युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 78, कुल 278 में से
संदर्भ में पढ़ें३८ युक्तिकल्पतरौ—
अथैषां लक्षणानि ।
यदत्रैवोच्यते (५) मानं तस्य तेनैव कल्पना * ।
राज्ञः स्वहस्तमेकन्तु दीर्घे सर्व्वत्र निक्षिपेत् ॥ २५५ ॥
आयामेन सुन्दरः स्याद्राज-हस्तैश्च पञ्चभिः ।
परिणाहे चतुर्भिश्च राज-हस्तैः प्रतिष्ठितः ॥ २५६ ॥
अस्याधिदेवता भौमो रक्षतोयं (६) वसुन्धरा ।
द्वाराणि विंशतिश्चास्य रक्त-चित्रावृतानि च ॥ २५७ ॥
रक्तपट्टावृतो गेहः सकलार्थ-प्रसाधकः ।
अत्र स्थित्वा महीपालः सुचिरं पाति (७) मेदिनीम् ॥ २५८॥
दीर्घ-एकपञ्चाशत् ५१, प्रस्थ-चत्वारिंशत् ४० ।
इति सुन्दरः ।
द्वौ राजहस्तावायामे परिणाहे तथैव च ।
इत्ययं सर्व्वतोभद्रः शुक्रश्चास्याधिदेवता ॥ २५९ ॥
दानवा रक्षकाश्चैव पूज्यास्ते चात्र यत्नतः ।
चतुर्दशास्य द्वाराणि कृष्णचित्रावृतानि च (८) ॥ २६० ॥
पीत पट्टावृतो ह्येष सर्व्वानिष्ट-विनाशनः ।
(५) यद्यत्नै वोच्यते इति (ख) पुस्तक पाठः ।
(६) रक्षतौमम् इति (ख)-रक्षतोदम् इति (ग) पुस्तक पाठः ।
(७) पति इति (ख) पुस्तक पाठः ।
(८) 'परिणामे तथैव च' इति (ख) पुस्तकेऽधिकः पाठः ।
- मान-लक्षणान्यन्यानि वास्तुशास्त्रे, पुराणे, ज्योतिःशास्त्रे च सन्ति ।