्म—वन्दस्व काश्यप तथागत-
मिति । तेन भगवान् वन्दितः । ततः स भगवतो रूपमविकोपितं दृष्ट्वा—अयं मे
शास्तेति स भगवन्तमभ्युपगतः । तदभ्युपगमान् अस्योपसम्पदिति । प्रश्नाराध-
नेन सोदायिन इति । सोदायिना प्रश्नविसर्जनेन भगवानाराधितः, तेनाराधनेन
तस्योपसम्पत् । गुरुधर्माभ्युपगमेनेति । अष्टौ गुरुधर्माः—१. भिक्षोरन्तिकाद् भिक्षु-
णीनामुपसम्पत् भिक्षुणीभावः, २. अन्वर्धमासमववादो ग्राह्यो भिक्षोरन्तिकात्,
३. अभिक्षुके आवासे वर्षा नोपगन्तव्याः, ४. प्रवारणायामुभयसङ्घस्त्रिभिः
स्थानैः प्रवारयितव्यः, ५. न चोदयितव्यो भिक्षुरापत्तिमापन्नः नाक्रोष्टव्यः,
६. गुरुधर्मापत्तौ मानाप्यमर्धमासं चरितव्यम्, ७. वर्षशतोपसम्पन्नयापि भिक्षुण्या
१. विज्ञपयति—का० ।
अभि० कौ० २ : १६
६२० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
धर्मदिन्नायाः, ८. विनयधरपञ्चमेन प्रत्यन्तिमेषु जनपदेषु, ९. दशवर्गेण मध्येषु
जनपदेषु, १०. शरणगमनत्रैवाचिकेन षष्टिभद्रवर्गपूगोपसम्पादितानामिति ।
तेषां नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवरः ॥ २६ ॥
स पुनरेष प्रातिमोक्षसंवरः समादीयमानः कियन्तं कालं समादातव्यः ?
यावज्जीवं समादानमहोरात्रं च संवृतेः ।
सप्तनैकायिकस्य प्रातिमोक्षसंवरस्य यावज्जीवं समादानम्, उपवास-
संवरस्य अहोरात्रमित्येष नियमः ।
किं कारणम् ? द्वौ हि कालपर्यन्तौ—अहोरात्रपर्यन्तः, जीवितपर्यन्तश्च ।
अहोरात्राणां पौनरुक्त्येन पक्षादयः ।
कालो नाम क एष धर्मः ? संस्कारपरिदीपनावचनमेतत् । आलोकावस्था
हि द्वीपेषु 'दिवसः' इत्युच्यते, तमोऽवस्था 'रात्रिः' । युक्तं तावज्जीवितादूर्ध्वं
सत्यपि समादाने संवरस्यानुत्पत्तिः, विसभागत्यादाश्रयस्य तेन च तत्राप्रयोगाद्,
तत्क्षणोपसम्पन्नो भिक्षुर्वन्द्यः, ८. न च भिक्षुण्या कचिद् भिक्षुश्चोदयितव्यः—
इत्येवमादयः । एषामभ्युपगमेन तस्या उपसम्पत् । दूतेन धर्मदिन्नाया इति ।
तया किलान्तःपुरगतयैव प्रव्रज्यार्थं बुद्धाय दूतः प्रेषित इति । विनयधरपञ्च-
मेनेति । चत्वारो भिक्षवः=सङ्घः, तत्र च ज्ञप्तिवाचकेन पञ्चमेनोपसम्पाद्यते
प्रत्यन्तिकेषु जनपदेषु । मध्येषु तु जनपदेषु दशमेन ज्ञप्तिवाचकेनोपसम्पाद्यते ।
षष्टिभद्रवर्ग-पूगोपसम्पादितानामिति । भद्रो वर्ग एषामिति । भद्रवर्गाणां
षष्टिः कुलपुत्राः । तेषां पूगेन समूहेनोपसम्पादितानाम् । शरणगमनत्रैवाचिकेन ।
‘बुद्धं शरणं गच्छामः’ इति त्रिवंचनेनोपसंपत् । तेषां नावश्यं विज्ञप्त्यधीन इति ।
तेषां विनयधराणामिदं मतम्—नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवर इति ।
बुद्धप्रभृतीनामविज्ञप्त्यधीनत्वात् । अथ वा तेषामिति येषां विज्ञप्तिर्नास्त्युप-
सम्पत्क्रियायाम् ॥ २६ ॥
“संवृतेः” इति । संवरस्य । “कालो नित्यः पदार्थोऽस्ति” इत्येके । तदाशंकया
पृच्छति—कालो नाम क एष धर्म इति । काल इत्यस्याभिधानस्य किमभिधेय-
मित्यर्थः । संस्कारपरिदीपनावचनमेतदिति । संस्काराणामतीतानागतप्रत्यु-
त्पन्नानामभिद्योतकं नामेति । तद् यथा—अतीतः कालो यावत् प्रत्युत्पन्न
इति त्रैयध्विकाः संस्कारा एव गम्यन्ते । तेन च तत्राप्रयोगादिति । तेन
[निर्देशः ] चतुर्थं कोशस्थानम् ६२१
अस्मरणाच्च ।
अथाहोरात्रादूर्ध्वं पञ्चरात्रं दशरात्रं वा उपवाससमादानस्य कः प्रतिबन्धो
बहूनामल्पसंवराणामनुत्पत्तौ ? इत्थमस्ति प्रतिबन्धो यद्भगवानाहोरात्रिकमेवोपवासं
सूत्रे शास्ति स्म । इदमिदानीं सम्प्रधार्यम्—किं तावदहोरात्रादूर्ध्वं संवरस्या-
नुत्पत्तिं पश्यता तथागतेनाहोरात्रिक उपवासो देशितः, उताहो दुर्बलेन्द्रियाणा-
माहोरात्रिकेऽपि संवरसमादानेन सन्नियोजनार्थमिति ।
कुतस्त्वेतदेवं तर्क्यते ? अहोरात्रात् परेणापि संवरोत्पत्तौ युक्त्यविरोधात् ।
तदेतत् कस्यचिदप्यहोरात्रादूर्ध्वमदेशनां नेच्छन्ति वैभाषिकाः ॥
असंवरस्येदानीं कः कालनियमः ?
नासंवरोऽस्त्यहोरात्रम्,
यावज्जीवं पापकर्माभ्युपगमादसंवर उपजायते नाहोरात्रम्, यथोपवासः ।
किं कारणम् ?
न किलैवं प्रगृह्यते ॥ २७ ॥
न किल कश्चिदेवमसंवरं समादत्ते यथोपवासम्—कच्चिदहमहोरात्रमसंवृतः
स्यामिति; कुत्सितत्वात् कर्मणः । एवं चैव न कश्चिदादत्ते—कच्चिदहं याव-
जीवमसंवृतः स्यामिति । यावज्जीवमप्यस्य लाभो न स्यात् । यद्यपि नैवमादत्ते,
तथाप्यत्यन्तविपन्नेनाशयेन तां क्रियां प्रकुर्वन्नसंवरं प्रतिलभते, न कालान्तर-
विपन्नेन । उपवाससंवरस्तु समादानबलाधानादनात्यन्तिकेऽप्याशये लभ्यत एव;
संवरार्थित्वात् ।
यदि पुनः कश्चिदसंवरेणाप्यर्थी कालान्तरमसंवरं समाददीत, सोऽवश्यं
लभेत । न त्वेतद् दृष्टमिति नैवं व्यवस्थाप्यते ॥
विसभागेनाश्रयेण तत्र समादाने अप्रयोगात् । अस्मरणाच्च तेनाश्रयेण तत्-
समादानं न स्मरति ।
वैभाषिक आह—कुतस्त्वेतदेवं तर्क्यते । यथानन्तरमुक्तम् ।
आचार्य आह—परेणापि संवरोत्पत्तौ युक्त्यविरोधादिति नात्र युक्तिर्विरुध्यते ।
यथा जीवितादूर्ध्वं सत्यपि समादाने संवरोत्पत्तौ युक्तिविरोधो विसभागाश्रय-
त्वात् इत्येवमादि । न कालान्तरविपन्नेनेति अहोरात्रादि यावत् क्रियाशयेन ॥
६२२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
अविज्ञप्तिवदसंवरोऽपि नास्ति द्रव्यत इति सौत्रान्तिकाः । स एव तु
पापक्रियाभिसन्धिरसंवरः । सानुबन्धो यतः कुशलचित्तोऽपि तद्वानित्युच्यते¹;
तस्यानिरकृतत्वात् ॥ २७ ॥
अथाहोरात्रं गृह्यमाण उपवासः कथं ग्रहीतव्यः ?
काल्यं ग्राह्योऽन्यतो नीचैः स्थितेनोक्तानुवादिना ।
उपवासः समग्राङ्गो निर्भूषेणानिशाक्षयात् ॥ २८ ॥
काल्यं तावत् सूर्योदयकाले; अहोरात्रिकत्वात् संवरस्य । यस्तु पूर्वकृत-
समादानः, 'नित्यमष्टम्यामुपवेक्ष्यामि' इति, स भुक्त्वापि गृह्णीयात् ।
अन्यतश्च ग्रहीतव्यः, न स्वयमेवापरापेक्षया सत्स्वपि प्रत्ययेष्वनतिक्रमार्थम् ।
नीचैः स्थितेनोत्कुटुकेन वा जानुपातेन वा कपोतकमञ्जलिं कृत्वाऽन्यत्र
स्थास्यात् । अगौरवस्य हि संवरो नोत्पद्यते ।
दातुश्च वचनमनुब्रूवीत । न पूर्वं न युगपत् । एवं ह्यसौ परस्माद् गृहीतो
भवति । अन्यथा हि दानग्रहणं न सिध्येत् ।
समग्राङ्गश्चाष्टाङ्ग एव ग्रहीतव्यः, न विकलाङ्गः ।
निर्भूषेण च । आजस्रिकमभ्यलङ्कारं मुक्त्वा । आजस्रिको ह्यलङ्कारो
नात्यर्थं मदमादधाति ।
अविज्ञप्तिवदसंवरोऽपि नास्ति द्रव्यत इति । यथा 'नास्त्यविज्ञप्तिर्द्रव्यतः'
इति प्रतिपादितम्, तथा असंवरोऽपि न द्रव्यतोऽस्ति । चेतनाव्यतिरिक्त इत्य-
भिप्रायः । पापक्रियाभिसन्धिरिति । पापक्रियाभिप्राय इत्यर्थः । सानुबन्ध इति
सवासन इत्यर्थः । सवासनश्चेतनाविशेषोऽसंवर इत्यर्थः । यतोऽनुबन्धात् तद्द्वा-
संवरवानित्युच्यते । असंवरिक इत्यर्थः । तस्यानिरकृतत्वात् । तस्याभिसन्धेः
सानुबन्धस्यानिरकृतत्वात् । तद्विरुद्धया चेतनयानुपहतत्वादित्यर्थः ॥ २७ ॥
स भुक्त्वापि गृह्णीयादिति । सूर्योदय एव संवर उत्तिष्ठते, समादाननियम-
चित्तस्योत्थापकत्वात् । भुक्त्वा ग्रहणं त्वभिव्यक्त्यर्थम् ।
कपोतकमिति । अङ्गुष्ठरहितस्याङ्गुलिचतुष्कस्येतरहस्ताङ्गुष्ठप्रदेशिन्योरन्त-
रालविन्यासनात् कपोतकः ॥ २८ ॥
१. तद्वानुच्यते—का० ।
निर्देशः ] चतुर्थं कोशस्थानम् ६२३
आगतत्रिपरिक्षयाच्च ग्रहीतव्यः, यावत् पुनः सूर्योदयात् ।
अतोऽन्यथा गृह्णतः सुचरितमात्रं स्यात्, न तूपवाससंवरः । एवं च
कृत्वा औरभ्रिकपारदारिकयो रात्रिदिवसोपवासकयोः साफल्यं प्रयुज्यते ।
अर्हतां समीपे वसन्त्यनेनेति उपवासः; तेषामनुशिक्षणात् ।
यावज्जीविकसंवरसमीपे वसन्त्यनेनेत्यपरे ।
अल्पकुशलमूलानां कुशलमूलपोषणात् पोषध इति वा ।
“पोषं दधाति एनसः कुशलस्य यस्मा-
दुक्तस्ततो भगवता किल पोषधोऽयम्” । ( ) इति ॥ २८ ॥
किमर्थं पुनरष्टाङ्गान्युपादीयन्ते ? यस्मात्
शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम् ।
चत्वार्येकं तथा त्रीणि,
चत्वारि तावच्छीलाङ्गानि यावन्मृषावादविरतिः; प्रकृतिसावद्यविरतित्वात् ।
एकमप्रमादाङ्गं मद्यपानाद् विरतिः । समाप्तशीलोऽपि मद्यपः प्रमाद्येत ।
त्रीणि व्रताङ्गानि यावदकालभोजनाद् विरतिः; संवेगानुगुणत्वात् ॥
किं पुनरेभिरप्रमादाङ्गव्रताङ्गैरनुपात्तैः स्यात् ?
स्मृतिनाशो मदश्च तैः ॥ २९ ॥
मद्यं हि पिबतः कार्याकार्यस्मृतिरेव नश्येत् । उच्चशयनमहाशयननृत्य-
गीतादिकं प्रतिसेवमानस्य मदः सम्भवेत् । मत्तस्य च दौःशील्यमदूरं भवेत् ।
काले पुनर्भुञ्जानस्योचितभक्तकालपरिहारादुपवासस्मृतिः संवेगश्चोपतिष्ठेत् ।
तदभावादुभयं न स्यादिति ।
केचित्तु खल्वकालभोजनात् प्रतिविरतिमेवोपवासं मन्यन्ते । तस्य
शेषाण्यष्टाङ्गानीति । नृत्यगीतवादित्रं गन्धमाल्यविलेपनं च द्वयं कृत्वा ।
एवं तु सति सूत्रपाठो न युज्येत । अकालभोजनाद् विरतिमुक्त्वा
“अनेनाहमष्टमाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे, अनुविधीये” इति ।
शीलं पाराजिकाभावः सङ्घावशेषाद्यभावः । व्रतमिति नियमः । तदभावा-
दिति । अकालभोजनात् । उभयं न स्यादिति । स्मृतिः, संवेगश्च ।
६२४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
कस्तर्हि सोऽन्य उपवासो यस्येमान्यङ्गानि ? समुदायस्यावयवा अङ्गानि ।
यथा रथस्याङ्गानि--चतुरङ्गः, बलकायः, पञ्चाङ्गम्, तूर्यम्; तथाऽष्टाङ्ग उपवासो
द्रष्टव्यः—अकालभोजनात् प्रतिविरतिरूपवासः, उपवासाङ्गं च । यथा सम्यग्दृष्टि-
र्मार्गः, मार्गाङ्गं च धर्मप्रविचयसम्बोध्यङ्गं बोधिर्बोध्यङ्गं समाधिर्ध्यानं ध्यानाङ्गं
चेति वैभाषिकाः । न तु तेषामेव सम्यग्दृष्ट्यादीनां त एवाङ्गत्वाय कल्पन्त
इति । पूर्वकाः सम्यग्दृष्ट्यादय उत्तरेषामङ्गानि यदि स्युः, प्रथमक्षणोत्पन्न आर्य-
मार्गो नाष्टाङ्गः स्यात् ॥ २९ ॥
किं खल्वयमुपवासकस्यैवोपवासः, आहोस्विदन्यस्यापि ?
अन्यस्याप्युपवासोऽस्ति शरणं त्वगतस्य न ।
अनुपवासकोऽपि यस्तमहोरात्रं बुद्धधर्मसङ्घान् शरणं गत्वोपवासं गृह्णाति,
तस्योत्पद्यते उपवाससंवरः, नान्यथा; अन्यत्राज्ञानात् ।
सूत्र उक्तम्—"यतश्च महानामन् गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण
समन्वागतो बुद्धं शरणं गच्छति, धर्मम्, सङ्घं शरणं गच्छति, वाचं च भाषते—
'उपवासकं च मां धारय', इयता उपवासको भवति" ( ) इति ।
तत् किं शरणगमनादेवोपवासको भवति ? भवतीति बहिर्देशकाः ।
न तु तेषामिति । विस्तरेणाचार्यो वैभाषिकमतं युक्त्या विरोधयति । न तु
तेषामेव सम्यग्दृष्ट्यादीनां सम्यग्दृष्टि-धर्मप्रविचयसम्बोध्यङ्ग-समाधीनाम् । त एव
सम्यग्दृष्ट्यादयोऽङ्गत्वाय कल्पन्ते । युज्यन्त इत्यर्थः । कस्माद् ? युक्तिविरोधात् ।
पूर्वकाः सम्यग्दृष्ट्यादयः उत्तरेषां सम्यग्दृष्ट्यादीनामङ्गानि यदि स्युरिति व्यव-
स्थाप्यते । एवमस्यां कल्पनायां प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टाङ्गः स्यात् । न
हि तत्र पूर्वोत्पन्ना सम्यग्दृष्टिरङ्गमस्तीति सप्ताङ्गः स्यात् । बोध्यङ्गेष्वपि पश्चिमः
क्षणो न बोध्यङ्गं स्यात् । न ह्यन्या परेण बोधिरस्ति, यस्यास्तदङ्गं स्यात् ।
अथ मतम्—अनागताया बोधेस्तदङ्गमिति ? अनागतबोधि न स्यात् । एवं
समाधिर्योज्यः ॥ २६ ॥
अन्यत्राज्ञानादिति । दातुर्गृहीतुर्वा विस्मरणाद्, अव्युत्पत्तेश्च । सन्दिग्धस्य
विपन्नाशयस्य वाऽनादरपूर्वकं शरणमवगच्छतः संवरो नोत्पद्यते इति ।
गृहीति उद्देशपदम् । अवदातवसन इति निर्देशपदम् । पुरुष इत्युद्देशपदम् ।
पुरुषेन्द्रियेण समन्वागत इति तन्निर्देशपदम् । यदि न विना संवरेणोपासको
भवति ।
पातं प्रहाय प्राणातिपातात् प्रतिविरमामि’ इति विस्तरेण ॥ ३० ॥Footnotes:१. विरोधः—का० । २. ते—का० ।`
Wait, let's check L21 again:
ख्याते—इतश्चामुत्तश्च vs च्यते—इतश्चामुत्तश्च
Wait, let's look at the letter before ते:
Could it be ख्या?
In Devanagari, ख often has a loop at the top left, going down and up, connected to a vertical line: ख.
When combined with य, ख्य has the ख part connected directly to य.
In च्य, च has a loop, connected to य.
Wait, look at the letter:
Could it be ख्याते? Yes, many OCRs and readers see ख्याते or च्यते.
Wait! Look at प्रत्याख्याते: does प्रत्याख्याते make sense?
Wait, if it's a misprint for प्रत्याख्यायते or प्रत्याचष्टे, what did the typesetter actually set?
Typesetters set metal types.
The glyph is: च्यते or ख्याते.
Wait, look at the top left of the glyph: is there an ascender or loop
३२६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
यदि सर्व एवोपासका उपासकसंवरस्थाः, कथं भगवता एकदेशकारी,
प्रदेशकारी, यद्भूयःकारी, परिपूर्णकारी चोपासक उक्तः ?
तत्पालनात् किल प्रोक्ताः,
यो हि यच्छिक्षापदं पालयति स तत्कारीत्युक्तः । सर्वे तु समं संवरस्थाः ।
इदमुत्सूत्रं वर्तते ?
किमत्रोत्सूत्रम् ? उपासकत्वाभ्युपगमादेव संवरलाभः, यस्मात् प्राणातिपात-
मित्याहेति ?
न ह्येवं सूत्रपाठः उक्तः, यथा महानामसूत्रपाठः¹। तत्रैव चोपासक-
लक्षणापदेशः, नान्यत्र । यत्र त्वेष.पाठः—"यावज्जीवं प्राणापेतं शरणगतमभि-
प्रसन्नम्" इति । ततस्ते² दृष्टसत्याः पुद्गलाः³ "अवेत्यप्रसादान्वयं प्राणैरपि
सद्धर्मोपगमनं दर्शयन्ति स्म । जीवितहेतोरप्यभव्या वयमेनं धर्मं परित्यक्तुम्" इति ।
न त्वेष लक्षणापदेशः⁴ संवरस्य ।
प्राणापेतं तु न क्वचित् पठ्यते । कश्चैतदपरिस्फुटार्थं पठेत् !
एकदेशकारी । य एकं शिक्षापदं रक्षति । प्रदेशकारी । यो द्वे रक्षति । यद्-
भूयस्कारी । यस्त्रीणि चत्वारि वा रक्षति । परिपूर्णकारी । यः पञ्चापि रक्षति ।
स तत्कारीत्युक्त इति । एकदेशकारी, यावत् परिपूर्णकारीत्यर्थः । न ह्येवं सूत्र-
पाठ इति । नह्येवं महानामसूत्रपाठ। यावज्जीवप्राणापेतमिति उक्तः । यथा
महानामसूत्रपाठ इति । "कियता भदन्त उपासको भवति ? यतश्च महानाम
गृही विस्तरेण यावदुपासकं मां धारयेति इयतोपासको भवति" इति । यत्र त्वेष
पाठ इति । यत्र सूत्रान्तरे एष पाठः । यावज्जीवं प्राणापेतं शरणगतमभिप्रस-
न्नामति । ततस्ते दृष्टसत्याः पुद्गला अवेत्य प्रसादान्वयमवेत्य प्रसादहेतुकं प्राणैरपि
जीवितहेतोरपि सद्धर्मोपगमनं दर्शयन्ति स्म । अभव्या वयमेनं धर्मं परित्यक्तुमिति ।
न त्वेष लक्षणापदेशः संवरस्य । न त्वनेन सूत्रेण लक्षणमपदिश्यते इत्यर्थः ।
प्राणापेतं तु न क्वचित् पठ्यत इति । नापि महानामसूत्रे, नापि दृष्टसत्यसूत्रे ।
कश्चैतदपरिस्फुटार्थं पठेदिति । मध्यमपदलोपविकल्पान्न ज्ञायते—किम् प्राणेभ्यो
ऽपेतम्, प्राणैर्वापितं प्राणपेतम्, उताहो प्राणा,पातादिभ्योऽपेतं प्राणापेत-
१. महानामसूत्रे पाठः—का० २. तत्र ते—का० ।
३. का० पुस्तके नास्ति । ४. ०णोपदेश.—का० ।