अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] चतुर्थं कोशस्थानम् १०१
अचित्तकस्य तर्हि संवरोत्पत्तौ कथं भवति ? स्फुटतरा तर्हि सचित्तकस्य
भवतीति, एतत् तस्य१ सामर्थ्यम् ॥ १० ॥
तत्र च—
प्रवर्तकं दृष्टिहेयं विज्ञानम्,
दर्शनप्रहातव्यं चित्तं विज्ञप्तेः प्रवर्तकम्; तत्समुत्थापकयोर्वितर्कविचारयो-
र्निदानभूतत्वात् । न त्वनुवर्तकम्; बहिर्मुखचित्तस्य क्रियाकाले तदभावात् ।
तत्समुत्थापितं च रूपं दर्शनप्रहातव्यं स्यात् ।
किं स्यात् ? अभिधर्मो बाधितः स्यात् ।
विद्याविद्याभ्यां चाविरोधान्नास्ति रूपं दर्शनप्रहातव्यम् ।
अचित्तकस्य तर्हीति विस्तरः। यदि तत्क्षणसमुत्थानेन विनाऽसौ मृतस्येव
न स्यात् । निरोधसमापत्तिलाभिनः कस्यचिदुपसम्पाद्यमानस्य कायविज्ञप्तिमा-
बध्नतः तत्काल उपस्थितनिरोधसमापत्तित्वादचित्तकस्य संवरोत्पत्तौ कर्मवासना-
वसानकालीनायां तत्संवरात्तर्गता कायविज्ञप्तिः कथं भवति । कथमुत्पद्यते
तत्क्षणसमुत्थानं विनेत्यर्थः । एवं विरोधिते समाध्यन्तरं श्रोयते—स्फुटतरा
तर्हीति । तत्क्षणसमुत्थानेन सचित्तकस्य व्यक्ततरा विज्ञप्तिर्भवतीत्येतत् तस्य
सामर्थ्यम् ॥ १० ॥
प्रवर्तकं दृष्टिहेयमिति । प्रवर्तकमेव दृष्टिहेयमित्यवधार्यते । कथं पुनस्तत्
प्रवर्तकम् ? इत्याह —तत्समुत्थापकयोर्वितर्कविचारयोर्निदानभूतत्वात् । हेतुभूतत्वाद्
विज्ञप्तेः प्रवर्तकमिति । न त्वनुवर्तकमिति विस्तर. । यत्तद् बहिर्मुखं चित्तमनु-
वर्तकम्, तस्य यो विज्ञप्तिक्रियाकालः, तस्मिन् तदभावात् । तस्य दर्शनप्रहात-
व्यस्य प्रवर्तकस्याभावादित्यर्थः । अतस्तन्नानुवर्तकम् । अयं चान्यो दोषः—
तत्समुत्थापितं च रूपमिति विस्तरः । यदि तदनुवर्तकं स्याद्दर्शनप्रहातव्यम्, तेन
दर्शनप्रहातव्येन समुत्थापितं कायवाग्विज्ञप्तिरूपं दर्शनप्रहातव्यं स्यात् । यथा
भावनाप्रहातव्येन चित्तेन समुत्थापितं कायवाक्कर्म भावनाप्रहातव्यमिति ।
किं स्यादिति चोदकः । अभिधर्मो बाधितः स्यादिति वैभाषिकः । “न
दृष्टिहेयमक्लिष्टं न रूपम्” (अभि. को. १ ४०) इति वचनात् ।
किञ्च —विद्याविद्याभ्यां चाविरोधात् । विद्यया दर्शनमार्गेण सत्कार्यदृष्ट्या-
दिवत् तस्य रूपस्याविरोधात् । अप्रहाणादित्यर्थः । दृष्टसत्यानामपि तत्समन्वाग-
तत्वात्तनास्ति रूपं दर्शनप्रहातव्यम् । अविद्यया चाविरोधात् । किञ्च अविद्ययापि
१. का० पुस्तके नास्ति ।
६०२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
साध्य एष पक्षः ।
भूतान्यपि तर्हि दर्शनप्रहातव्यानि स्युः; समानचित्तोत्थापितत्वात् ?
नैवं भविष्यति, यथा न कुशलाकुशलानि भवन्ति । अथ वा पुनर्भवन्तु ।
नैवं शक्यम् । न हि तानि दर्शनप्रहातव्यानि युज्यन्ते, नाप्यप्रहातव्यानि ।
किं कारणम् ? अक्लिष्टस्य धर्मस्य विद्याविद्याभ्यामविरोधात् ।
रूपं न विरुध्यते। न हि क्लिष्टाक्लिष्टरूपसमुदाचारावस्थायां तत्प्राप्तिप्रवाहे
वा सत्यविद्या न भवति । अविद्यायां च सत्यां तन्न भवति । यथा अनास्रवो
मार्गोऽविद्यया विरुध्यते; पृथग्जनावस्थायां तदनुत्पादात् । तदुत्पादे वार्या-
वस्थायां कस्याश्चिदविद्यायाः प्रहाणात् । तदेवमनास्रववदप्रहातव्यमपि न
भवति । न चेदप्रहातव्यम्, नापि दर्शनप्रहातव्यम्, पारिशेष्याद् भावना-
प्रहातव्यमिति सिद्धम् ।
इतर आह—साध्य एष पक्षः—विद्यया रूपं न विरुध्यत इति । यो हि
दर्शनप्रहातव्यं रूपमिच्छति स कथं विद्यया रूपस्याविरोधं ग्रहीष्यति !
वैभाषिक आह—भूतान्यपीति विस्तरः। यदि तद्रूपं दर्शनप्रहातव्यचित्त-
समुत्थापितं दर्शनप्रहातव्यं स्यात् । तदाश्रयभूतान्यपि तर्हि दर्शनप्रहातव्यानि
स्युः। कस्मात् ? समानचित्तोत्थापितत्वात् । येन हि दर्शनप्रहातव्येन चित्तेन
तद्रूपं समुत्थापितम्, तेनैव तदाश्रयभूतान्यपि इति । न च तानि तथा भवितु-
मर्हन्ति; अक्लिष्टाव्याकृतत्वात् । दर्शनप्रहातव्यानां च क्लिष्टत्वात् ।
इतर आह—नैवं भविष्यति । दर्शनप्रहातव्यानि स्युरिति । कथम् ?
इत्याह—यथा न कुशलाकुशलानि भवन्ति । यथा येन चित्तेन कुशलाकुशलेन
कुशलाकुशलं रूपं समुत्थापितं तेनैव तदाश्रयभूतानि समुत्थापितानि । तच्च
कायवाक्कर्मस्वभावं रूपं कुशलाकुशलम्, न तदाश्रयभूतानोति, तद्वत् । स
एव पुनः परावृत्याह—अथवा पुनर्भवन्तु दर्शनप्रहातव्यानीति ।
वैभाषिक आह—नैवं शक्यं भवितुम् । दर्शनप्रहातव्यानीति वाक्यशेषः ।
कस्मात् ? अक्लिष्टस्य धर्मस्य विद्याविद्याभ्यामविरोधात् । न ह्यक्लिष्टो धर्मः
अनिवृताव्याकृतः कुशलसास्रवश्च विद्ययाऽनास्रवेण मार्गेण विरुध्यते । यथा
क्लिष्टा धर्माः प्राप्तिच्छेदाद् विरुध्यन्ते । तदालम्बनक्लेशप्राप्तिच्छेदात्तु विरोधो
न प्रतिषिध्यते। नाप्यविद्यया विरुध्यते । प्राप्तिच्छेदेन तदालम्बनक्लेश-
प्रहातव्येन च । भूतानि चाक्लिष्टानि । तत्र यदुक्तम्—'अथवा पुनर्भवन्तु' इति,
तदयुक्तम् । तदेवमत्र साधनमुत्तिष्ठते—"न दर्शनप्रहातव्यानि क्लिष्टरूपाश्रय-
महाभूतानि; अक्लिष्टत्वादक्लिष्टचित्तचैत्तधर्मवत्" इति ।
निर्देशः ] चतुर्थं कोशस्थानम् ६०३
अतो हेतुसमुत्थानमधिकृत्य सूत्रे पठनान्नास्ति विरोधः ।
उभयं पुनः ।
मानसं भावनाहेयम्,
भावनाहेयं पुनर्मनोविज्ञानमुभयं भवति—प्रवर्तकं च, अनुवर्तकं च ।
पञ्चकं त्वनुवर्तकम् ॥ ११ ॥
पञ्च विज्ञानकाया अनुवर्तका एव । तदिदं चतुष्कोटिकं भवति—प्रवर्तक-
मेव दर्शनप्रहातव्यं चित्तम्, अनुवर्तका एव पञ्च विज्ञानकायाः, उभयं भावनाहेयं
मनोविज्ञानम्, नोभयमनास्रवम् ॥ ११ ॥
किं खलु यथा प्रवर्तकं तथैवानुवर्तकं भवति ? नेदमेकान्तम्¹ ।
प्रवर्तके शुभादौ हि स्यात् त्रिधाप्यनुवर्तकम् ।
कुशले प्रवर्तके कुशलाकुशलाव्याकृतमनुवर्तकं स्यात् । एवमकुशले
च, अव्याकृते च ।
तुल्यं मुनेः,
बुद्धस्य तु भगवतस्तुल्यं प्रवर्तकेनानुवर्तकम्—कुशले कुशलम्, अव्याकृते
चाव्याकृतम् ।
शुभं यावत्,
कुशलं वा भवत्यनुवर्तकमव्याकृतेऽपि प्रवर्तके । न तु कदाचित् कुशलं
प्रवर्तकमनुवर्तकं चाव्याकृतं भवति । अम्लायमाना² हि बुद्धानां देशनेति ।
तदेवं वैभाषिकः प्रवर्तकं दृष्टेहेयं विज्ञानमिति सचोद्यपरिहारं प्रतिष्ठाप्य
निगमयति—अतो हेतुत्थानानेति विस्तरः । यदुक्तम्—'मिथ्यादृष्टेर्मिथ्यासंकल्पो
यावन्मिथ्याकर्मान्तः' इति, तस्य सूत्रस्य न विरोधो भवतीति ।
प्रवर्तकं चानुवर्तकं चेति । अन्तर्बहिर्मुखप्रवृत्तत्वात् ।
“पञ्चकं त्वनुवर्तकम्” इति । अवधारणमविकल्पकत्वात् ।
नोभयमनास्रवमिति । न प्रवर्तकम्, नाप्यनुवर्तकम्; समाहितान्तर्मुखप्रवृत्त-
त्वात् ॥ ११ ॥
अम्लायमानेति । अहीयमाना । शानच्प्रत्ययान्तश्चायं शब्दः ।
१. नायमेका०—का० । २. आम्नायमाना—का० ।
अभि० को० २ : १५
नास्ति बुद्धानामव्याकृतं चित्तमिति निकायान्तरीयाः। कुशलैकसन्ताना¹ हि
बुद्धानां सन्ततयः, नित्यं समाहितत्वात्। उक्तं हि सूत्रे—
“चरन् समाहितो नागस्तिष्ठन्नागः समाहितः।
स्वपन् समाहितो नागो निष्षण्णोऽपि समाहितः”॥ ( ) इति।
अनिच्छयास्य चित्तस्याविसरणादेवमुक्तम्, न तु न सन्त्यव्याकृतानि
विपाकजौर्यापथिकनिर्माणचित्तानि बुद्धानामिति वैभाषिकाः। मानसं भावनाहेयं
प्रवर्त्तकं चानुवर्तकं चेत्युक्तम्, तत् कुशलाकुशलाव्याकृतं सर्वं वेदितव्यम्।
नोभयं तु विपाकजम् ॥ १२ ॥
विपाकजं तु चित्तं नैव प्रवर्त्तकं नानुवर्तकम्; निरभिसंस्कारवाहित्वात्।
किमिदानीं यथा प्रवर्त्तकं तथा विज्ञप्तिः, आहोस्वित् यथा अनुवर्तकम् ? किं
चातः ? यथा प्रवर्त्तकं चेत, इहापि निवृताव्याकृता विज्ञप्तिः प्राप्नोति;
सत्कायान्तग्राहदृष्टिप्रवर्तितत्वात् ?
न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकमिति विशेषणं वक्तव्यम्। यथानुवर्तकं
कुशलैकसन्ताना इति। कुशलैकप्रबन्धा इत्यर्थः। “बुद्धो भगवान् नागः”
इत्युक्तं सूत्रे। कथम् ? “तथागत उदायिन् सदेवके लोके समारके” इति
विस्तरेणोक्त्वाह—“आगो न करोति कायेन वाचा मनसा, तस्मान्नाग इत्यु-
च्यते” इति। आगो न करोतीति, अपराधं न करोतीत्यर्थः।
अनिच्छयास्येति। अनिच्छयास्य बुद्धस्य चित्तस्याविसरणाद् विषयेष्व-
गमनादेवमुक्तम्।
चरन्² समाहितो नाग इति विस्तरः। चतुर्ष्वीर्यापथेषु चरन् चरामीति,
यावत् निषीदन्निषीदामीति उपस्थितस्मृतित्वान्नित्यसमाहितः स उच्यते।
निरभिसंस्कारवाहित्वादिति। अभावो हि संस्कारस्य = प्रयत्नस्य निरभि-
संस्कारम्, निरभिसंस्कारं वहतीति निरभिसंस्कारवाही, तद्भावस्तस्मात्
इति।
न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकमिति। स्यादेतदेवम्, यदि सर्वं दर्शनप्रहा-
तव्यं प्रवर्त्तकमिष्येत, न तु सर्वम्। किं तर्हि ? मिथ्यादृष्ट्यादिकमेव प्रवर्तकं
विज्ञप्तेः, न सत्कायदृष्ट्यादिकम् ? इत्यत आह—न वा सर्वमिति विशेषणं
१. कुशलैकताना—का०; जा०। २. चरण—मुद्रितः पाठः।
निर्देशः ] चतुर्थं कोशस्थानम् ६०५
चेत्, अकुशलाव्याकृतचित्तस्य प्रातिमोक्षविज्ञप्तिः कुशला न प्राप्नोति ? यथा
प्रवर्तकं तथा विज्ञप्तिः, न तु यथा दर्शनप्रहातव्यम्; भावनाहेयान्तरितत्वात् ।
यदि नानुवर्तकवशाद्विज्ञप्तेःकुशलादित्वम्, न तर्हीदं वक्तव्यम्—'हेतुसमु-
त्थानं सन्धायोक्तं सूत्रे, न तत्क्षणसमुत्थानम्। अतो नास्तीह निवृताव्याकृता
विज्ञप्तिः' इति। एवं तु¹ वक्तव्यम्—'अन्यव्यवहितं हेतुसमुत्थानं सन्धायोक्तम्'
इति। अवसितः प्रसङ्गः ॥ १२ ॥
सा तु पूर्वोक्ता
अविज्ञप्तिस्त्रिधा ज्ञेया संवरासंवरेतरा ।
संवरश्च, असंवरश्च, ताभ्यां चेतरो नैवसंवरो नासंवरः । दौःशील्यप्रसरस्य
संवरणं संरोधः = संवरः। तत्र पुनः—
संवरः प्रातिमोक्षाख्यो ध्यानजोऽनास्रवस्तथा ॥ १३ ॥
त्रिविधः संवरः—१. प्रातिमोक्षसंवर इत्युत्यानां कामावचरं शीलम्।
२. ध्यानसंवरो रूपावचरं शीलम्। ३. अनास्रवसंवरोऽनास्रवं शीलम् ॥१३॥
वक्तव्यम्—ईदृशं प्रवर्तकमीदृशं नेति। अकुशलाव्याकृतचित्तस्येति। उपसम्पाद्य-
मानस्य केनचिद् योगेनाकुशलाव्याकृतचित्तस्य। प्रातिमोक्षसंवरविज्ञप्तिरञ्जल्या-
दिका कुशला न प्राप्नोति । तदनुवर्तकचित्तमकुशलाव्याकृतमिति कृत्वा।
यथा प्रवर्तकमिति विस्तरः। यथा प्रवर्तकं चित्तं भावनाप्रहातव्यम्। तथा
विज्ञप्तिर्व्यवस्थाप्यते। न तु यथा दर्शनप्रहातव्यं प्रवर्तकं तथा व्यवस्थाप्यते ।
कस्मात् ? भावनाहेयेनान्तरितत्वात्। तस्मात् तत्प्रवर्तकं दर्शनप्रहातव्यं भावना-
हेयेन प्रवर्तकेनान्तरितम्। कथं कृत्वा ? तद्यथा—'अस्त्यात्मेति मया परेषां
गमयितव्यम्' इति पूर्वमेवावधार्य ततो वाक्समुत्पादकेन चित्तेन बहिर्मुखप्रवृत्तेन
भावनाप्रहातव्येन सवितर्केण सविचारेण वाचं भाषते 'अस्त्यात्मा' इत्येवमादि।
अतो यथाप्रवर्तकमिति विस्तरः। तदेवमवश्यं दर्शनप्रहातव्यस्य प्रवर्तकस्या-
नन्तरं प्रवर्तकमेव भावनाप्रहातव्यं कुशलमकुशलमव्याकृतं चोत्पद्यते, तद्वशाच्च
विज्ञप्तेः कुशलादित्वमिति ।
एवं तु वक्तव्यमिति विस्तरः । एवं तु वक्तव्यमन्यव्यवहितं भावनाहेयव्यव-
हितं हेतुसमुत्थानं सन्धायोक्तमिति । परम्पराहेतुसमुत्थानं सन्धायेत्यर्थः ॥ १२ ॥
“अविज्ञप्तिस्त्रिधा” इति विस्तरः। त्रिविधेत्युद्दिश्य “संवरासंवरेतरा” इति ।
१. का० पुस्तके नास्ति ।
६०६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
तत्र पुनः—
अष्टधा प्रातिमोक्षाख्यः,
१. भिक्षुसंवरः, २. भिक्षुणीसंवरः, ३. शिक्षमाणासंवरः, ४. श्रामणेर-
संवरः, ५. श्रामणेरीसंवरः, ६. उपासकसंवरः, ७. उपासिकासंवरः, ८. उप-
वाससंवरश्च—एषोऽष्टविधसंवरः प्रातिमोक्षसंवर इत्याख्यायते ।
नामत एषोऽष्टविधः,
द्रव्यतस्तु चतुर्विधः ।
१. भिक्षुसंवरः, २. श्रामणेरसंवरः, ३. उपासकसंवरः, ४. उपवास-
संवरश्च—इत्येष चतुर्विधः प्रातिमोक्षसंवरस्तु द्रव्यतः; प्रतिनियतलक्षणत्वात् ।
भिक्षुसंवराद् भिक्षुणीसंवरो नान्यः, श्रामणेरसंवराच्च शिक्षमाणा-श्रामणेरीसंवरौ ।
उपासकसंवरादुपासिकासंवरो नान्यः ।
कथं ज्ञायते ?
लिङ्गतो नामसञ्चारात्,
लिङ्गमिति व्यञ्जनस्याख्या, येन स्त्रीपुरुषौ लिङ्ग्येते । लिङ्गतो हि भिक्षु-
भिक्षुण्यादीनां नामसञ्चारो भवति । कथं कृत्वा ? परिवृत्ते हि व्यञ्जने
भिक्षुर्भिक्षुणीत्युच्यते, भिक्षुणी च पुनर्भिक्षुः । श्रामणेरः श्रामणेरीत्युच्यते,
श्रामणेरी च पुनः शिक्षमाणा च श्रामणेरः । उपासक उपासिकेत्युच्यते, उपा-
विवृणोति—संवरश्च सः असंवरश्च सः संवरासंवरः, संवरासंवरश्च स इतरा
च सा संवरासंवरेतरेति समासः ॥ १३ ॥
प्रतिनियतलक्षणत्वादिति । भिक्षुसंवरस्यान्यल्लक्षणम्, एवं यावदुपवास-
संवरस्यान्यल्लक्षणम् । तथा हि वक्ष्यति—
“पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् ।
( अभि० को० ४.१५ )
इति अष्टविधत्वे तु साङ्कर्यसम्भवः । ये एव हि भिक्षुसंवरः स एव भिक्षुणीसंवर
इत्येवमादि ।
श्रामणेरी च पुनः शिक्षमाणा चेति । श्रामणेरी परिवृत्तव्यञ्जना श्रामणेरो
भवति । शिक्षमाणा चापि परिवृत्तव्यञ्जना श्रामणेर एव भवति । किमेवं
निर्देशः ] चतुर्थं कोशस्थानम् ६०७
सिका च पुनरुपासक इति । न च व्यञ्जनपरिवृत्तौ पूर्वसंवरत्यागकारणमस्ति १,
नाप्यपूर्वसंवरप्रतिलम्भे । तस्मादभिन्न एषां चतुर्णां संवराणा त्रिभ्यः स्वभावः ।
य उपासकसंवरान्छ्रामणेरसंवरं समादत्ते तस्माच्च पुनर्धिक्षुसंवरम्, किं ते
संवरा विरतिवृद्धियोगादन्योन्य उच्यन्ते, पञ्च-दश-विंशतिवत्, दीनारसतेरवच्च २ ?
आहोस्वित् पृथगेव ते सकला उपजायन्ते ३ ? आह—
पृथक्,
अस्यामिश्रा एव ते पृथग्लक्षणा उपजायन्ते । त्रिषु संवरेषु तिस्रः प्राणा-
तिपातविरतयो यावन्मद्यपानविरतयः । एवं शेषाः ।
नेष्यते, परिवृत्तव्यञ्जनो भिक्षुर्भिक्षुसंवरं च त्यजति भिक्षुणीसंवरं च प्रति-
लभते ? इत्यत आह—न च व्यञ्जनपरिवृत्ताविति विस्तरः । न भिक्षुभिक्षुणी-
व्यञ्जनप्रादुर्भावे पूर्वसंवरत्यागकारणमस्ति ।
प्रातिमोक्षदमत्यागशिक्षानिक्षेपणाच्च्युतेः ।
उभयव्यञ्जनोत्पत्तेर्मूलोच्छेदान्निशात्ययात् ॥ (अभि० को० ४.३८ )
इत्यत्र यत् कारणमुक्तम्। नाप्यपूर्वसंवरप्रतिलम्भे । कारणमस्तीति वर्तते ।
यदुक्तम्-प्रातिमोक्षाख्यः परविज्ञानादिभिरिति । अतो विज्ञायते—न भिक्षु-
संवरादन्यो भिक्षुणीसंवर इति । एवं श्रामणेरादीनामपि वक्तव्यम् । तस्मा-
दभिन्नोऽनन्यश्चतुर्णां भिक्षुणीशिक्षमाणाश्रामणेर्युपासिकासंवराणां त्रिभ्यो भिक्षु-
श्रामणेरोपासकसंवरेभ्यः स्वभावः ।
किं ते संवरा इति विस्तरः । यथा पञ्चसंख्यायामन्यानि पञ्च प्रक्षिप्य
पञ्चवृद्धियोगाद् दश भवन्ति । पञ्चदशसंख्यायां चान्यानि पञ्च प्रक्षिप्य च
विंशतिर्भवन्ति । दीनारसतेरवच्च । यथा पूर्वको दीनारो द्वितीयेन सह सतेरो
भवति । तथा हि लोके एकदीनारमूल्येन द्वितीयं दीनारं दीनारमूल्यं वा तेन
पूर्वकेन दीनारमूल्येन सहाधिकमपेक्ष्य कश्चिद् वक्ता भवेत् — दीनारसतेरं
मया लब्ध इति । दीनारद्वयं मया लब्धमित्यर्थः । किमेवमेतदुपासकश्रामणे-
भिक्षुसंवरा विरतिवृद्धियोगात् प्राणातिपातादिविरतिषु तथैवावस्थितासु पु०-
र्नृत्यगीतविरत्यादीनां पूर्वासां विरतीनां वृद्धियोगादन्योन्य उच्यन्ते । अन्य
उपासकसंवरान्छ्रामणेरसंवरः, श्रामणेरसंवराच्चान्ये भिक्षुसंवर इति एकदेश-
विशेषयोगादन्योन्यव्यवस्थेत्यर्थः । आहोस्वित् पृथगेव ते सकला उपजायन्ते ।
अन्याः प्राणातिपातादिविरतय उपासकस्य, ततोऽन्याः श्रामणेरस्य, ततोऽन्याश्च
भिक्षोः—इत्येकस्मिन् भिक्षुसन्ताने तिस्रः प्राणातिपातादिविरतयः । एवमदत्ता-
१. ०त्यागे०—का० । २. ०शतेर०—का० । ३. जायन्ते—का० ।
६०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [कर्म-
को नु तासां विशेषः ? निदानविशेषाद् विशेषः ।
कथं कृत्वा ? यथा यथा हि बहुतराणि शिक्षापदानि समादित्सते, तथा
तथा बहुतेरेभ्यो मदप्रमादेभ्यो¹ निवर्तमानो बहुतेरेभ्यः प्राणातिपातादीनां
निदानेभ्यो निवर्तते, विरतीनां च निदानेषु प्रवर्तत इति निदानविशेषाद् विरतीनां
विशेषः। एवं चासति भिक्षुसंवरं प्रत्याचक्षाणस्त्रीनपि संवरान् विजह्याद्, द्वयोरपि
तत्रान्तर्भावात् । न चैतदिष्टम् । तस्मात् पृथगेव ते संवराः ।
ते चाविरोधिनः ॥ १४ ॥
ते च त्रयोऽपि सह वर्तन्ते । नोत्तरसंवरसमादानात् पूर्वकस्य त्यागः ।
मा भूत् भिक्षुसंवरपरित्यागादनुपासक एवेति ॥ १४ ॥
कथं चायमुपासको भवति, कथमुपवासस्थो यावद् भिक्षुः ?
पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् ।
उपासकोपवासस्थश्रमणेद्देशभिक्षुता ॥ १५ ॥
यथासंख्यमनुदेशो वेदितव्यः । पञ्चभ्यो वर्जनीयेभ्यो धर्मेभ्यो विरतिसमा-
पादनादुपासकसंवरस्थो² भवति — प्राणातिपाताद्, अदत्तादानात्, काममिथ्या-
चारात् , मृषावादात् , सुरामैरेयमद्यपानाच्च ।
अष्टाभ्यो विरतिसमादानादुपवासस्थः — प्राणातिपाताद्, अदत्तादानादब्रह्मचर्य-
मृषावादमद्यपानेभ्यः, गन्धमाल्यविलेपननृत्यगीतवादित्राद्, उच्चशयनमहाशयनाद्,
अकालभोजनाच्च ।
दानविरतयः । इत्येवमादि । एवं शेषा इति । नृत्यगीतविरत्यादयः ।
मदप्रमादेभ्य इति । उच्चशयनादिमद्यपानादिभ्यः । बहुतेरेभ्यः प्राणाति-
पातादीनां निदानेभ्य इति । उपासकाच्छ्रामणेरो बहुतेरेभ्यः प्राणातिपातादि-
निदानेभ्यो निवर्तते । तद्यथा — विकालभोजनं प्राणातिपातनिदानं भवेत्,
तस्माच्छ्रामणेरो निवर्तते, नोपासक इत्येवमादि योज्यम् । एवं चासति । एवं
च यदि न स्यादित्यर्थः । भिक्षुसंवरं प्रत्याचक्षाणस्त्यजन् त्रीनपि उपासक-
संवरादीन् विजह्यात् । द्वयोरप्युपासकश्रामणेरसंवरयोस्तत्र भिक्षुसंवरेऽन्त-
र्भावात् ॥ १४ ॥
विरतिसमापादनादिति । विज्ञप्यविज्ञप्तिविरतिरिति वक्ष्यति । समापादना-
१. मदप्रमादपदेभ्यः—का० । २. ०समादानादु०—का० ।
. निर्देश: ] चतुर्थं कोशस्थानम् १०'
दशभ्यो विरतिसमादानाच्छ्रामणेरो भवति—एभ्य एव, जातरूपरजतप्रति-
ग्रहाच्च । नृत्यगीतवादित्रगन्धमाल्यविलेपनं चात्र द्वयीकृत्य दश भवन्ति ।
सर्वेभ्य एव वर्जनीयेभ्यः कायवाक्कर्मभ्यः विरतिसमादानात् भिक्षुरित्यु-
च्यते ॥ १५ ॥
स एष प्रातिमोक्षसंवरः—
शीलं सुचरितं कर्म संवरश्चोच्यते,
विषमकर्मणां विरतिसमादानाच्छीलम्; शीतलत्वादिति निरुक्तिः । "सुख-
शीलसमादानं कायो न परिदह्यते" ( ) इति गाथावचनात् ।
विद्वत्प्रशस्तत्वात् सुचरितम् । क्रियास्वभावत्वात् कर्म ।
ननु चाविज्ञप्तिरक्रियेत्युच्यते, सा कथं क्रिया भवति, न कुर्वन्ति तया
समाच्या लज्जिनः पापमित्यक्रियेत्युच्यते ?
सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति क्रिया भवति ।
क्रियाहेतुत्वात्, क्रियाफलत्वाच्चेत्यपरे । संवर इति कायवाचोः
संवरणात् ।
एवं तावदविशेषेण प्रातिमोक्षसंवरः संशब्द्यते ।
पुनः ।
दिति । प्रतिसंस्थापनमादित्यर्थः । पापकर्मणो हि सत्त्वेषु विषमं सम्प्रवर्तते ॥१५॥
सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति । विज्ञप्त्या च क्रियते प्रातिमोक्षसंवर-
संगृहीता अविज्ञप्तिः, चित्तेन च क्रियते ध्यानानास्रवसंवरसंगृहीता अविज्ञप्तिः ।
समाधिना क्रियत इत्यर्थः । तदेवं क्रियत इति क्रियेति कर्मसाधनम् ।
क्रियाहेतुत्वादिति । क्रियाया हेतुत्वात् । संवरस्थो हि संवरपरिरक्षणार्थं
क्रियां विज्ञप्तिलक्षणामारभते । क्रियाफलत्वाच्चेति । विज्ञप्तिलक्षणायाः
क्रियायाः फलत्वादित्यर्थः । समाधिसम्भूता कथं क्रिया भवति ? समाधिजाया-
श्चेतनायाः फलत्वात् सापि क्रिया । प्रतिमोक्षसंवराधिकारद्वा । न तत्र चिन्ता १ ।
३ एवं तावद् अविशेषेण प्रातिमोक्षसंवरः संशब्द्यत इति । आद्योऽपि क्षणो
द्वितीयादयोऽपि च क्षणाः प्रातिमोक्षसंवर इत्युच्यते ।
१. चित्ता—इति मुद्रितः पाठः ।
६१० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
आद्ये विज्ञप्त्यविज्ञप्ती प्रातिमोक्षक्रियापथः ॥ १६ ॥
संवरसमादानस्य प्रथमे विज्ञप्त्यविज्ञप्ती प्रातिमोक्ष इत्युच्यते; पापस्य
तेन प्रातिमोक्षणाद् । उत्सर्जनादित्यर्थः । स्वार्थे वृद्धिविधानाद् वैकृत-वैशसवत् ।
प्रातिमोक्षसंवर इत्यपि कायवाक्संवरणात् कर्मपथ इत्युच्यते; मौलसंगृ-
हीतत्वात् ।
द्वितीयादिषु क्षणेषु प्रातिमोक्षसंवर एव, न प्रातिमोक्षः । पृष्ठं च न मौल-
कर्मपथः ॥ १६ ॥
अथैषां संवराणां केन कः समन्वगतः ?
प्रातिमोक्षान्विता अष्टौ,
प्रातिमोक्षसंवरेणाष्टौ निकायाः समन्वागताः—भिक्षुः, भिक्षुणी यावदुप-
वासस्थोऽष्टमः ।
किं खलु बाह्यकानां समादानशीलं नास्ति ? अस्ति, न तु प्रातिमोक्षसंवरः ।
किं कारणम् ? नहि तदत्यन्तं पापस्य प्रतिमोक्षणाय संवर्तते; भवसन्निश्श्रितत्वात् ।
प्रातिमोक्षस्वभावस्त्वाद्यक्षण एव। तदर्थमाह—पुनः आद्ये विज्ञप्त्यविज्ञप्ती
प्रातिमोक्ष इत्युच्यते। पापस्य तेन प्रतिमोक्षणादिति। प्रथमेनैव क्षणेन पापं
प्रतिमोक्ष्यते = उत्सृज्यते। त्यज्यते इत्यर्थः। प्रतिमोक्ष इति प्राप्ते प्रातिमोक्ष
इति वचनं स्वार्थे वृद्धिविधानात्। स्वार्थे प्रत्यये कृते वृद्धिकरणादित्यर्थः।
वैकृतवैशसवत्। यथा विकृतमेव वैकृतम्, विशसमेव मारणं वैशसम्। एवं
प्रतिमोक्ष एव प्रतिमोक्ष इति।
प्रातिमोक्षसंवर इत्यपीति। प्रातिमोक्षश्चासौ संवरश्च। कायवाचोः संवरणार्थ
इत्यर्थः। कर्मपथ इत्यप्युच्यत इति। मौलः कर्मपथ इत्यर्थः। द्वितीयादिषु
प्रातिमोक्षसंवर एव। प्रातिमोक्षजातीयः, प्रातिमोक्षाद्वा जातः संवरः प्राति-
मोक्षसंवरः। न प्रातिमोक्षः। यस्मात् न तेन पापं प्रतिमोक्ष्यते, प्रथमक्षण
एव प्रतिमोक्षितत्वात् ॥ १६ ॥
अष्टावेव निकाया इत्यवधारणे पृच्छति—किं खलु बाह्यकानामिति विस्तरः।
समादानशीलमिति विशेषणं शीलद्वैध्यात्। द्विविधं हि शीलम्—समादान-
शीलम्, धर्मताप्रातिलम्भिकं च। तत्र समादानशीलं यद् गृह्यते। इदं चेदं च न
करिष्यामीति। धर्मताप्रातिलम्भिकम्—ध्यानसंवरः, अनास्रवसंवरश्च। भव-
सन्निश्श्रितत्वादिति। मोक्षार्थिनामपि तेषां मिथ्यादृष्ट्याद्युपहतत्वात्। भवविशेष
निर्देशः ] चतुर्थं कोशस्थानम् ६११
ध्यानजेन तदन्वितः ।
ध्यानाद् ध्याने वा जातो ध्यानजः । यो ध्यानेन समन्वागतः, सोऽवश्यं
ध्यानसंवरेण । सामन्तकम्प्यत्र ध्यानं कृत्वोच्यते । यथा ग्रामसामन्तमपि ग्राम
इत्युच्यते—अस्त्यस्मिन् ग्रामे शालेयं क्षेत्रम्, अस्ति व्रीहेयमिति ।
अनास्रवेणार्यसत्त्वाः,
आर्यपुद्गला अनास्रवेण संवरेण समन्वागताः । ते पुनः शैक्षाशैक्षाः ।
यदुक्तम्—“सहभूहेतावुच्यमाने द्वौ संवरौ चित्तानुवर्तिनौ” ( ) इति ।
कतमौ तौ ? एषामेव त्रयाणाम्
अन्त्यौ चित्तानुवर्तिनौ ॥ १७ ॥
ध्यानसंवरः, अनास्रवसंवरश्च । न प्रातिमोक्षसंवरः । किं कारणम् ? अन्य-
चित्ताचित्तकस्याप्यनुवृत्तेः ।
पुनस्तावेव ध्यानानास्रवसंवरौ प्रहाणसंवराख्यां लभेते ॥ १७ ॥
कस्यामवस्थायाम् ? इत्याह—
अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ ।
अनागम्ये तौ ध्यानानास्रवसंवरौ नवस्वानन्तर्यमार्गेषु 'प्रहाणसंवरौ' इत्यु-
च्येते; ताभ्यां दौःशील्यस्य तत्समुत्थापकानां च क्लेशानां प्रहाणात् ।
एव च तेषां केषाञ्चिन्मोक्ष इति । भवसन्निधितमेव शीलम् । ततोऽस्ति तेषां
समादानशीलम्, न प्रातिमोक्षसंवर इति ।
सामन्तकम्प्यत्र ध्यानं कृत्वोच्यत इति । यस्मात् सामन्तकेऽपि ध्यान-
संवरोऽनास्रवसंवरश्चेष्यते, तस्माद् ध्यानसामन्तकम्प्यत्र ध्यानशब्देनोच्यत
इतीष्यते । अपिशब्दान्मौलमपि गृह्यत एव ।
सहभूहेतावुच्यमान इति । "चैत्ता द्वौ संवरौ तेषाम्" (अभि० को० २.५१)
इत्यत्र । त्रयाणामिति । प्रातिमोक्षसंवरध्यानसंवरानास्रवसंवराणाम् । अन्य-
चित्ताचित्तकस्याप्यनुवृत्तेरिति । "विज्ञप्ताचित्तकस्यापि” (अभि० १.११) इति
वचनात् ॥ १७ ॥
“अनागम्ये” इति ग्रहणं कामावचरस्यैव दौःशील्यस्य प्रतिपक्षत्वात् । आन-
न्तर्यमार्गोष्विति । तेषां प्रहाणमार्गत्वात् । तत्समुत्थापकानामिति । दौःशील्य-
समुत्थापकानाम् ।
६१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
अत एव 'स्याद्ध्यानसंवरो न प्रहाणसंवरः' इति चतुष्कोटिकं क्रियते—
प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्यः सास्स्रवो ध्यानसंवरः, द्वितीया अनागम्या-
नन्तर्यमार्गेष्वनास्रवः, तृतीया अनागम्यानन्तर्यमार्गेषु सास्स्रवः, चतुर्थी अना-
गम्यानन्तर्यमार्गवर्ज्योऽनास्रवसंवरः ।
एवं 'स्यादनास्रवसंवरो न प्रहाणसंवरः' इति चतुष्कोटिकं यथायोगं
वेदितव्यम् ।
यत्तर्हि भगवतोक्तम्—
“कायेन संवरः साधु साधु वाचाथ संवरः ।
मनसा संवरः साधु साधु सर्वत्र संवरः ॥” ( ) इति,
यच्चोक्तम्—“चक्षुरिन्द्रियेण संवरसंवृतो विहरति” ( ) इति,
एतौ मनइन्द्रियसंवरौ किंस्वभावौ ? नैतावविज्ञप्तिशीलस्वभावौ । किं तर्हि ?
सम्प्रजानस्मृती द्वे तु मनइन्द्रियसंवरौ ॥ १८ ॥
प्रत्येकं द्विस्वभावज्ञापनाथं पुनर्द्विग्रहणम्, मा यथासंख्यं विज्ञायीति; मनः-
संवरोऽपि स्मृतिसम्प्रज्ञानस्वभाव इति । इन्द्रियसंवरोऽपि ॥ १८ ॥
अतएवेति । यस्मादनागम्यानन्तर्यमार्गेष्वेव तद्व्यवस्थानम् । तस्माच्चतुः-
कोटिकं क्रियते । प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्यो ध्यानसंवरः । अनागम्य-
भूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु मौलप्रथमध्यानादिषु वा चतुर्थाद् ध्याना-
दानन्तर्यविमुक्तिप्रयोगविशेषमार्गेषु यो ध्यानसंवरः । अयं ध्यानसंवरः, न
प्रहाणसंवरः; तेन दौःशील्यस्य तत्समुत्थापकानां च क्लेशानामप्रहाणात् ।
द्वितीया—अनागम्यानन्तर्यमार्गेष्वनास्रवसंवरः । अयं प्रहाणसंवरः; तेनैव दौःशी-
ल्यादिप्रहाणात् । न ध्यानसंवरः; अनास्रवत्वात् । तृतीया—अनागम्यानन्तर्य-
मार्गेषु सास्स्रवसंवरः । अयं प्रहाणसंवरश्च; तेन दौःशील्यादिप्रहाणात् । ध्यान-
संवरश्च; सास्स्रवसमाधिजत्वात् । चतुर्थी—अनागम्यानन्तर्यमार्गवर्ज्योऽनास्रव-
संवरः । अयं न ध्यानसंवरः; आस्रवत्वात् । नापि प्रहाणसंवरस्तेन दौःशील्याद्य-
प्रहाणात् । स पुनस्तथैवानागम्यभूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु विस्तरेण
योज्योऽनास्रवसंवरः । संवरनियमेनैवमुक्तम् । अन्यथाप्यन्ये धर्मा वक्तव्याः स्युः ।
एवं स्यादनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकम् । प्रथमा कोटि-
रनागम्यानन्तर्यमार्गवर्ज्योऽनास्रवसंवरः ।
मनःसंवरोऽपि स्मृतिसम्प्रज्ञानस्वभावः । इन्द्रियसंवरोऽपि स्मृतिसम्प्रज्ञानस्व-
निर्देशः ] चतुर्थं कोशस्थानम् ६१३
इदं विचार्यते—कः कतमया विज्ञप्त्या, अविज्ञप्त्या वा कियन्तं कालं
समन्वागत इति ? तत्र—
प्रातिमोक्षस्थितो नित्यमत्यागाद् वर्तमानया ।
अविज्ञप्त्यान्वितः,
यः प्रातिमोक्षसंवरस्थः पुद्गल उक्तः, स यावत् तामविज्ञप्तिं न त्यजति
तावत् तया वर्तमानया नित्यं समन्वागतः ।
पूर्वात् क्षणादूर्ध्वमतीतया ॥ १९ ॥
प्रथमात् क्षणादूर्ध्वमतीतयापि समन्वागतः । 'अत्यागात्' इति सर्वत्रा-
धिकृतं वेदितव्यम् ॥ १९ ॥
यथा प्रातिमोक्षसंवरस्थ उक्तः,
तथैवासंवरस्थोऽपि,
असंवरस्थोऽपि यावदसंवरं न त्यजति तावन्नित्यमविज्ञप्त्या वर्तमानया
एव¹ समन्वागतो भवति¹ । क्षणादूर्ध्वमतीतयापि ।
ध्यानसंवरवान् सदा ।
अतीताजातया,
ध्यानसंवरस्य लाभी नित्यमतीतानागतया² अविज्ञप्त्या² समन्वागतः;
भाव इति । द्विस्वभावज्ञापनार्थं द्विग्रहणम्; द्विकर्मनिर्देशेन हि द्वित्वसिद्धिः ।
कथं पुनर्गम्यते—एतावेवंस्वभावाविति ? आगमात् । “अन्यतरा किल देवता
भिक्षुं विषयेष्विन्द्रियाणि विचारयन्तमवोचत्—भिक्षो भिक्षो व्रणं मा
कार्षीरिति ? भिक्षुराह—पिधास्यामि देवते । देवताह—कुम्भमात्रं भिक्षो
व्रणं कृत्वा केन पिधास्यसि ? भिक्षुराह—स्मृत्या देवते पिधास्यामि, सम्प्रजन्येन
वा” ( ) इति ॥ १८ ॥
स यावत्तामविज्ञप्तिं न त्यजतीति । शिक्षानिक्षेपादि ।
“पूर्वात् क्षणादूर्ध्वमतीतया” इति । प्रथमे क्षणे वर्तमानयैव समन्वागतो
भवतीत्युक्तं भवति ॥ १९ ॥
“ध्यानसंवरवान् सदा अतीताजातया” इति । ध्यानसंवरवान् किं पृथग्जनोऽ-
थार्यः ? उभय इत्याह; अविशेषित्वात् । सोऽतीतानागतया अविज्ञप्त्या समन्वागतः।
१. का० पुस्तके नास्ति । · २-२. ०नागताभ्यामविज्ञप्तिभ्या—का० ।
अत्यागात्¹ । प्रथमे हि क्षणे स जन्मान्तरत्यक्तं ध्यानसंवरमतीतं लभते ।
आर्यस्तु प्रथमे नाभ्यतीतया ॥ २० ॥
आर्यस्तु पुद्गलोऽप्येवमनास्रवया । अयं तु विशेष:— स प्रथमे तु²
क्षणे नाभ्यतीतया³ समन्वगतः; मार्गस्य पूर्वमनुत्पादितत्वात् ॥ २० ॥
समाहितार्यमार्गस्थौ तौ युक्तौ वर्तमानया ।
तौ ध्यानानास्रवसंवरान्वितौ समाहितार्यमार्गसमापन्नौ वर्तमानया
किल्लक्षणया ? ध्यानसंवराधिकाराद् ध्यानसंवरलक्षणयेति गम्यते । स जन्मा-
न्तरत्यक्तमिति । उदाहरणप्रदर्शनपरमेतत् । इदं जन्म त्यक्तमपि हि गृह्यते ।
“आर्यस्तु प्रथमेनाभ्यतीतया” इति । आर्यः सदातीताजातया अविज्ञप्त्या
समन्वगतः । किल्लक्षणया—अनास्रवया । आर्याधिकारात् । अत एवाह—
आर्यपुद्गलोऽप्येवमनास्रवयेति । अयं तु विशेष इति । तु-शब्दार्थं दर्शयति । स च
भिन्नक्रमः । प्रथमे तु क्षणे दुःखधर्मज्ञानक्षान्तिकणे । नाभ्यतीतया अविज्ञप्त्या
समन्वगत इत्यर्थः । कस्मात् ? अनादिमति संसारे मार्गस्य पूर्वमनुत्पादितत्वात् ।
ननु च फलप्राप्तिकाले, इन्द्रियसञ्चारकालेऽपि वा पूर्वमार्गंत्यागे नेवातीत्या
अविज्ञप्त्या समन्वगम इष्यते ? एवं तर्हि स चापि फलमार्गस्य प्रथमक्षणो
भवति । तत्र नातीतयाऽविज्ञप्त्या समन्वगतो भवति; फलमार्गस्य पूर्वमनुत्पा-
दितत्वादिति व्याख्यातव्यम् ।
अत्र च—'ननु इन्द्रियसञ्चारस्य' चोद्यस्य परिहारमाह— अनास्रवसंवरोऽत्र प्रकृतः ।
स च दुःखधर्मज्ञानक्षान्तिकाल एव लब्धः । अतस्तेन प्रथमे क्षणे नातीतेन
समन्वगतो द्वितीयादिष्वतीतानागतेनेति । ऊर्ध्वं तु यो मार्गान्तरलाभस्तत्रा-
नास्रवसंवरसादृश्यमस्तीति न तदुच्यते इति ।
तदिह 'सादृश्यमस्ति' इति न बुध्यामहे—किं सास्रवसंवरोऽस्तीत्यपेक्ष्ये
निर्देशः ] चतुर्थं कोशस्थानम् ६१५
अविज्ञप्त्या समन्वागतौ यथाक्रमम्, न तु व्युत्थितौ ।
संवरासंवरस्थानां तावदेष वृत्तान्तः ॥
अथेदानों मध्यस्थस्य ?
मध्यस्थस्यास्ति चेदादौ मध्यया,
यो नैवसंवरनासंवरे१ स्थितः स मध्यस्थः । तस्य नावश्यमविज्ञप्तिरस्ति ।
यस्य त्वस्ति दौःशील्यशीलाङ्गादिसंगृहीता स आदौ मध्यया समन्वागतः ।
वर्तमाना ह्यविज्ञप्तिरतीतानागतयोर्मध्याद्—
ऊर्ध्वं द्विकालया ॥ २१ ॥
प्रथमात् क्षणादूर्ध्वमतीतया वर्तमानया च । अत्यागादिति२ वर्तते ॥२१॥
किमसंवरस्थः कदाचित् कुशलया विज्ञप्त्या समन्वागतो भवति, संवरस्थो
वा पुनरकुशलया भवति ? भवन् कदा कियन्तं वा कालम् ? इत्याह—
नावमभिरूढः स नौस्थः। एवं य आर्यमार्गमभिरूढः समापन्नः स आर्य-
मार्गस्थः । अन्यथा ह्यार्यमार्गसमन्वितोऽप्यार्यमार्गस्थ इति कृत्वा प्रकृति-
स्थोऽप्यार्यो वर्तमानया अनास्रवया अविज्ञप्त्या समन्वागत इति प्राप्नोति ।
अन्यः पुनरेवं प्रसङ्गं परिहरन् व्याचष्टे—एकशेषोऽत्र क्रियते । समाहितश्च
समाहितार्यमार्गश्च मार्गौ समाहितार्यमार्गौ, तयोः स्थितौ समाहितार्य-
मार्गस्थौ । तौ यथाक्रमं वर्तमानया ध्यानसंवराविज्ञप्त्या, अनास्रवसंवराविज्ञप्त्या
च समन्वागतौ । न तु व्युत्थितौ । न तु तन्मार्गव्युत्थितौ तया । वर्तमानया
समन्वागतौ; तस्याः चित्तानुपरिवर्तनीयत्वात् । एवं व्याख्यायते—यच्चोदित-
माचार्यसङ्घभद्रेण । कथमविज्ञप्तेः प्रत्युत्पन्नता आर्यमार्गस्थवचनादेव गम्यते,
तत्समापन्न एवायम् । न पुनस्तत्समन्वागमवचनप्रसङ्ग इति चेत् ? न;
ध्यानाधिकारात् । तत्राविज्ञप्त्यभावाच्च ।
यो नैवसंवरनासंवरस्थितः स मध्यस्थ इति । यो न भिक्ष्वादिः । न च
कैवर्तादिः । स मध्यस्थः । दौःशील्यशीलाङ्गादिसंगृहीतेति । दौःशीत्यं प्राणाति-
पातादि । शीलाङ्गं प्राणातिपातविरत्यादि । यन्नसंवरनासंवरसंगृहीतम् ।
आदिशब्देन स्तूपवन्दना-खट्चपेटादिक्रियाविज्ञप्त्यादि गृह्यते ॥ २१ ॥
असंवरसंवरस्थौ पुद्गलावकुशल-कुशलधर्मप्रतिष्ठितौ इत्यनयोर्विपर्ययम-
सम्भावयन् पृच्छति—किमसंवरस्थ इति विस्तरः ।
१. नैव संवरे नासंवरे—का० । २. आत्यागा०—का० ।
६१६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
असंवरस्थः शुभयाऽशुभया संवरे स्थितः ।
अविज्ञप्त्यान्वितो यावत् प्रसादक्लेशवेगवान् ॥ २२ ॥
येन प्रसादवेगेनासंवरस्थस्य कुशलाविज्ञप्तिरुत्पद्यते स्तववन्दनादिक्रियां
कुर्वतः, येन च क्लेशवेगेन संवरस्थस्याकुशलाविज्ञप्तिरुत्पद्यते वधबन्धनताडना-
दिक्रियां कुर्वतः; तौ यावदनुवर्तेते तावत्ते अप्यविज्ञप्ती। स आद्ये क्षणे वर्तमान-
यैवाविज्ञप्त्या समन्वगतो भवति। अन्येष्वतीताऽपि ॥ २२ ॥
अविज्ञप्त्यधिकारः समाप्तः ॥
विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः ।
सर्वे संवरासंवरमध्यस्था यावद् विज्ञप्तिं कुर्वन्ति तावत् तया वर्तमानया
समन्वागताः।
अतीतया क्षणादूर्ध्वमात्यागात्,
प्रथमात् क्षणादूर्ध्वमात्यागादतीतया विज्ञप्त्या समन्वागतो भवति।
नास्त्यजातया ॥ २३ ॥
अनागतया तु विज्ञप्त्या न कश्चित् समन्वागतः ॥ २३ ॥
निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः ।
अतीताभ्यामपि निवृतानिवृताव्याकृताभ्यां विज्ञप्तिभ्यां न कश्चित्
समन्वागतः। दुर्बलस्य हि धर्मस्य प्राप्तिरपि दुर्बला नानुबन्धीभवति।
किंकृतं तस्या दौर्बल्यम् ? चित्तकृतम्।
तौ यावदनुवर्तेते इति। प्रसादक्लेशवेगौ। अन्येष्वतीतायापीति। द्वितीय-
क्षणादिषु अतीतया ॥ २२ ॥
"क्षणादूर्ध्वमात्यागाद्" इति। यो यस्यास्त्यागस्तस्मादात्यागात् तयातीतया
विज्ञप्त्या समन्वागतः। कथम् ? संवरलक्षणायास्तावद् विज्ञप्तेस्त्यागः शिक्षानि-
क्षेपादिभिः। तस्मादात्यागादनया अतीतया विज्ञप्त्या समन्वागतः। असंवर-
लक्षणायाः संवरसमादानादिभिस्त्यागः, तस्मादात्यागादनया समन्वागतः।
नैवसंवरनासंवरलक्षणायाः प्रसादक्लेशवेगच्छेदादिभिस्त्यागः, तस्मादात्या-
गादनया समन्वागत इति। यो हि संवराद्यविज्ञप्तिमन्वागतः सोऽवश्यं मौल-
कर्मपथस्वभावया क्षणादूर्ध्वमतीतयाविज्ञप्त्या समन्वागतः।
अनागतया तु विज्ञप्त्या न कश्चित् समन्वागत इति। चित्ताननुपरिवर्त-
नीयत्वात् ॥ २३ ॥
प्त्यैव समन्वागतो भवति; अविज्ञप्तेरनुत्पादात् । प्रागेवाव्याकृतं
Line 27:
कुर्वन् सुतरां विज्ञप्त्यैवासौ समन्वागतः, नाविज्ञप्त्या; अविज्ञप्त्युत्पादाशङ्काया
Line 28:
अभावात् । अन्यत्रेति विस्तरः । अन्यत्र सप्तभ्य औपधिकेभ्यः पुण्यक्रियावस्तुभ्यः ।
Line 29:
कर्मपथेभ्यश्च प्राणातिपातादिभ्यः । तत्र ह्याव्याकृतमपि कुर्वंश्च विज्ञप्त्या
Line 30:
१. प्रागेवाव्याकृते—का० । २. ०चेतना—मुद्रितः पाठः ।
Everything matches the printed page with extreme accuracy.निर्देशः ] चतुर्थं कोशस्थानम् ६१७
चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् ? नैतदेवम् ; जडा हि विज्ञप्तिः,
परतन्त्रा च । न चैवं चित्तम् । सा हि निवृत्तेर्दुर्बलेनेत्यादिना दुर्बलतरा भवति ।
असंवरस्थ इत्युक्तम् । कोऽयमसंवरो नाम ?
संवरो दुश्चरितं दौःशील्यं कर्म तत्पथः ॥ २४ ॥
असंवरस्य
६१८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्गलः ॥ २५ ॥
अविज्ञप्त्यैव समन्वागतो न विज्ञप्त्या; येनार्यपुद्गलेन जन्मान्तरपरिवृत्तौ
न तावद् विज्ञप्तं भवति, विज्ञप्तं वा पुनर्विहीनम् ॥ २५ ॥
उक्तं संवरासंवरमध्यस्थानां विज्ञप्त्यविज्ञप्तिसमन्वागमनव्यवस्थानम् ॥
अथैते संवराः कथं लभ्यन्ते ?
ध्यानजो ध्यानभूम्यैव लभ्यते,
यदा ध्यानभूमिकं चित्तं प्रतिलभ्यते मौलीयं सामन्तकीयं वा सास्रवम्, तदा
ध्यानसंवरोऽपि; सहभूतत्वात् ।
अनास्रवस्तया ।
आर्यया,
समन्वागतो भवति; "सततसमितं चरतो वा तिष्ठतो वा विस्तरेण यावदुप-
जायत एव पुण्यम्" इति सूत्रे वचनात् । प्राणातिपातादींश्च कर्मपथान् मृदु-
चेतनयापि कुर्वन् अविज्ञप्त्या समन्वागतो भवति ।
येनार्यपुद्गलेनेति विस्तरः । परिवृत्तजन्मनार्यपुद्गलेन यदा न तावद् विज्ञप्तं
भवति । कललावस्थायामन्तर्गर्भगतेन वा । विज्ञप्तं वा पुनर्विहीनमव्याकृत-
चित्तोत्थापितविज्ञप्तिविहीनाच्च । न हि तस्याः प्राप्तिरनुबन्धिनी भवति ।
कृतस्तूपादिकस्य वां, तद्वस्तुच्छेदात् । स हि तदानीमविज्ञप्तिमपि परित्यजति
प्रागेव विज्ञप्तिमिति । आस्रवस्थस्तु जन्मान्तरपरिवृत्तावार्यपुद्गलोऽनास्रवयैवा-
विज्ञप्त्या जन्मान्तरलब्धया समन्वागतः, न विज्ञप्त्या ।
ननु च पृथग्जनस्याप्ययं विधिः सम्भवति ? सम्भवति । अनावश्यकत्वात्तु
पृथग्जनो नोक्तः । यो हि ध्यानलाभी परिवृत्तजन्मान्तरः रूपधातावकृत-
विज्ञप्तिः, कृतविज्ञप्तिविहीनो वा, स एव तथा सम्भवति, नान्य इति; कामा-
वचरसत्त्वाभिसन्धिवचनाद्वा । अथवा उदाहरणरूप आर्यपुद्गल उक्तः, तेन पृथ-
ग्जनोऽपि तथा गृहीतव्यः । अत एव "विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः"
इत्यत्रोक्तः—'अन्यत्रौपधिकपुण्यक्रियादानकर्मपथेभ्यः' इति । सावशेषमेतद्वचन-
मिति कृत्वा । एवं द्वे कोटी सूत्रिते प्रथमद्वितीये । तृतीयचतुर्थ्यौ तु योज्ये—
तृतीया संवरासंवरमध्यस्थास्तीव्रया चेतनया कुशलमकुशलं वा कुर्वन्तः;
चतुर्थी येन जन्मान्तरपरिवृत्तौ पृथग्जनेन न तावद् विज्ञप्तं भवति, विज्ञप्तं वा
विहीनमिति ॥ २५ ॥
सहभूतत्वादिति । यस्माद् ध्यानचित्तेन सह भवति ध्यानसंवरः ।
निर्देशः ] चतुर्थं कोशस्थानम् ६१९
तयैव ध्यानभूम्याऽनास्रवया लभ्यमानोऽनास्रवः संवरो लभ्यते । तत्र
षड् ध्यानभूमयोऽनास्रवा भवन्ति—चत्वारि ध्यानानि अनागम्यस्यानन्तरं चेति
पश्चात् प्रवेदयिष्यामः ।
प्रातिमोक्षाख्यः परविज्ञापनादिभिः ॥ २६ ॥
प्रातिमोक्षसंवरस्तु परविज्ञप्तितो लभ्यते, यद्येनं परो विज्ञापयति¹ असौ
च परम् । स पुनः सङ्घाद्वा, पुद्गलाद्वा । सङ्घाद् भिक्षुभिक्षुणीशिक्षमाणासंवरः,
पुद्गलादन्ये ।
दशविधा उपसम्पदिति विनयविभाषिकाः । तस्य उपसंग्रहणार्थमादि-
शब्दः ।
१. स्वयम्भूत्वेन बुद्धानां प्रत्येकबुद्धानां च, २. नियमावक्रान्त्या पञ्चकानाम्,
३. एहिभिक्षुकया यशःप्रभृतीनाम्, ४. शास्तुरभ्युपगमात् महाकाश्यपस्य,
५. प्रश्नाराधनेन सोदायिनः, ६. गुरुधर्माभ्युपगमेन महाप्रजापत्याः, ७. दूतेन
परो विज्ञापयतीति । प्रत्यापयति । पुद्गलादन्य इति । श्रामणेरश्रामणेर्यु-
पासकोपासिकोपवाससंवराः ।
नियमावक्रान्त्या । आर्यमार्गावतारणेन । पञ्चकानामाज्ञातकौण्डिन्यादीनाम् ।
एहिभिक्षुकयेति । 'एहि भिक्षो चर ब्रह्मचर्यम्' इति भगवतो वचने । 'एहीति
चोक्तः सुगतेन तायिना मुण्डश्च काषायधरो बभूव' इति । शास्तुरभ्युपगमान्महा-
काश्यपस्येति । महाकाश्यपः किल यां यां देवताप्रतिमां वन्दते सा सा स्फुटति;
तस्य महानुभावात् । स भगवन्तमुपसंक्रम्य न वन्दते—माऽस्य रूपविनाशो
भूदिति । तमभिप्रायं विदित्वा भगवांश्चोदयति स्म—वन्दस्व काश्यप तथागत-
मिति । तेन भगवान् वन्दितः । ततः स भगवतो रूपमविकोपितं दृष्ट्वा—अयं मे
शास्तेति स भगवन्तमभ्युपगतः । तदभ्युपगमान् अस्योपसम्पदिति । प्रश्नाराध-
नेन सोदायिन इति । सोदायिना प्रश्नविसर्जनेन भगवानाराधितः, तेनाराधनेन
तस्योपसम्पत् । गुरुधर्माभ्युपगमेनेति । अष्टौ गुरुधर्माः—१. भिक्षोरन्तिकाद् भिक्षु-
णीनामुपसम्पत् भिक्षुणीभावः, २. अन्वर्धमासमववादो ग्राह्यो भिक्षोरन्तिकात्,
३. अभिक्षुके आवासे वर्षा नोपगन्तव्याः, ४. प्रवारणायामुभयसङ्घस्त्रिभिः
स्थानैः प्रवारयितव्यः, ५. न चोदयितव्यो भिक्षुरापत्तिमापन्नः नाक्रोष्टव्यः,
६. गुरुधर्मापत्तौ मानाप्यमर्धमासं चरितव्यम्, ७. वर्षशतोपसम्पन्नयापि भिक्षुण्या
१. विज्ञपयति—का० ।
अभि० कौ० २ : १६
६२० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
धर्मदिन्नायाः, ८. विनयधरपञ्चमेन प्रत्यन्तिमेषु जनपदेषु, ९. दशवर्गेण मध्येषु
जनपदेषु, १०. शरणगमनत्रैवाचिकेन षष्टिभद्रवर्गपूगोपसम्पादितानामिति ।
तेषां नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवरः ॥ २६ ॥
स पुनरेष प्रातिमोक्षसंवरः समादीयमानः कियन्तं कालं समादातव्यः ?
यावज्जीवं समादानमहोरात्रं च संवृतेः ।
सप्तनैकायिकस्य प्रातिमोक्षसंवरस्य यावज्जीवं समादानम्, उपवास-
संवरस्य अहोरात्रमित्येष नियमः ।
किं कारणम् ? द्वौ हि कालपर्यन्तौ—अहोरात्रपर्यन्तः, जीवितपर्यन्तश्च ।
अहोरात्राणां पौनरुक्त्येन पक्षादयः ।
कालो नाम क एष धर्मः ? संस्कारपरिदीपनावचनमेतत् । आलोकावस्था
हि द्वीपेषु 'दिवसः' इत्युच्यते, तमोऽवस्था 'रात्रिः' । युक्तं तावज्जीवितादूर्ध्वं
सत्यपि समादाने संवरस्यानुत्पत्तिः, विसभागत्यादाश्रयस्य तेन च तत्राप्रयोगाद्,
तत्क्षणोपसम्पन्नो भिक्षुर्वन्द्यः, ८. न च भिक्षुण्या कचिद् भिक्षुश्चोदयितव्यः—
इत्येवमादयः । एषामभ्युपगमेन तस्या उपसम्पत् । दूतेन धर्मदिन्नाया इति ।
तया किलान्तःपुरगतयैव प्रव्रज्यार्थं बुद्धाय दूतः प्रेषित इति । विनयधरपञ्च-
मेनेति । चत्वारो भिक्षवः=सङ्घः, तत्र च ज्ञप्तिवाचकेन पञ्चमेनोपसम्पाद्यते
प्रत्यन्तिकेषु जनपदेषु । मध्येषु तु जनपदेषु दशमेन ज्ञप्तिवाचकेनोपसम्पाद्यते ।
षष्टिभद्रवर्ग-पूगोपसम्पादितानामिति । भद्रो वर्ग एषामिति । भद्रवर्गाणां
षष्टिः कुलपुत्राः । तेषां पूगेन समूहेनोपसम्पादितानाम् । शरणगमनत्रैवाचिकेन ।
‘बुद्धं शरणं गच्छामः’ इति त्रिवंचनेनोपसंपत् । तेषां नावश्यं विज्ञप्त्यधीन इति ।
तेषां विनयधराणामिदं मतम्—नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवर इति ।
बुद्धप्रभृतीनामविज्ञप्त्यधीनत्वात् । अथ वा तेषामिति येषां विज्ञप्तिर्नास्त्युप-
सम्पत्क्रियायाम् ॥ २६ ॥
“संवृतेः” इति । संवरस्य । “कालो नित्यः पदार्थोऽस्ति” इत्येके । तदाशंकया
पृच्छति—कालो नाम क एष धर्म इति । काल इत्यस्याभिधानस्य किमभिधेय-
मित्यर्थः । संस्कारपरिदीपनावचनमेतदिति । संस्काराणामतीतानागतप्रत्यु-
त्पन्नानामभिद्योतकं नामेति । तद् यथा—अतीतः कालो यावत् प्रत्युत्पन्न
इति त्रैयध्विकाः संस्कारा एव गम्यन्ते । तेन च तत्राप्रयोगादिति । तेन