सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 627, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 627

६०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [कर्म-
को नु तासां विशेषः ? निदानविशेषाद् विशेषः ।
कथं कृत्वा ? यथा यथा हि बहुतराणि शिक्षापदानि समादित्सते, तथा
तथा बहुतेरेभ्यो मदप्रमादेभ्यो¹ निवर्तमानो बहुतेरेभ्यः प्राणातिपातादीनां
निदानेभ्यो निवर्तते, विरतीनां च निदानेषु प्रवर्तत इति निदानविशेषाद् विरतीनां
विशेषः। एवं चासति भिक्षुसंवरं प्रत्याचक्षाणस्त्रीनपि संवरान् विजह्याद्, द्वयोरपि
तत्रान्तर्भावात् । न चैतदिष्टम् । तस्मात् पृथगेव ते संवराः ।
ते चाविरोधिनः ॥ १४ ॥
ते च त्रयोऽपि सह वर्तन्ते । नोत्तरसंवरसमादानात् पूर्वकस्य त्यागः ।
मा भूत् भिक्षुसंवरपरित्यागादनुपासक एवेति ॥ १४ ॥
कथं चायमुपासको भवति, कथमुपवासस्थो यावद् भिक्षुः ?
पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् ।
उपासकोपवासस्थश्रमणेद्देशभिक्षुता ॥ १५ ॥
यथासंख्यमनुदेशो वेदितव्यः । पञ्चभ्यो वर्जनीयेभ्यो धर्मेभ्यो विरतिसमा-
पादनादुपासकसंवरस्थो² भवति — प्राणातिपाताद्, अदत्तादानात्, काममिथ्या-
चारात् , मृषावादात् , सुरामैरेयमद्यपानाच्च ।
अष्टाभ्यो विरतिसमादानादुपवासस्थः — प्राणातिपाताद्, अदत्तादानादब्रह्मचर्य-
मृषावादमद्यपानेभ्यः, गन्धमाल्यविलेपननृत्यगीतवादित्राद्, उच्चशयनमहाशयनाद्,
अकालभोजनाच्च ।
दानविरतयः । इत्येवमादि । एवं शेषा इति । नृत्यगीतविरत्यादयः ।
मदप्रमादेभ्य इति । उच्चशयनादिमद्यपानादिभ्यः । बहुतेरेभ्यः प्राणाति-
पातादीनां निदानेभ्य इति । उपासकाच्छ्रामणेरो बहुतेरेभ्यः प्राणातिपातादि-
निदानेभ्यो निवर्तते । तद्यथा — विकालभोजनं प्राणातिपातनिदानं भवेत्,
तस्माच्छ्रामणेरो निवर्तते, नोपासक इत्येवमादि योज्यम् । एवं चासति । एवं
च यदि न स्यादित्यर्थः । भिक्षुसंवरं प्रत्याचक्षाणस्त्यजन् त्रीनपि उपासक-
संवरादीन् विजह्यात् । द्वयोरप्युपासकश्रामणेरसंवरयोस्तत्र भिक्षुसंवरेऽन्त-
र्भावात् ॥ १४ ॥
विरतिसमापादनादिति । विज्ञप्यविज्ञप्तिविरतिरिति वक्ष्यति । समापादना-
१. मदप्रमादपदेभ्यः—का० । २. ०समादानादु०—का० ।