सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 90, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 90

५० युत्तिकल्पतरौ—
अथासन-युक्तिः ।
[ अत्र सिंहासन-युक्तिरुच्यते ]
विशेषाख्यं सामान्य-मासनं द्विविधं मतम् ।
सिंहासनं विशेषाख्यं सामान्यं खट्वादिकम् (१) ।
राज्ञो वरतम(२)न्नाम श्रौसिंहासनमुच्यते ॥ ३४७ ॥
शुभे मुहूर्त्ते शुभ-मास-योगे,
सुवारवेला-तिथिचन्द्र-योगे ।
काले निरुत्पात-निरिति-भावे (†) ;
सिंहासनावस्थ-विधिं वदन्ति ॥ ३४८ ॥
स्थिरराशि-स्थिते भानौ चन्द्रे च स्थिर-भोदिते ।
आसनारम्भ मिच्छन्ति गृहारम्भोऽपि येषु च ॥ ३४९ ॥
एतेन गृहारम्भ-सिंहासनयोरारम्भः ।
तत्र क्रमः,—
बाण-वेदाग्नि-(४) पक्तानि सोपानादि-युगैः क्रमात् ।
चत्वारिंशत्तथा त्रिंशद् विंशतिः