अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 630, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] चतुर्थं कोशस्थानम् ६११
ध्यानजेन तदन्वितः ।
ध्यानाद् ध्याने वा जातो ध्यानजः । यो ध्यानेन समन्वागतः, सोऽवश्यं
ध्यानसंवरेण । सामन्तकम्प्यत्र ध्यानं कृत्वोच्यते । यथा ग्रामसामन्तमपि ग्राम
इत्युच्यते—अस्त्यस्मिन् ग्रामे शालेयं क्षेत्रम्, अस्ति व्रीहेयमिति ।
अनास्रवेणार्यसत्त्वाः,
आर्यपुद्गला अनास्रवेण संवरेण समन्वागताः । ते पुनः शैक्षाशैक्षाः ।
यदुक्तम्—“सहभूहेतावुच्यमाने द्वौ संवरौ चित्तानुवर्तिनौ” ( ) इति ।
कतमौ तौ ? एषामेव त्रयाणाम्
अन्त्यौ चित्तानुवर्तिनौ ॥ १७ ॥
ध्यानसंवरः, अनास्रवसंवरश्च । न प्रातिमोक्षसंवरः । किं कारणम् ? अन्य-
चित्ताचित्तकस्याप्यनुवृत्तेः ।
पुनस्तावेव ध्यानानास्रवसंवरौ प्रहाणसंवराख्यां लभेते ॥ १७ ॥
कस्यामवस्थायाम् ? इत्याह—
अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ ।
अनागम्ये तौ ध्यानानास्रवसंवरौ नवस्वानन्तर्यमार्गेषु 'प्रहाणसंवरौ' इत्यु-
च्येते; ताभ्यां दौःशील्यस्य तत्समुत्थापकानां च क्लेशानां प्रहाणात् ।
एव च तेषां केषाञ्चिन्मोक्ष इति । भवसन्निधितमेव शीलम् । ततोऽस्ति तेषां
समादानशीलम्, न प्रातिमोक्षसंवर इति ।
सामन्तकम्प्यत्र ध्यानं कृत्वोच्यत इति । यस्मात् सामन्तकेऽपि ध्यान-
संवरोऽनास्रवसंवरश्चेष्यते, तस्माद् ध्यानसामन्तकम्प्यत्र ध्यानशब्देनोच्यत
इतीष्यते । अपिशब्दान्मौलमपि गृह्यत एव ।
सहभूहेतावुच्यमान इति । "चैत्ता द्वौ संवरौ तेषाम्" (अभि० को० २.५१)
इत्यत्र । त्रयाणामिति । प्रातिमोक्षसंवरध्यानसंवरानास्रवसंवराणाम् । अन्य-
चित्ताचित्तकस्याप्यनुवृत्तेरिति । "विज्ञप्ताचित्तकस्यापि” (अभि० १.११) इति
वचनात् ॥ १७ ॥
“अनागम्ये” इति ग्रहणं कामावचरस्यैव दौःशील्यस्य प्रतिपक्षत्वात् । आन-
न्तर्यमार्गोष्विति । तेषां प्रहाणमार्गत्वात् । तत्समुत्थापकानामिति । दौःशील्य-
समुत्थापकानाम् ।