सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 229, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 229

अश्वयुक्तिः । १८८
पञ्चभिर्नीलवर्णे च षड्भिर्वभ्र् (१) समाकृतौ ।
सप्तभिः पाटलाकारे चणकाभे तथाष्टभिः ॥ ९२ ॥
नवभिश्च हरिद्राभे दशभिर्जतुकोपमे ।
एकादशे सुवर्णाभे वत्सरेण हिमद्युतौ ॥ ९३ ॥
यस्य श्वासो भवेदुष्णः शरीरं पुलकान्वितम् (२) ।
जिह्वा हि मलिनाकारा मासषट्कं स जीवति ॥ ९४ ॥
जिह्वाग्रे पिड़का यस्य पादान्ते च तथोदरे ।
मूत्रं करोति रक्तं वा मासषट्कं स जीवति ॥ ९५ ॥
कर्णयोः क्षतजं यस्य नेत्राभ्यां वा प्रवर्त्तते ।
वाजिनः पित्तग्रस्तस्य दश मासान् स जीवति ॥ ९६ ॥
यस्य नेत्रे हरिद्राभे यस्य वातार्द्दितस्य च ।
तस्यायुः सप्तमासोयं बहुवर्णे तथा दिनैः ॥ ९७ ॥
यस्यैकं लोचनं हीनं द्वितीयं रक्तसन्निभम् ।
पुटान्ते च स विज्ञेयः पीताभे (३) मासजीवकः ॥ ९८ ॥
(एतानि अरिष्टानि वक्त्रदोषजानि ।)
स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतोऽश्वस्य वह्निजाः ।
निर्गच्छन्तः प्रभोर्नाशं ते वदन्ति निशागमे ॥ ९९ ॥
अश्वशालां समासाद्य यदा च मधुमक्षिकाः ।
मधुजालं प्रबध्नन्ति तदाश्वान् (४) घ्नन्ति कृत्स्नशः ॥ १०० ॥
इत्यरिष्टानि ।
(१) वक्र इति (क) पुस्तक पाठः ।
(२) पुलकाङ्कितम् इति (ख) पुस्तक पाठः ।
(३) पीताभो इति (ग) पुस्तक पाठः ।
(४) तदश्वान् इति (घ) पुस्तकपाठः ।