सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 77, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 77

वास्तुयुक्तिः । ३७
एवं व्यवस्थिते स्थाने मध्यमे तत्प्रदृश्यते ।
आयामे राजच्छत्राणि चत्वारिपरिणाहतः ॥ ४७ ॥
राजच्छत्रैकमानेन राज-दण्ड उदाहृतः ।
अयञ्च सप्तमो भागो वास्तोर्भवति शोभनः ॥ २४८ ॥
अस्मिन् गृहं नृपः कृत्वा सुचिरं पाति मेदिनीम् ।
अस्मिन् विजय-वृद्धिश्च सौख्यञ्च समवाप्नुयात् ॥ २४६ ॥
यो राजा दम्भतो(१)ऽन्यत्र वेश्मारम्भं समाचरेत् ।
य उक्तो राजदण्डोऽयं तस्येदं स्थानपञ्चकम् ॥ २५० ॥
गजो व्याघ्रश्च सिंहश्च मृगो भृङ्गो यथाक्रमम् ।
सिंहे सिंहासनस्थानं व्याघ्रेस्याहारमन्दिरम् ॥ २५१ ॥
गजे यात्रालयं कुर्यात् मृगे केलि-निकेतनम् ।
भ्रमरेऽन्तःपुरं (२) कुर्यात् क्रमेण पृथिवीपतेः ॥
तेन मध्यममेव (३) सिंहासनं दीर्घस्य च चतुरस्रकैः ॥ २५२॥
तत्र भविष्योत्तरे,—
मेषादि-चन्द्रे जातस्य नृपतेः स्यु रनुक्रमात् ।
द्वादशैव गृहान् वक्ष्ये तेषां लक्षणमग्रतः ॥ २५३ ॥
सुनन्दः सर्व्वतो भद्रो भव्यो नान्दीमुखस्ता ॥
विनोदश्च विलासश्च विजयो विमलस्तथा ॥
वङ्गः (४) केलिर्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥ २५४ ॥


(१) राजा दण्डतो इति (क) पुस्तक पाठः ।
(२) भ्रमरेऽन्तःपुरे इति (ख) पुस्तक पाठः ।
(३) तेन मध्यमेन इति (ख) पुस्तक पाठः ।
,, मध्यममेव इति (ग) पुस्तक पाठः ।
(४) रङ्ग इति (ग) पुस्तक पाठः ।