सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 632, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 632

निर्देशः ] चतुर्थं कोशस्थानम् ६१३
इदं विचार्यते—कः कतमया विज्ञप्त्या, अविज्ञप्त्या वा कियन्तं कालं
समन्वागत इति ? तत्र—
प्रातिमोक्षस्थितो नित्यमत्यागाद् वर्तमानया ।
अविज्ञप्त्यान्वितः,
यः प्रातिमोक्षसंवरस्थः पुद्गल उक्तः, स यावत् तामविज्ञप्तिं न त्यजति
तावत् तया वर्तमानया नित्यं समन्वागतः ।
पूर्वात् क्षणादूर्ध्वमतीतया ॥ १९ ॥
प्रथमात् क्षणादूर्ध्वमतीतयापि समन्वागतः । 'अत्यागात्' इति सर्वत्रा-
धिकृतं वेदितव्यम् ॥ १९ ॥
यथा प्रातिमोक्षसंवरस्थ उक्तः,
तथैवासंवरस्थोऽपि,
असंवरस्थोऽपि यावदसंवरं न त्यजति तावन्नित्यमविज्ञप्त्या वर्तमानया
एव¹ समन्वागतो भवति¹ । क्षणादूर्ध्वमतीतयापि ।
ध्यानसंवरवान् सदा ।
अतीताजातया,
ध्यानसंवरस्य लाभी नित्यमतीतानागतया² अविज्ञप्त्या² समन्वागतः;
भाव इति । द्विस्वभावज्ञापनार्थं द्विग्रहणम्; द्विकर्मनिर्देशेन हि द्वित्वसिद्धिः ।
कथं पुनर्गम्यते—एतावेवंस्वभावाविति ? आगमात् । “अन्यतरा किल देवता
भिक्षुं विषयेष्विन्द्रियाणि विचारयन्तमवोचत्—भिक्षो भिक्षो व्रणं मा
कार्षीरिति ? भिक्षुराह—पिधास्यामि देवते । देवताह—कुम्भमात्रं भिक्षो
व्रणं कृत्वा केन पिधास्यसि ? भिक्षुराह—स्मृत्या देवते पिधास्यामि, सम्प्रजन्येन
वा” ( ) इति ॥ १८ ॥
स यावत्तामविज्ञप्तिं न त्यजतीति । शिक्षानिक्षेपादि ।
“पूर्वात् क्षणादूर्ध्वमतीतया” इति । प्रथमे क्षणे वर्तमानयैव समन्वागतो
भवतीत्युक्तं भवति ॥ १९ ॥
“ध्यानसंवरवान् सदा अतीताजातया” इति । ध्यानसंवरवान् किं पृथग्जनोऽ-
थार्यः ? उभय इत्याह; अविशेषित्वात् । सोऽतीतानागतया अविज्ञप्त्या समन्वागतः।
१. का० पुस्तके नास्ति । · २-२. ०नागताभ्यामविज्ञप्तिभ्या—का० ।