युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 243, कुल 278 में से
संदर्भ में पढ़ेंगजयुक्तिः । २०३
खरता सहजा यस्य शरीरेऽस्तौति लक्ष्यते ।
तनुदन्तकरो हस्तौ खरः कुलविनाशनः ॥ ४ ॥
नजायते मदो यस्य स्वकाले जायतेऽथवा ।
विरूपो विवशो वापि विमदं दूरतस्त्यजेत् ॥ ५ ॥
लघु प्रमाणः क्षौणाङ्गस्तनुशुण्ड शिरोदरः ।
अश्रान्तं श्वसिति (१) व्यग्रः पतेन्नेत्रयोर्मलम् ॥ ६ ॥
त्रिके पुच्छायतो वापि आवर्त्तो मण्डलोऽथवा ।
वहिः (द्भिः) प्रकुरुते लिङ्गं सर्व्वथा गतचेष्टवत् ॥ ७ ॥
भूभुजा नहि वोढव्योऽयं श्वापकाख्यो गजाधमः ।
यदीच्छेच्छाश्वतीं भूतिं शरीरारोग्यमेव वा ॥ ८ ॥
शङ्खदेशो यस्य भग्नौ स्कन्धदेशोऽति गुच्छकः (२) !
काकोऽयं कुरुते मृत्युं स्वामिनो नात्र संशयः ॥ ९ ॥
विषमौ शङ्खगौ दन्तौ यस्य शुण्डविरोधिनौ ।
भिद्यते वा विदीर्येतां स्वयं शून्यान्तरावुभौ ॥
कुरुते व्याधितं नाथं धूम्रनामा गजाधमः ॥ १० ॥
मूर्धजाः कर्कशा रूक्षा जटारूपानुवन्धिनः ।
यस्यायं जटिलो नागः कुरुते धनसंक्षयम् ॥ ११ ॥
स्कन्धे वा गात्रदेशे वा लग्नं चर्मोऽवलक्ष्यते ।
अजिनो नाम नागोऽयं