सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

वास्तुयुक्तिः । ३७
एवं व्यवस्थिते स्थाने मध्यमे तत्प्रदृश्यते ।
आयामे राजच्छत्राणि चत्वारिपरिणाहतः ॥ ४७ ॥
राजच्छत्रैकमानेन राज-दण्ड उदाहृतः ।
अयञ्च सप्तमो भागो वास्तोर्भवति शोभनः ॥ २४८ ॥
अस्मिन् गृहं नृपः कृत्वा सुचिरं पाति मेदिनीम् ।
अस्मिन् विजय-वृद्धिश्च सौख्यञ्च समवाप्नुयात् ॥ २४६ ॥
यो राजा दम्भतो(१)ऽन्यत्र वेश्मारम्भं समाचरेत् ।
य उक्तो राजदण्डोऽयं तस्येदं स्थानपञ्चकम् ॥ २५० ॥
गजो व्याघ्रश्च सिंहश्च मृगो भृङ्गो यथाक्रमम् ।
सिंहे सिंहासनस्थानं व्याघ्रेस्याहारमन्दिरम् ॥ २५१ ॥
गजे यात्रालयं कुर्यात् मृगे केलि-निकेतनम् ।
भ्रमरेऽन्तःपुरं (२) कुर्यात् क्रमेण पृथिवीपतेः ॥
तेन मध्यममेव (३) सिंहासनं दीर्घस्य च चतुरस्रकैः ॥ २५२॥
तत्र भविष्योत्तरे,—
मेषादि-चन्द्रे जातस्य नृपतेः स्यु रनुक्रमात् ।
द्वादशैव गृहान् वक्ष्ये तेषां लक्षणमग्रतः ॥ २५३ ॥
सुनन्दः सर्व्वतो भद्रो भव्यो नान्दीमुखस्ता ॥
विनोदश्च विलासश्च विजयो विमलस्तथा ॥
वङ्गः (४) केलिर्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥ २५४ ॥


(१) राजा दण्डतो इति (क) पुस्तक पाठः ।
(२) भ्रमरेऽन्तःपुरे इति (ख) पुस्तक पाठः ।
(३) तेन मध्यमेन इति (ख) पुस्तक पाठः ।
,, मध्यममेव इति (ग) पुस्तक पाठः ।
(४) रङ्ग इति (ग) पुस्तक पाठः ।

३८ युक्‍तिकल्पतरौ—
अथैषां लक्षणानि ।
यदत्रैवोच्यते (५) मानं तस्य तेनैव कल्पना * ।
राज्ञः स्वहस्तमेकन्तु दीर्घे सर्व्वत्र निक्षिपेत् ॥ २५५ ॥
आयामेन सुन्दरः स्याद्राज-हस्तैश्च पञ्चभिः ।
परिणाहे चतुर्भिश्च राज-हस्तैः प्रतिष्ठितः ॥ २५६ ॥
अस्याधिदेवता भौमो रक्षतोयं (६) वसुन्धरा ।
द्वाराणि विंशतिश्चास्य रक्त-चित्रावृतानि च ॥ २५७ ॥
रक्तपट्टावृतो गेहः सकलार्थ-प्रसाधकः ।
अत्र स्थित्वा महीपालः सुचिरं पाति (७) मेदिनीम् ॥ २५८॥
दीर्घ-एकपञ्चाशत् ५१, प्रस्थ-चत्वारिंशत् ४० ।
इति सुन्दरः ।
द्वौ राजहस्तावायामे परिणाहे तथैव च ।
इत्ययं सर्व्वतोभद्रः शुक्रश्चास्याधिदेवता ॥ २५९ ॥
दानवा रक्षकाश्चैव पूज्यास्ते चात्र यत्नतः ।
चतुर्दशास्य द्वाराणि कृष्णचित्रावृतानि च (८) ॥ २६० ॥
पीत पट्टावृतो ह्येष सर्व्वानिष्ट-विनाशनः ।
(५) यद्यत्नै वोच्यते इति (ख) पुस्तक पाठः ।
(६) रक्षतौमम् इति (ख)-रक्षतोदम् इति (ग) पुस्तक पाठः ।
(७) पति इति (ख) पुस्तक पाठः ।
(८) 'परिणामे तथैव च' इति (ख) पुस्तकेऽधिकः पाठः ।

  • मान-लक्षणान्यन्यानि वास्तुशास्त्रे, पुराणे, ज्योतिःशास्त्रे च सन्ति ।

वास्तुयुक्तिः । ३८
अत्र स्थित्वा महीपालः सर्व्वान् शत्रून् निकृन्तति ॥ २६१ ॥
दीर्घ-एकविंशतिः २१, प्रस्थ-विंशतिः २० ।
इति सर्व्वतोभद्रः ।
अष्टकोणो भवेद्भव्यः कोणो हस्तचतुष्टयम् ।
राजहस्तोन्नतः (९) कार्य्यो बुधश्चास्याधिदेवता ॥ २६२ ॥
रक्षका वसवश्चास्य पूज्यास्तत्र प्रयत्नतः ।
अष्टौ द्वाराणि चास्य स्युः पीतचित्रावृतानि च ॥ २६३ ॥
पीतपट्टावृतो ह्येष सर्व्वानिष्ट-विनाशनः ।
तत्र स्नाता क्षिति-पतिर्नरिष्टै(१०)रवमृद्यते ॥ २६४ ॥
राजदण्डो (११) भवेद्दीर्घः प्रसरे राज-हस्तकः ।
राजहस्ते राजहस्ते प्रकोष्ठान् तत्र कारयेत् (१२) ॥२६५॥
अयं नान्दीमुखो नाम चन्द्रश्चास्याधिदेवता ।
नक्षत्र-लोकः पूज्योऽत्र स यस्मादस्य रक्षकः ॥ २६६ ॥
द्वाविंशतिस्तु द्वाराणि दीर्घे दश तथान्तरे ।
अन्यत्र दीर्घ-एकं स्यात् प्रसरे एकमेव च ॥ २६७ ॥
दीर्घ-द्वितये दशद्वाराणि प्रसर-द्वितये एकं कृत्वा वा द्वितीयमेवं
द्वाविंशति-(२२) द्वाराणि ।
शुक्ल-चित्रेण सहितः शुक्लपट्टेन शोभितः ।
सर्व्वार्थ-साधको राज्ञां लक्ष्मो-विजय-वर्द्धनः ॥ २६८ ॥
दीर्घ-एकादश-११, प्रस्थे-१०, इति नान्दीमुखः ।
(९) अत्रैतत् सन्दर्भस्थ-पारिभाषिको राजहस्तो ग्राह्यः ।
(१०) नरिष्ट रवमृद्यते इति (ग) पुस्तक पाठः ।
(११) अत्र राजदण्डपदेनैतत्सन्दर्भस्थः पारिभाषिको ग्राह्यः ।
(१२) राजहस्त...इत्यारभ्य रक्षक-इत्यन्तः सार्द्धश्लोकः (ख) पुस्तके
नास्ति ।

४० युक्तिकल्पतरौ—
दीर्घे त्रयो राजहस्ताः प्रसरे द्वौ प्रतिष्ठितौ ।
विनोद एष द्वाराणि त्रिंशत् कोष्ठद्वयं भवेत् ॥ २६९ ॥
रक्तचित्रेण चित्राङ्गो रक्तावस्तोपशोभितः (१) ।
अत्रस्थाता नरपतिर्भवेत् कीर्त्ति-प्रतापवान् ॥
सूर्य्योऽधिदेवता चास्य रक्षकाः सकल-ग्रहाः ॥ २७० ॥
दैर्घ्ये एकत्रिंशत् ३१, प्रस्थे विंशतिः २० ।
दीर्घेन राजदण्डाद्धँ प्रसरे वाजहस्तकौ ।
विलास एष द्वाराणि चत्वारिंशद्बुधाः (२) विदुः ॥ २७१ ॥
गन्धर्वा राक्षसाश्चास्य प्रकोष्ठ-त्रितयं भवेत् ।
चित्र-पद्मेन शङ्खेन चित्रवस्त्रेण शोभितः ॥ २७२ ॥
दुर्भिक्ष-शमनो ह्येष (३) शस्यसम्पत्ति-कारकः ।
अत्र स्थित्वा नरपतिः प्रचुरं सुखमश्नुते ॥ २७३ ॥
दैर्घ-एकपञ्चाशत् ५१, प्रस्थे विंशतिः, २० ।
इति विलास-गृहम् ।
द्वादशहस्तप्रसरे दीर्घे द्वौ राजहस्तकौ कथितौ ।
विजये द्वादशभवन-द्वाराणि स्यु र्जयप्रदान्यत्र ॥ २७४ ॥
सूर्य्योऽधिदेवता चास्य रक्षतोमं विहङ्गराट् ।
अरुणाम्भोज-चित्राङ्गो अरुणाम्बर-भूषितः ॥
अत्र स्थित्वा नरपतिः कृत्स्नां शास्ति वसुन्धराम् ॥ २७५ ॥
दैर्घ्ये एकविंशतिः २१, प्रस्थे द्वादश, १२ ।
──────────────────────────────────────────
( १ ) उपरच्छौत इति (ग) पुस्तक पाठः ।
( २ ) बुधोविदुः इति (ख) पुस्तक पाठः ।
( ३ ) दमनोह्येष इति (ग) पुस्तक पाठः ।

वास्तु युक्तिः । ४१
आयामे राज-दण्डौ द्वौ प्रसरे राजदण्डकः ।
शतद्वारोपसहितः प्रकोष्ठैर्दशभिर्युतः ॥ २७६ ॥
दिक्पाला रक्षकाश्चास्य कुजश्चास्याधिदेवता ।
नानावर्णेन चित्रेण वसनेन विभूषितः ॥ २७७ ॥
अत्र स्थित्वा नरपतिः सुचिरं सुखमश्नुते ।
यस्मिन्त्राज्ये प्रतिष्ठेह विमलोऽग्टह-सत्तमः ॥ २७८ ॥
दुर्भिक्षं नात्र्जायेत नेतयो ( ५ ) न च विप्लवः ।
नरोगोनापि शोकश्च नैवोत्पात-भयन्तथा ॥
पत्यादि-( ६ ) गुणबाहुल्य मन्यत्कथितंबुधैः ॥ २७९ ॥
दैर्घ्यं द्विशतम्- २००, प्रस्थे-एकशतम् १०० ॥
आयाम-परिणाहाभ्यां राज्ञः षोडशहस्तकः ।
द्वाराणि षोडशैवास्य गुरुश्चास्याधिदेवता ॥ २८० ॥
रचिकादे वताचास्य शुक्लवस्त्रैर्

अवस्थित्वा नर-पतिः सुखं विजयते रिपून् ॥ २८४ ॥
दैर्घ्ये एकशतम् १०० , प्रस्थे पञ्चाशत् ५० ॥
इति केलिः ।
राज-हस्तेन कोणःस्या देवं केलि-चतुष्टयं ।
चतुर्द्दशैव द्वाराणि राहुरस्याधिदेवता ॥ २८५ ॥
नक्तंचरा रक्षकाश्च नाना स्वर्णाम्बरादिकम् ।
अयं जयः प्रकटितः सर्व्वत्रैव जय-प्रदः ॥ २८६ ॥
आयामे राजहस्तःस्यात्परिणाहोऽष्टहस्तकम् ।
नानारूपं कुटोरूपः (९) वीरो नाम जयप्रदः ॥ २८७ ॥
बृहस्पतिर्द्देवताऽस्य रक्षकाश्चास्य खेचराः ।
विचित्र-वसनोपेतः सर्व्वकामार्थ-दायकः ॥ २८८ ॥
दैर्घ्ये एकादश- ११, प्रस्थे अष्टौ = ।
इति धीरः । (केलि-प्रभेदोवा) ॥
योयस्य गदितोवर्ण स्तथास्याच्चामरोऽपिच ।
राज-हस्तान्त

वास्तुयुक्तिः । ४३
इति सिंहासन-स्थानमिति राष्ट्रस्य मस्तकम् ।
इतोऽन्ये चित्तहर्षार्थाः प्रासादाः पृथिवीभुजः ॥ २६३ ॥
जलयन्त्रादयो * येऽन्ये तेषां नास्ति विनिश्चयः ।
खजन्म-गेह-संस्थो यो नृपतिःशुभ-चेतनः ॥ २६४ ॥
सचिरं(११) पृथिवीं शास्ति सर्व्वार्थान् साधयत्यपि ।
योवा तत्पर-गेहस्थो दुर्मोहाद्धरणीपतिः ।
न चिरं पाति वसुधां घोरं रोगञ्चविन्दति ॥ २६५ ॥
खलग्न-पति-मित्रस्य गृहवारोनदुष्यति ।
परञ्च,—
हीरकस्य † विशुद्धस्य ब्रह्मजातेर्महाद्युतेः ।
सूर्यांश्रु-स्पर्शमात्रेण वमतोदीप्ति-मच्छिखाः ॥ २६६ ॥
गृहाग्रे धारयेद्राजा तद्वज्रं वज्रधारणम् ॥ २६७ ॥
वास्तुवस्तु,—
गेहेषु मणि-विन्यासो विधेयः सदनो

Digitized By Siddhanta eGangotri Gyaan Kosha
४४ युक्तिकल्पतरौ-
भोजोऽपि,-
वास्तुखण्डाष्ट-* रूपःस्यात् यथार्थैर्नामभिः स्वकैः ।
यमद्वारात्समारभ्य यावदद्धारमिष्यते ॥ २९६ ॥
तद्यथा,-
मृत्युर्भयं स्थिरश्चण्डो धनं विभव एव च ।
वीरस्तापश्च इत्यष्टौ वास्तुभागा यथाक्रमम् ॥ ३०० ॥
यमनैर्ऋत-तोयेश वायु-यक्षेश-शङ्कराः ।
इन्द्रोरग्निरितिप्रोक्ता विभागाणामधीश्वराः ॥ ३०१ ॥
मृत्यौ कारांलयं कुर्य्यात् भय-स्थानिच पत्तयः ।
स्थिरे सहचरानूक्षेत् चण्डे वाजि-गजादयः ॥ ३०२ ॥
धनेशान्यादिकं ( १ ) रक्षेत् विभवे कोष-रक्षणम् ।
राजपट्टे ‡ भवेद्धीरः तापे कश्चि ( २ ) न्त्रवालयेत् ॥
प्राचीर-प्रतिभागान्ते ( ३ ) दूति भोजस्य सम्मतम् ॥ ३०३ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ राजगृह-युक्तिः ॥
तत्र वास्तुप्लव-लक्षणम् ।
वास्तु-मानेन नियमो गृह-मानेन निर्णयः ।
पूर्व्वप्लवो वृद्धिकरो धनदस्योत्तर-प्लवः ॥ ३०४ ॥
(१) धनधान्यादिकं इति (क)-(ग) पुस्तक पाठः ।
(२) कश्चिन्नरा(चा)लयेत् इति (ख) पुस्तक पाठः ।
(३) प्राचीर भाग्यन्ते इति (ख) पुस्तक पाठः ।

  • अष्टः शङ्कः, पद्ममिति वा
    ‡ राजपट्ट्य पखरवान्तर्गतमैकग्वम् इति गौड़ाः । यस्मिन्नासने पट्टाख्ये नृपमहिष्यो-
    रभिषेको भवति तदेव राजपट्ट इति केचित् । नीलकान्तमथिरित्यन्ये देवीपुराणे तु
    अन्यथास्ति पट्टलक्षणम् ।
    CC-0. Gurukul Kangri Collection, Haridwar.

वास्तुयुक्तिः । ४५
दक्षिणे मृत्युदो वास्तु र्धनहापश्चिम-प्लवः ।
कोणे रेखाद्वयं कृत्वा मध्यरेखाद्वयन्तथा ॥ ३०५ ॥
ऐशान-कोणतोरेखा दक्षिणाद्ये ( ४ ) र्ध्वजास्तथा ।
नाचामरो नामणिश्च नापताकापि नाध्वजः ॥ ३०६ ॥
नकुम्भादिर्नवितानो नाचित्रो नातिचित्रधृक् ।
नात्युच्चो नातिनीचोवा नाप्रकीर्णः प्रकीर्णकः । ३०७ ॥
नाधातु र्नागवाक्षश्च नचैकानेक-द्वारभाग् ।
नियमस्तु महोन्द्राणां सर्व्वसम्पत्ति-हेतवे ॥ ३०८ ॥
इति राज-गृहयुक्तिः ।
अन्येषान्तु यथा वास्तुमानेन नियमः ।—
ध्वजोधूमस्तथा सिंहःश्वा ( ५ ) वृषोगर्दभो गजः ।
काक इत्येष गदितो वास्तुस्थानस्य निर्णयः ।
अयुग्मे सुखसम्पत्तिः युग्मञ्चविपदास्पदम् ॥ ३०९ ॥
एव मन्यत्रापि ।
ध्वजे विभूति र्विपदश्चधूमे, सिंहेविभोगः शुनि सर्व्वनाशः ।
वृषे सुखं गर्दभतो विनाशः ; गजे धनं काक-पदेच मृत्युः ॥३१०॥
कोणरेखा कोणसुचिः ( १ ) सुखसम्पत्ति-नाशिनी ।
पूर्व्व-पश्चिमतोदण्ड उदयाख्यः सुखावहः ॥ ३११ ॥
दक्षिणोत्तरतोदण्डो वंशहा यमदण्डकः ।
गृहानि पातयेद्धीमान् एषांदण्ड-( २ ) व्यधान्तरे ॥ ३१२ ।

( ४ ) दक्षिणाग्रैः इति (ग) पुस्तक पाठः ।
( ५ ) श्वावतो इति (ख) पुस्तक पाठः ।
( १ ) कोन सूचो (शुचि) इति (ख)-(ग) पुस्तक पाठः ।
( २ ) दण्डः व्यधान्तरे ? इति (क) पुस्तक पाठः ।

तोहीना चतुःशालं ( ३ ) सुखावहम् ॥ ३१३ ॥`

  • Note: पूर्व्वतोहीना or पूर्व्वतो हीना? It's पूर्व्वतोहीना.

  • ( ३ ) has spaces inside.

  • सुखावहम् ॥ ३१३ ॥

  • : पश्चिमास्यं यजेद्वेश्म सिंहेतूदङ्मुखं शुभम् ।

    • सिंहेतूदङ्मुखं: सिंहेतूदङ्मुखं (ङ with subscript ख, ङ्ख or ङ्मुखं? ङ्मुखं: ङ् + म? No, wait! Look at the letter: सिंहेतूदङ्मुखं -> wait, is it दङ्मुखं? द + ङ् + ख? No, दङ्मुखं -> द with ङ्मुखं: ङ् + म? Look at सिंहेतूदङ्मुखं: सिं हे तू द ङ्मु खं! Wait, look at दङ्मुखं: द has a hook below? It's दङ्मुखं? No, तूदङ्मुखं? In सिंहेतूदङ्मुखं: सिंहे तू `दङ्मुख

वास्तुयुक्तिः । ४७
स्ववास्तु-वृक्षतोदोषः कुल-सम्पत्ति-नाशनः ।
वर्जयेत् पूर्व्वतोऽश्वत्थं प्लक्षं दक्षिणतस्तथा ॥ ३२२ ॥
ऐशान्यांरक्त-पुष्पञ्च आग्नेय्यां क्षीरिणस्तथा ।
यत्र तत्र स्थितावृक्षा विल्व दाड़िम-केशराः ॥ ३२३ ॥
पनसा नारिकेलाश्च (१०) शुभं कुर्व्वन्ति निश्चयम् ।
निशा नीली पलाशश्च चिञ्चा(वा) श्वेतापराजिता ॥ ३२४ ॥
कोविदारश्च सर्व्वत्र सर्व्वं निघ्नन्ति मङ्गलम् ।
गृहपातन मिच्छन्ति नागस्य स्वपने * क्रमात् ॥ ३२५ ॥
पूर्वादिषु शिरःकृत्वा नागः शेते त्रिभिस्त्रिभिः ।
भाद्राद्यैर्व्वाम-पार्श्वेन तस्य क्रोडेऽगृहं शुभम् ॥ ३२६ ॥
तत्र प्रमाणम्—
स्वामि-हस्त-प्रमाणे न ज्येष्ठपत्नी-सुतेन(वा) च ।
गृहाद्यन्तर-संस्थानं मापयेदभितो नरः ॥ ३२७ ॥
तत्र सामान्य-लक्षणम् ।
गृह भूमि-समाहृत-पिण्डपदम्,
वसु-लोचन-वाण-गजैर्गुणितम् ।
रवि-भूधर-भूधर-योग-हृतम् ;
द्रविण (द्रविण ?) (११) व्यनुसङ्कलितम् ॥ ३२८ ॥
एकाशीतिगुणे हस्ते दिवाणैक-हते चते ।
षड्वाणे न च सम्भक्ते पिण्डःस्यात सर्व्ववेश्मनः ॥ ३२९ ॥
(१०) नालीकेड़ (नारिकेलश्च) (ख)-(ग) पुस्तक पाठः ।
(११) प्रविण इति इति (क)-(ग) पुस्तक पाठः ।

  • नागस्य शयने,—ज्योतिःशास्त्रे गृहारम्भे नागशुद्धिरभिहितास्ति। नागानां
    शिरशि गृहारम्भोऽनिष्टम् । तेषान्तु क्रीड़े शुभम् ।

४८ युक्तिकल्पतरौ—
तद्यथा,—
ध्वजादि-गेह-संस्थाने गृहमानं शुभावहम् ।
दीर्घे पुत्र-(१२) फलं गेहं सिंहस्थाने प्रकीर्त्तितम् ॥ ३३० ॥
दीर्घे भानुः परिणाहे सप्तचैराङ्गुलिद्वयम् ।
इदं पुत्र-फलं गेहं वृषस्थानेऽप्युदीरितम् ॥ ३३१ ॥
दीर्घे षष्ट' (१३)...सचतुरङ्गुलम् ।
इदं धनफलं गेहम् गजस्थाने ह्युदीरितम् ॥ ३३२ ॥
दीर्घे षट् प्रहरे पञ्च चतस्रोऽङ्गुलयोरपि ।
इदं पुत्रकलं गेहं गजस्थाने प्रकीर्त्तितम् ॥ ३३३ ॥
दीर्घे त्रयोदशभुजाङ्गुलयश्चैक-विंशतिः ।
प्रहरेऽष्टौ (१४) सुखफलं गजस्थाने गृहं विदुः ॥ ३३४ ॥
इति द्वादशकं प्रोक्तं गृहाणां सर्व्वसम्मतम् ।
एवं गृहं समाचर्य्य गृहस्थः शुभ (१५) मिच्छति ॥ ३३५ ॥
भोजस्तु,—
आयाम-परिणाहाभ्यां योऽङ्ग-पिण्डो (१६) विजायते ।
येन केनापि चाङ्गेन शोधनीयः स इष्यते ॥ ३३६ ॥
(१२) पुत्रफलमिति (क) पुस्तक पाठः ।
(१३) अत्रै तत् (क)-(ख)--(ग)पुस्तके नास्ति तदन्तरा लुटितमिवमन्ये । इति पाठम् ।
(१४) प्रसरेऽष्टौ इति (क) पुस्तक पाठः ।
(१५) सुखम् इति (ख) पुस्तक पाठः ।
(१६) योऽङ्ग-पिण्डोविराजते इति (ख) पुस्तक पाठः ।
—अत्र ध्रुवाङ्ग-पिण्डाङ्गादिकं ज्योतिःशास्त्रीय-वास्तुप्रकरणोक्तं ज्ञेयम् ।

गृहयुक्तिः । ४९
एक-द्वि-पञ्च-सप्तानि शुभान्यन्यानि चान्यथा ।
आयाम-परिणाहाभ्यां सार्द्ध-द्वादश-हस्तकम् ॥ ३३७ ॥
एकन्तु मङ्गलं नाम गृहं सुख-विवर्द्धनम् ।
आयाम-परिणाहाभ्यां सार्द्धहस्त-चतुर्दश ॥ ३३८ ॥
इदं ‘कमलकं’ नाम गृह-सम्पत्ति-कारकम् ।
आयाम-परिणाहाभ्यां सार्द्ध-हस्तस्तु षोडश ॥ ३३९ ॥
इदं हि सर्व्वतोभद्रं स्वामिनः सुखकारकम् ।
आयाम-परिणाहाभ्यां सार्द्धाष्टादश-हस्तकम् ॥ ३४० ॥
‘कल्याण’नाम वेश्मदं धन-धान्य-सुखप्रदम् ।
आयाम-परिणाहाभ्यां सार्द्धविंशति-हस्तकम् ॥ ३४१ ॥
इदं हि सुखदं नाम भर्तुः सुख-विवर्द्धनम् ।
मया-यदिदमुद्दिष्टं गृहपञ्चकमद्भुतम् ॥ ३४२ ॥
न तेषु स्थान-

५० युत्तिकल्पतरौ—
अथासन-युक्तिः ।
[ अत्र सिंहासन-युक्तिरुच्यते ]
विशेषाख्यं सामान्य-मासनं द्विविधं मतम् ।
सिंहासनं विशेषाख्यं सामान्यं खट्वादिकम् (१) ।
राज्ञो वरतम(२)न्नाम श्रौसिंहासनमुच्यते ॥ ३४७ ॥
शुभे मुहूर्त्ते शुभ-मास-योगे,
सुवारवेला-तिथिचन्द्र-योगे ।
काले निरुत्पात-निरिति-भावे (†) ;
सिंहासनावस्थ-विधिं वदन्ति ॥ ३४८ ॥
स्थिरराशि-स्थिते भानौ चन्द्रे च स्थिर-भोदिते ।
आसनारम्भ मिच्छन्ति गृहारम्भोऽपि येषु च ॥ ३४९ ॥
एतेन गृहारम्भ-सिंहासनयोरारम्भः ।
तत्र क्रमः,—
बाण-वेदाग्नि-(४) पक्तानि सोपानादि-युगैः क्रमात् ।
चत्वारिंशत्तथा त्रिंशद् विंशतिः

आसनयुक्तिः । ५१
सिंहान्वितानि ज्ञेयानि चरणानि युगे (५) क्रमात् ।
पद्मः शङ्खो गजो हंसः सिंहो भृङ्गो मृगो हयः ॥ ३५१ ॥
अष्टौ सिंहासनान्येति नीति-शास्त्र-विदो विदुः ।
आदित्यादि-दशाजानां भूपतीनां यथाक्रमम् ॥ ३५२ ॥
राज्ञः स्वहस्तैरष्टाभिरायाम-परिणाहयोः ।
‘राज पात्र’मिदं नाम सोपानं पुरुषोन्नतम् ॥ ३५३ ॥
तदर्द्धमानन्तन्मध्ये राजासनमुदाहृतम् ।
अर्द्धोन्नत-मिदं रम्यं प्रोक्तं कलि-महीभुजाम् ॥ ३५४ ॥
दिगष्टर्द्धार्ब्बि-(६) कोणः स्याद्ब्रह्मादीनां यथाक्रमम् ॥ ३५५॥
अथाष्टानां लक्षणानि ।
गम्भारी-काष्ठ-घटितः पद्ममालोप-चित्रितः ।
पद्मराग-विचित्राङ्गः शुद्ध-काञ्चन-संस्कृतः (७) ॥ ३५६ ॥
चरणाग्रे पञ्चकोषात् पद्मराग-विचित्रिताः ।
दिक्ष्वष्टौ पुत्तिका राज द्वादशाङ्गुलि-सम्मिताः ॥ ३५७ ॥
राजासन-चतस्रस्तु एवं द्वादश-पुत्तिकाः ।
रत्नैश्च नवभिः कार्य्यं निर्मााणञ्चान्तराऽन्तरा ॥ ३५८ ॥
रक्तावस्त्रावृतं ह्येतत् ‘पद्म-सिंहासनं’ मतम् ।
अत्रोषित्वा नरपतिः प्रतापमति-विन्दति ॥ ३५९ ॥
भद्रन्वाकाष्ठ(८)घटितः शङ्खमालोपशोभितः ।
शुद्धस्फटिक-चित्राङ्गः शुद्ध-रौप्योपशोभितः ॥ ३६० ॥


( ५ ) युगैः क्रमात् इति (ख)-(ग) पुस्तक पाठः ।
( ६ ) दिगष्टर्द्धर्ब्बि इति (ख) दिगष्टार्द्धवि-(ग) पुस्तक पाठः ।
( ७ ) सम्भृत इति (ख)-(ग) पुस्तक पाठः ।
( ८ ) भद्रश्री इति (ख) भद्रं वा (ग) पुस्तक पाठः ।

५२ युक्तिकल्पतरौ—
चरणाग्रे शङ्खनाभिः पुत्रिका-सप्त विंशतिः ।
स्थाने स्थाने विधातव्याः शुद्ध-स्फटिक-संस्कृताः ॥ ३६१ ॥
शुक्लपट्टावृतं ह्येतत् 'शङ्खसिंहासनं' मतम् ।
पनसे नोपघटितो गजमालोपशोभितः ॥ ३६२ ॥
विद्रुमैरपि वैदुर्य्यैः (६) काञ्चनेनापि शोभितः ।
चरणाग्रे गजशिरः पुच्छादेकैकपुत्रिका ॥ ३६३ ॥
माणिक्य रचिता रक्त-वस्त्रादिकं (१०) विभूषणम् ।
'गजसिंहासन'नाम साम्राज्य-फलदायकम् ॥ ३६४ ॥
शालकाष्ठेन घटितो हंसमालोपशोभितः ।
पुष्परागैः काञ्चनेन कुरुविन्दैश्च चित्रितः ॥ ३६५ ॥
चरणाग्रे हंसरूपं पुत्रिकास्त्वेकविंशतिः ।
गोमेदकोपघटिताः (११) पोतवस्त्र-विभूषणम् (१२) ॥ ३६६ ॥
'हंससिंहासनं' नाम सर्व्वानिष्ट-विनाशनम् (१३) ।
चन्दनेनोपघटितः सिंह मालोप-(१४)शोभितः ॥ ३६७ ॥
शुद्ध-हीरकरचित्वाङ्गः शुद्धकाञ्चन-निर्मितः ।
चरणानां सिंह-लेखः पुत्रिकाश्चैकविंशतिः ॥ ३६८ ॥
मुक्ताशुक्तिभिरन्यैश्च निर्मलैरेव भूषणम् ।
शुद्धशुक्लावृतं ह्येतत् 'सिंह-सिंहासनं' मतम् ॥ ३६६ ॥
( ६ ) वैदूर्य्यैः इति (ग) पुस्तक पाठः ।
( १० )—कं विभूषितम् इति (ख)-(ग) पुस्तक पाठः ।
( ११ ) घटिता, घटितो इति (ख)-(ग) पुस्तक पाठः ।
( १२ ) विभूषितम् इति (ख) विभूषणः (ग) पुस्तक पाठः ।
( १३ ) प्रणाशनम् इति (ख) पुस्तक पाठः ।
( १४ ) मानोपशोभितम् इति (ग) पुस्तक पाठः ।

आसनयुक्तिः । ५३
अतोषयित्वा नरपतिः कृत्स्नां साधयति क्षितिम् ।
भृङ्ग-मालोपसहितं शुद्धचम्पक-कल्पितत् ॥ ३७० ॥
शुद्धैर्मारकतैर्युक्तं पादाग्रे पद्मकोषिकाः ।
द्वाविंशतिः पुत्रिकास्तु नील-वस्त्रादि-भूषणम् ॥ ३७१ ॥
‘भृङ्ग-सिंहासनं’ नाम शत्रुक्षय-जयप्रदम् ।
निम्ब-काष्ठेन घटना भृङ्गमालोपशोभितम् (१५) ॥ ३७२ ॥
इन्द्रनीलैर्महानीलैः काञ्चनेनापि चित्रितम् ।
चरणाग्रे मृगशिरश्चत्वारिंशच्च पुत्रिकाः ॥ ३७३ ॥
नीलवस्त्रादि-युक्तञ्च ‘मृगसिंहासनं’ मतम् ।
लक्ष्मो-विजय-सम्पत्ति-नैरूज्य-प्रदसत्तमम् ॥ ३७४ ॥
केशरे(वे) णोपघटितं हयमालोपशोभितम् ।
समस्तवस्त्रैर्भूषा च पुत्रिकाः पञ्चसप्ततिः ॥ ३७५ ॥
चरणाग्रे हयशिरः चित्रवस्त्रादि-भूषणम् ।
‘हयसिंहासनं’ नाम लक्ष्मी-विजय-वर्धनम् ॥ ३७६ ॥
इत्येतत्कथितं सारं महासिंहासनाष्टकम् ।
यथा भोजेन लिखितं यथाञ्चान्यैश्चपण्डितैः ॥ ३७७ ॥
एतस्यातिक्रमं दम्भाद् यः कुर्यात् पृथिवो-पतिः ।
अचिरादेव कुरुते तस्य मृत्यु(१६) रितिक्रमम् ॥ ३७८ ॥
परासनस्थो यो राजा यो राजा च निरासनः ।
स परैर्हन्यते सिंहैरिव मत्त-गजाधिपः ॥ ३७९ ॥
स्वलग्न-मित्रासन-मध्य-संस्थिति-
र्नदुष्यतीति प्रवदन्ति तज्ज्ञाः ॥ ३८० ॥
इति श्रीभोजराजीये विशेषासनोद्देशः ॥
(१५) मानोपरशोभितम् इति (ग) पुस्तक पाठः ।
(१६) तस्य मृत्युम् इति (ख) पुस्तक पाठः ।

५४ युक्तिकल्पतरौ—
अथ सामान्यासनोद्देशः ।
ब्रह्म-क्षत्रिय-वैश्यानां चतुःषट् स्व स्व-कोष्ठिकाः ।
खट्टिकाः (१७) सुखसम्भूताः शुक्लरक्तासिताम्बराः ॥ ३८१ ॥
इति खट्टिकोद्देशः ।
अष्टाभिः काष्ठ-खण्डैश्च खट्टेति प्रतिचक्षते * ॥ ३८२ ॥
अथैषां लक्षणानि ।
तिष्ठेद् यदालम्ब्य खट्टा तज्ज्ञेयं चरणाद्वयम् ।
शिरस्थं व्युपधानं स्यात् (१८) अधःस्थं स्यान्निरूपकम् ॥ ३८३ ॥
आलिङ्गने उभे पार्श्वे प्राह भोज-महीपतिः ।
आलिङ्गने चतुर्हस्ते व्युपधानं निरूपके ।
तदर्द्धेन तदर्द्धेन चत्वारश्चरणा इति ॥ ३८४ ॥
सर्व्व षोड़शिका (खट्टा) यथा,—
आलिङ्गने सार्द्धवेदे व्युपधाने निरूपके ।
सार्द्धद्वये च चरणा हस्तैक-परिसम्मिताः ॥ ३८५ ॥
सर्व्वाष्टादशधा खट्टाः (१६) सर्व्व-कामफलप्रदाः ॥ ३८६ ॥
आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके ।
तदर्द्धेन तदर्द्धेन चत्वारश्चरणा इति ॥ ३८७ ॥
(१७) ताः खट्टा इति (ग) पुस्तक पाठः ।
—अत्र क्षुद्रा इयं खट्टा इति खट्टिका ।
(१८) व्युपधेयं स्यात् इति (ख) पुस्तक पाठः ।
(१९) दशधा खट्टा इति (ग) पुस्तक पाठः ।

  • “सर्व्वविंशतिका”—इत्यारभ्य “शरण्याश्चरणा” इत्यन्तः सार्द्धश्लोकः (ख) पुस्तके नास्ति ।

आसनयुक्तिः । ५५
सर्व्व-विंशतिकाः (२०) खट्टा धनधान्य-जयप्रदाः ।
आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके ।
त्रिहस्तसम्मिते पादा (१) हस्तैक-परिसम्मिताः ॥ ३८८ ॥
सर्व्वत्रिंशतिकाः खट्टा एवमप्युपजायते ।
आलिङ्गने षड् हस्ते च व्युपधाने निरूपके ॥ ३८९ ॥
त्रिहस्त-सम्मिते पादाश्चत्वारश्चरणा इति ।
चतुर्विंशतिका खट्टा सर्व्व-रोग क्षयङ्करौ ॥ ३९० ॥
आलिङ्गने चाष्ट हस्ते व्युपधाने निरूपके ।
चतुर्हस्ते सार्द्धहस्ताश्चत्वारश्चरणा इति ॥ ३९१ ॥
सर्व्वत्रिंशतिका खट्टा सर्व्वकामार्थ-दायिनी ।
एवमष्टविधाः खट्टाः समानेनोपदर्शिताः ॥ ३९२ ॥
आदित्यादि-दशाजानां नृणां सम्पत्ति-दायकाः ।
कार्य्याः शिल्पिभिरेतासु विविधाकृति-कल्पनाः ।
सर्व्व-षोड़शिका खट्टा सर्वेषामेव मुच्यते (२) ॥ ३९३ ॥
अष्टौ खण्डानि यस्याः स्युश्चतुर्हस्त-सुतानि च (३)
'श्रीसर्व्वमङ्गला' नाम खट्टेषा पृथिवी-पतेः ॥ ३९४ ॥
इयं यदा सच्छदना तदा सर्व्वजयाऽभिधा ।
यात्रासिद्धिः सर्व्व-सिद्धिर्विजया चाष्टमङ्गला ॥ ३९५ ॥
एकैकहस्त-वृद्ध्या तु (४) भवेत्तच्च मतःपरम् ।
जयोऽथ मङ्गलः श्रेयान् चित्रकान्तः परो महान् ॥ ३९६ ॥
(२०) सप्तविंशतिका इति (ख) पुस्तक पाठः ।
( १ )—श्चरणाश्चरणा इति (ख) पुस्तक पाठः ।
( २ ) एवमुद्यते इति (क) पुस्तक पाठः
( ३ ) युतानि च (शतानि च) इति (ग) पुस्तक पाठः ।
( ४ ) बुद्धास्तु इति (ख) पुस्तक पाठः ।

५६ युक्तिकल्पतरौ—
एकैक हस्त वृद्ध्या तु मञ्चानामिति लक्षणम् ॥३९७॥
यात्रासिद्धिं समारभ्य येऽमी षोडशकीर्त्तिताः ।
आदित्यादि-दशाजानामाद्यन्तैक द्वयं क्रमात् ॥ ३९८ ॥
दूर-दर्शी दीर्घ-दर्शी दुर्लङ्घ्योऽथ दुरासदः ।
यथोत्तरं दशगुणा पादैक (५) परिणाहिनः ॥ ३९९ ॥
प्रासादसंज्ञकाः कार्या राज्ञा सुखमभीप्सता ।
चत्वार एते सर्व्वेषां भूपतीनां सुखावहाः ॥ ४०० ॥
श्रीभोजमते च,—
सर्व्वं त्रिंशतिकां यावत् आरभ्योभय-षोडशीम् ।
खट्टाणामिति नामानि अष्टौ हस्त-(६) द्वयाधिको ॥ ४०१ ॥
तद्यथा,—
मङ्गला विजया पुष्टिः क्षमा तुष्टिः सुखासनम् ।
प्रचण्डा सर्व्वतोभद्रा खट्टाना मष्टकं विदुः ॥ ४०२ ॥
आसां पूर्ववद् विभागः ।
पराशरसंहितायान्तु,—
अष्टाभिः काष्ठ-खण्डैस्तु योऽयं पिण्डो(७) विभाज्यते ।
स चेत्समो भवेत् खट्टा प्रशस्ता स्याद् यतोऽन्यथा ॥ ४०३ ॥
समे सर्व्वाय-सम्पत्तिर्विषमे विपदास्पदम् ।
तस्मात् खट्वाङ्ग-(८)पिण्डो यः समःकार्य्यः स सूरिभिः ॥ ४०४ ॥
( ५ ) पदैक इति (ख) पुस्तक पाठः ।
( ६ ) ह्रस्वा