सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 80, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 80

४० युक्तिकल्पतरौ—
दीर्घे त्रयो राजहस्ताः प्रसरे द्वौ प्रतिष्ठितौ ।
विनोद एष द्वाराणि त्रिंशत् कोष्ठद्वयं भवेत् ॥ २६९ ॥
रक्तचित्रेण चित्राङ्गो रक्तावस्तोपशोभितः (१) ।
अत्रस्थाता नरपतिर्भवेत् कीर्त्ति-प्रतापवान् ॥
सूर्य्योऽधिदेवता चास्य रक्षकाः सकल-ग्रहाः ॥ २७० ॥
दैर्घ्ये एकत्रिंशत् ३१, प्रस्थे विंशतिः २० ।
दीर्घेन राजदण्डाद्धँ प्रसरे वाजहस्तकौ ।
विलास एष द्वाराणि चत्वारिंशद्बुधाः (२) विदुः ॥ २७१ ॥
गन्धर्वा राक्षसाश्चास्य प्रकोष्ठ-त्रितयं भवेत् ।
चित्र-पद्मेन शङ्खेन चित्रवस्त्रेण शोभितः ॥ २७२ ॥
दुर्भिक्ष-शमनो ह्येष (३) शस्यसम्पत्ति-कारकः ।
अत्र स्थित्वा नरपतिः प्रचुरं सुखमश्नुते ॥ २७३ ॥
दैर्घ-एकपञ्चाशत् ५१, प्रस्थे विंशतिः, २० ।
इति विलास-गृहम् ।
द्वादशहस्तप्रसरे दीर्घे द्वौ राजहस्तकौ कथितौ ।
विजये द्वादशभवन-द्वाराणि स्यु र्जयप्रदान्यत्र ॥ २७४ ॥
सूर्य्योऽधिदेवता चास्य रक्षतोमं विहङ्गराट् ।
अरुणाम्भोज-चित्राङ्गो अरुणाम्बर-भूषितः ॥
अत्र स्थित्वा नरपतिः कृत्स्नां शास्ति वसुन्धराम् ॥ २७५ ॥
दैर्घ्ये एकविंशतिः २१, प्रस्थे द्वादश, १२ ।
──────────────────────────────────────────
( १ ) उपरच्छौत इति (ग) पुस्तक पाठः ।
( २ ) बुधोविदुः इति (ख) पुस्तक पाठः ।
( ३ ) दमनोह्येष इति (ग) पुस्तक पाठः ।