युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
८८ युक्तिकल्पतरौ—
आनीलरक्तोत्पल-चारु भासः ;
सौगन्धिकाख्या मणयो (६) भवन्ति ॥ ६६ ॥
यो मन्दराजः कुरुविन्दजेषु,
स एव जातः स्फटिकोद्भवेषु ।
निरर्चिषोऽन्तर्बहुलो भवन्ति ;
प्रभाव-वन्तो हि न तत् समानाः ॥ ६७ ॥
येतु वारण-गङ्गायां जायन्ते कुरुविन्दकाः ।
पद्मरागा घनं रागं बिभ्राणाः स्वस्फुटार्चिषः ॥ ६८ ॥
वर्णानुयायिनस्तेषां मभ्रं(द्र) देशास्तथापरे ।
जायन्ते यत्र ये केचित् मूल्यलेशमवाप्नुयुः (१०) ॥ ६६ ॥
तथैव स्फाटिकोत्यानां देशे तुम्बु रु संज्ञके ।
समरागाः प्रजायन्ते तेषान्तु कथितन्त्विदम् ॥ ७० ॥
तथा च,—
माणिक्यस्य प्रवक्ष्यामि यथाजाति-चतुष्टयम् ।
ब्रह्म-क्षत्रिय-वैश्याश्च शूद्रश्चाथ यथाक्रमम् ॥ ७१ ॥
रक्तश्वेतो भवेद्विप्रस्ततिरक्तश्च क्षत्रियः ।
रक्तपीतो भवेद्वैश्यो रक्तनीलस्तथान्यजः ७२ ॥
पद्मरागो भवेद्विप्रः कुरुविन्दस्तु वाहुजः ।
सौगन्धिको भवेद्वैश्यः मांस-खण्डस्तथान्यजः ॥ ७३ ॥
शोणपद्म-समाकारः खदिराङ्गार-सप्रभः ।
पद्मरागो द्विजः प्रोक्तः छाया भेदेन सर्वदा ॥ ७४ ॥
गुञ्जा-सिन्दुर-बन्धूक-नागरङ्ग-समप्रभः ।
दाड़िमी-कुसुमाभासः कुरुविन्दस्तु वाहुजः ॥ ७५ ॥
(६) मलयो भवन्ति इति (ग) पुस्तक पाठः ।
(१०) समयाप्नुयुः इति (क)-(ग) पुस्तक पाठः ।
वज्रादियुक्तिः । ८१
हिङ्गलाशोक-पुष्पाभ मीषत्पीतन्तु लोहितम् ।
जपालाक्तारस-प्रायं वैश्यं सौगन्धिकं विदुः ॥ ७६ ॥
आरक्त-कान्तिहीनश्च चिक्रणश्च विशेषतः ।
मांसखण्डसमाभासोऽन्त्यजः पापनाशनः ॥ ७७ ॥
मांसखण्डस्तु नीलगन्धेः संज्ञा * ।
---------------- ०० ----------------
अथ दोषाः [तेषाम्वज्रादीनाम् ] ।
माणिक्यस्य समाख्याता अष्टौ दोषा मुनीश्वरैः ।
विच्छायञ्च वि(द्वि)रूपञ्च सम्भेदः कर्करन्तथा ॥ ७८ ॥
अशोभनं कोकिलञ्च जलं धूम्राभिधञ्च वै ।
गुणाश्चत्वार आख्याताश्छायाः षोडशकीर्त्तिताः ॥ ७९ ॥
छायास्तु पूर्वोक्ता एव ग्राह्याः ।
छाया दितयसम्बन्धाद् द्विच्छायं बन्धुनाशनम् ।
द्विरूपं द्विपदन्तेन माणिक्येन पराभवः ॥ ८० ॥
सम्भेदो भिन्नमित्युक्तं शस्त्रघात-विधायकाः ।
कर्करं कर्करायुक्तं पशुबन्धु-विनाशकृत् ॥ ८१ ॥
दुग्धेनैव समालिप्तं लम्बनौ पुटमुच्यते ।
अशोभनं समुद्दिष्टं माणिक्यं बहुदुःखकृत् ॥ ८२ ॥
मधु-विन्दु-समच्छायं कोकिलं परिकीर्त्तितम् ।
आयुर्लक्ष्मीं यशो हन्ति सदोषं तनुधारयेत् (१४) ॥ ८३ ॥
रागहीनं जलं प्रोक्तं धनधान्यापवादकृत् ।
धूम्रं धूम्रसमाकारं वैद्युतं भयमावहेत् ॥ ८४ ॥
( १४ ) तनूराधयेत् (वाधयेत्)) इति (क)-(ग) पुस्तक पाठः ।
- मांसखण्डरूपत्वात्तस्य नीलगन्धे मांसखण्ड इत्यभिधानम् ।
१२
८० युक्तिकल्पतरौ—
तथा,—
शोभाद्वितयवन्तो ये मणयः च्छित्ति-कारकाः (१५) ।
उभयत्र पदं येषां तेन च स्यात् पराभवः ॥ ८५ ॥
भिन्नेन युद्धे मृत्युः स्यात्कर्करं धन-नाशकृत् ।
दुग्धेनैव समालिप्तः पुटके यस्तु सम्भवेत् ॥ ८६ ॥
दुःखकृत्स समाख्यातो न नृपैः रक्षणीयकः ।
मधुविन्दु-समा शोभा कोकिलानां प्रकीर्त्तिताः ॥ ८७ ॥
तेषाञ्च बहुभेदाः स्युः न ते धार्य्याः कदाचन ॥ ८८ ॥
अथ गुणाः [तेषाञ्चवज्रादीनाम्] ।
गुरुत्वं स्निग्धतां चैव वैमल्य(न्य)मतिरक्तता ।
वर्णादिकं गुरुत्वञ्च स्निग्धता च तथाऽच्छता ॥
अर्चिष्मत्तामहत्ता च मणीनां गुणसंग्रहः ॥ ८६ ॥
अथ फलम् ।
ये कर्कराः छिद्रमयोपदिग्धाः,
प्रभाविमुक्ताः परुषा विवर्णाः ।
न ते प्रशस्ता मणयो भवन्ति ;
समासतो जातिगुणैः समस्तैः ॥ ९० ॥
दोषोपसृष्टं मणिमप्रबोधा,
विभर्त्ति यः कश्चन कश्चिदेकम् ।
तं(तद्) बन्धुदुःखाय सबन्धुवित्त-
नाशादयो दोष-गुणा भजन्ते ॥ ६१ ॥
सपत्न-मध्ये हि कृताधिवासम्,
प्रमादवृत्तावपि वर्त्तमानम् ।
( १५ ) क्षतिकारकाः इति (क)-(ग) पुस्तक पाठः ।
वज्रादियुक्तिः । ८१
न पद्मरागस्य महागुणस्य ;
भर्त्तारमापत् समुपैति काचित् ॥ ६२ ॥
दोषोपसर्ग-प्रभवाश्च ये ते,
नोपद्रवास्तं समभिद्रवन्ति ।
गुणैः समृद्धैः सकलैरुपेतम् ;
यः पद्मरागं प्रयतो विभर्त्ति ॥ ६३ ॥
वालार्क-करसंस्पर्शाद् यः शिखां लोहिताम्बमेत् (१६) ।
रञ्जयेदाश्रमञ्चापि स महा गुण उच्यते ॥ ६४ ॥
दुग्धे शतगुणे क्षिप्ता रञ्जयेद् स समन्ततः ।
वमेच्छिखां लोहिताम्बा पद्मरागः स उत्तमः ॥ ६५ ॥
अन्धकारे महाघोरे यो न्यस्तः सन् महामणिः ।
प्रकाशयति सूर्याभः स श्रेष्ठः पद्मरागकः ॥ ६६ ॥
पद्मकोषे तु यन्न्यस्तं विकाशयति तत्क्षणात् ।
पद्मरागवरो ह्येषः देवानामपि दुर्लभः ॥ ६७ ॥
सर्वारिष्ट-प्रशमनाः सर्व्वसम्पत्ति-दायकाः ।
चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम् ॥ ६८ ॥
यो मणिर्द्दृश्यते दूराद् ज्वलदग्निसमच्छविः ।
वंश-कान्तिः स विज्ञेयः सर्व्वसम्पत्ति-दायकः ॥ ६६ ॥
पञ्चसप्त-नव विंशतिः राग-सकलः खलु (स्वर्णं) वस्त्रे ।
वर्ज्जयेद्धमति वा करजालं उत्तरोत्तर-महागुणिनस्ते ॥ १०० ॥
नीलौरसं दुग्धरसं जलञ्च,
ये रञ्जयन्ति द्विशतं प्रमाणम् ।
ते ते यथा पूर्व्वमति प्रशस्ताः ;
सौभाग्यसम्पत्ति-विधान-दायकाः ॥ १ ॥
( १६ ) लोहिताम्बसेत् (च्छुसेत्) इति (क) पुस्तक पाठः ।
९२ युक्तिकल्पतरौ—
गुञ्जाफल-प्रमाणन्तु दशसप्तद्विगुञ्जकान् ।
पद्मरागस्तु नयति यथापूर्वं महागुणः ॥ २ ॥
क्रोष्टुकोण फलाकारान् द्वादशाष्टादिगुञ्जकान् । .
पद्मरागस्तु नयति यथापूर्वं महागुणः * ॥ ३ ॥
बदरीफल तुल्यो यः सुर दिग्-वसु-मासकः ।
धात्रीफलञ्च त्रिंशच्च विंशति-द्वाष्ट-मासकः ॥ ४ ॥
तथाक्षफल तुल्यो यः वह्निपञ्चैक मासकः ।
ताम्बुलफलमानो यश्चतुस्त्रि-दिक-तोलकः ॥ ५ ॥
विल्वी(ल्बो)फलसमाकार-वसु-षट्दश-तोलकः ।
अतःपरं प्रमाणेन मानेन च न लक्ष्य(भ्य)ते ॥ ६ ॥
यदि लब्धे(भ्ये)त पुण्येन तदा सिद्धिमवाप्नुयात् ।
केचिच्चारुतराः सन्ति जात्यानां प्रतिरूपकाः ॥ ७ ॥
विजातयः प्रयत्नेन विद्वांस्तान् मूल(स)माहरेत् (१८) ॥८॥
कोङ्कनकाः (१९) सिंहलदेशोत्थ-मुक्तमालीयाः ।
श्रीपर्णीकाश्च सदृशा विजातयः पद्मरागाणाम् ॥ ६ ॥
तुषोपसञ्जाङ्गल(२०)माभिधानम्,
मणिः स्वभावादपि तुम्बुरुत्थः।
कार्णात्तथा सिंहल-देशजातम् ;
मुक्ताभिधानं नभसः स्वभावात् ॥ १० ॥
श्रीपर्णीकं दीप्ति-निराकृतित्वा,
द्विजाति-लिङ्गाश्रयभेद एषः ॥ ११ ॥
(१८) -स्तां नूनसमाहरेत् इति (क) पुस्तक पाठः ।
(१९) काङ्कनका इति (क) पुस्तक पाठः ।
(२०) तुषोपमर्द्धाङ्गल- इति (क)-(ग) पुस्तक पाठः ।
वज्रादियुक्तिः । ८३
तथाच,—स्नेहप्रदेहो मृदुतालघुत्वं,
विजाति-लिङ्गं खलु सार्व्वजन्यम् ।
यः श्यामिकां पुष्यति पद्মরাगो ;
यो वा तुषाणां इव चूर्ण-मध्यः ॥ १२ ॥
स्नेह-प्रदिग्धो नच यो विभाति,
यो वा प्रमृज्यं(ह्यं) प्रजहाति दोषम् ।
आक्रान्त मूर्द्धा च तथाङ्गुलौभ्याम् ;
यः कालिकां पार्श्वगता (ं) विभर्त्ति ॥ १३ ॥
संप्राप्यतां (२१) चोपपथं खवृत्तम्,
विभर्त्ति यः सर्व्वगुणामतीव ।
तुल्य प्रमाणस्य च तुल्य जाति ;
र्यो वा गुरुत्वेन भवेन्न तुल्यः ॥ १४ ॥
प्राप्यापि नानाकरदेशजातम्,
ज्ञात्वा बुधो जाति गुणेन लब्धेत् ॥ १५ ॥
अप्रणश्यति सन्देहे शिलायां परिघर्षयेत् ।
घृष्टो योत्यन्तशोभावान् गरिमानं न मुञ्चति ॥ १६ ॥
स ज्ञेयः शुद्धजातिस्तु ज्ञेयाश्चान्ये विजातयः ।
स्व-जातक-संमुखेन विलिखेद्वा परस्परम् ॥ १७ ॥
वज्रं वा कुरुविन्दं वा विमुच्यान्योन्य केनचित् ।
न शक्यं लेखनं कर्त्तुं पद्मरागेन्द्र-नीलयोः ॥ १८ ॥
जातस्य सर्व्वेऽपि मणेर्न जातु,
विजातयः कान्ति-समान-वर्णाः ।
तथापि नाना करणार्थमेवम् ;
भेद-प्रकारः परमः प्रदिष्टः ॥ १६ ॥
(२१) प्राप्यचाक्षोपि इति (क)-(ग) पुस्तक पाठः
८४ युक्तिकल्पतरौ—
गुणोपपन्नेन सहावरुद्धो,
मणित्वधार्य्यो विगुणेन जात्यम् ।
सुखं न कुर्य्यात् अपि कौस्तुभेन (१) ;
विद्वान् विजातिं विभृयात् कदाचित् (२) ॥ २० ॥
चण्डाल एकोऽपि यथा विजातौन्,
समेत्य भूरीन् अपहन्ति यत्नात् ।
तथा मणीन् भूरि गुणोपपन्नान् ;
शक्नोति विद्रावयितुं विजातम् ॥ २१ ॥
—*—
अथ वज्रादीनां मूल्यम् ।
बालार्काभिमुखं कृत्वा दर्पणे धारयेत् मणीन् ।
तत्र कान्तिविभागेन छायाभागं विनिर्दिशेत् ॥ २२ ॥
वज्रस्य यत् तण्डुलसंख्ययोक्तम्,
मूल्यं समुन्मापित गौरवस्य ।
तत् पद्मरागस्य तृणान्वितस्य ;
स्यान्माषकाख्या तुलितस्य मूल्यम् ॥ २३ ॥
यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्त्तितम् ।
तावन्मूल्यं तथा शुद्धे कुरुविन्दे विधीयते (३) ॥ २४ ॥
सगुणे कुरुविन्दे च यावन्मूल्यं प्रकीर्त्तितम् ।
तावन्मूल्य-चतुर्थांशं हीनं स्याद्वै सुगन्धिके ॥ २५ ॥
( १ ) न कौस्तुभे नापि सहावरुद्धम् इति (ग) पुस्तक पाठः ।
( २ ) विद्वान् विजातिं न भृयादु घस्तं इति (क) पुस्तक पाठः ।
( ३ ( तथाशुद्धैः कुरुविन्दैः इति (ख) पुस्तक पाठः ।
पद्मरागयुक्तिः । १५
यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः ।
तावन्मूल्यं चतुर्थांशं हीयते शूद्रजन्मनि ॥ २६ ॥
पद्मरागः पलं यस्तु धत्ते लाक्षारस-प्रभः ।
कार्षापण-सहस्राणि त्रिंशन्मूल्यं लभेत सः ॥ २७ ॥
इन्द्रगोपक संकाशः कर्षत्रय-धृतो-मणिः ।
द्वाविंशतिं सहस्राणां तस्य मूल्यं विनिर्दिशेत् ॥ २८ ॥
एकोनोनूयते यस्तु जवाकुसुम-सन्निभः ।
कार्षापण-सहस्राणि तस्य मूल्यं चतुर्दश ॥ २६ ॥
बालादित्य द्युति-निभं कर्षं यस्तु प्रतुल्यते ।
कार्षापण-शतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम् ॥ ३० ॥
यस्तु दाड़िम-पुष्पाभः कर्षार्द्धेन तु सन्मितः ।
कार्षापण शतानान्तु विंशतिं मूल्यमादिशेत् ॥ ३१ ॥
चत्वारो माषका यस्तु रक्तोत्पल-दल-प्रभः ।
मूल्यं तस्य विधातव्यं सूरिभिः शत-पञ्चकम् ॥ ३२ ॥
द्विमाषको यस्तु गुणैः सर्वैरेव समन्वितः ।
तस्य मूल्यं विधातव्यं द्विशतं तत्त्ववेदिभिः ॥ ३३ ॥
माषकैक-मितो यस्तु पद्मरागो गुणान्वितः ।
शतैक-सम्मितं वाच्यं मूल्यं रत्न-विचक्षणैः ॥ ३४ ॥
अतोऽन्यून-प्रमाणास्तु(न्तु) पद्मरागा गुणोत्तराः ।
स्वर्ण-द्विगुण मूल्येन मूल्यं तेषां प्रकल्पयेत् ॥ ३५ ॥
कार्षापणः समाख्यातः पुराणद्वय-सम्मितः ।
अन्ये कुसुम्भ-पानीय-मञ्जिष्ठोदक-सन्निभाः ॥ ३६ ॥
काषाया इति विख्याताः स्फटिक-प्रभवाश्च ते ।
तेषां दोषान् गुणान् वापि पद्मराग-वदादिशेत् ॥ ३७ ॥
मूल्यमल्पन्तु विज्ञेयं कारणेऽल्पफलन्तथा ।
८६ युक्तिकल्पतरौ—
ब्रह्म-क्षत्रिय-वैश्यान्त्याश्चतुर्द्धा ये प्रकीर्त्तिताः ॥ ३८ ॥
चतुर्विधैर्नृपतिभिर्धार्याः सम्पत्ति-हेतवे ।
अतोऽन्यथाधृतः कुर्य्याद्रोगशोक-भयक्षयम् ॥ ३९ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ
पद्मराग-परीक्षा ॥
अथ हीरकपरीक्षा * ।
गारुड़े,—
हेम-मातङ्ग-सौराष्ट्राः पौण्ड्र-कालिङ्ग-कौशलाः ।
वेण्वा(ल्वा) तटाः स सौवीरा वज्रस्याष्टौ विहारकाः ॥ ४०॥
आताम्रा हिमशैलजाः शशिनिभा वेण्वातटीया मताः,
सौवीरे तु सिताश्च मेघसदृशास्ताम्राश्च सौराष्ट्रजाः ।
कालिङ्गाः कनकावदातरुचिराः पीत-प्रभाः कौशले ;
श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्त-पोतप्रभाः ॥ ४१ ॥
कृतयुगे कलियुगे कौशले वज्र-सम्भवः
हिमालये मतङ्गाद्रौ त्रेतायां कुलिशोद्भवः ॥ ४२ ॥
पौण्ड्रे च सुराष्ट्रे च द्वापरे परि-सम्भवः ।
वैरागरे च सौवीरे कलौ हीरक-सम्भवः ॥ ४३ ॥
पृथिव्यपो-वियत्तेजो मरुच्चैवेति पञ्चभिः ।
पञ्चभूतात्मकं वज्रं तैजसं प्रायसो भवेत् ॥ ४४ ॥
महापुराणं खदनं सुशोभं पार्थिवं विदुः ।
स्निग्धं मृदु-घनं स्वच्छमाप्यमाहुः परं बुधाः ॥ ४५ ॥
- वज्रं (हीरक)-वृत्तन्तु गरुड़पुराण-वामनपुराण-भागवत-मत्स्यपुराण-राजनिर्घण्ट-
भावप्रकाशादिषु द्रष्टव्यम् ।
वज्रादियुक्तिः । ९७
विमलं शुचितीक्ष्णाग्रं वैयतं वज्रमुच्यते ॥
सुतीक्ष्णं दीप्तिमत् स्वच्छं तेजसं वज्रमुच्यते ॥ ४६ ॥
लघुतीक्ष्णः खरस्पर्शो वायव्यः परिकथ्यते ।
ब्रह्म-क्षत्रिय-विट्-शूद्रा भेदास्ते तु चतुर्विधाः ॥ ४७ ॥
श्वेता रक्ता तथा नीला कृष्णा छाया चतुर्विधाः ।
ब्रह्म-क्षत्रिय-विट्-शूद्र-जातेर्वज्रस्य विक्रमात् ॥ ४८ ॥
गारुड़े,—
विप्रस्य शङ्ख-कुमुदस्फटिकावदातः,
स्यात्क्षत्रियस्य शशवज्रविलोचनाभः ।
वैश्यस्य कान्त-कदली-दलसन्निकाशः ;
शूद्रस्य धौत-करवाल-समानदीप्तिः ॥ ४६ ॥
हरित-सित-पीत-पिङ्ग-श्यामा-ताम्राः स्वभावतोरुचिराः ।
हरिवरुण-शक्र हुतवह-पितृपति मरुतां स्वका वर्णाः ॥ ५० ॥
द्वौ वज्रवणौँ पृथिवीपतीनाम्,
सद्भिः प्रतिष्ठौ नतु सार्वजन्यौ ।
यः स्याज्जवाविद्रुम-भङ्गशोणो ;
यो वा हरिद्रा-रससन्निकाशः ॥ ५१ ॥
ईशत्वात् सर्ववर्णानां गुणवत् सार्ववर्णिकम् ।
कामतो धारयेद् राजा नत्वन्योन्यं कथञ्चन ॥ ५२ ॥
अथ गुणाः—[ गारुड़े ] ।
कोट्यः पाश्र्वानि धाराश्च षडष्टौ द्वादशेति च ।
उत्तुङ्ग सम तीक्ष्णाग्रा वज्रस्याकरजा गुणाः ॥ ५३ ॥
षट्कोणकं लघुत्वञ्च समाष्टादश(ल)ता तथा ।
तीक्ष्णाग्रता निर्मलत्व मेते पञ्चगुणा मताः ॥ ५४ ॥
१३
Digitized By Siddhanta eGangotri Gyaan Kosha
६८ युक्तिकल्पतरौ—
अत्यर्थं लघुवर्णतश्च गुणवत् पार्श्वेषु सम्यक्स्थितम्,
रेखाविन्दुकलङ्क-काकपदक-त्रासादिभिर्वर्जितम् ।
लोकेऽस्मिन् परमाणुमात्रमपि यद् वज्रं क्वचिद् दृश्यते ;
तस्मिन्देवसमाश्रयो ह्यवितथं तीक्ष्णाग्रधारं यदि ॥ ५५ ॥
षट्कोटि-शुद्धममलं स्फुटतीक्ष्णधारम्,
वर्णान्वितं लघुसुपार्श्वमपेत-दोषम् ।
इन्द्रायुधांशु-विसृति छुरितान्तरीक्षम् ;
एवंविधं भुवि भवेत् सुलभं न वज्रम् ॥ ५६ ॥
प्रसुते काण्डसम्भिन्नं शक्रायुध-समां शिखाम् ।
अत्यन्त लघुतीक्ष्णाग्रं तद्वज्रं वज्र-धारणम् ॥ ५७ ॥
विष्णुधर्मोत्तरे, — ( अग्निपुराणे च ) ।
अम्भस्तरति यद्वज्रं अभेद्यं विमलञ्च यत् ।
सत्कोणं शक्रचापाभं लघुचार्कनिभं शुभम् ॥
तथा संशुद्ध षट्कोणं लघु भार्गव-नन्दन ! ॥ ५८ ॥
प्रभा च शक्रचापाभा यस्यार्काभिमुखो भवेत् ।
तद्वज्रं धारयेद्राजा सर्वान् जयति शात्रवान् ॥ ५९ ॥
तथा च,—
यस्तु वारि-भवो नाम दुर्वापत्र-जलच्छविः ।
सुवर्णमात्रं तुलया (१) तद्वज्रं कोटि-भाजनम् ॥ ६० ॥
ऊर्द्धं निवारयेद्वज्रमधः सर्पान्निवारयेत् ।
रात्रौ निवारयेद्भूतान् हीरकस्यैव धारणात् ॥ ६१ ॥
तीक्ष्णाग्रं विमलमपेत सर्वदोषम्,
धत्ते यः प्रयततनुः सदैव वज्रम् ।
( १ ) गणयेत् इति (क) पुस्तक पाठः ।
CC-0. Gurukul Kangri Collection, Haridwar.
वज्रादि-युक्तिः । ९९
वृद्धिस्तं प्रतिदिनमेति यावदायुः ;
श्रीसम्पद्युत धन-धान्य-गो-पशूनाम् ॥ ६२ ॥
व्यालवह्नि-विषव्याघ्र तस्कराद्यभयानि च ।
दूरादेव निवर्त्तन्ते कर्म्माण्यथर्व्वणानि च ॥ ६३ ॥
यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि ।
रत्नवर्गे समस्तेऽपि तस्य धारणमिष्यते ॥ ६४ ॥
यद्यपि विशीर्ण-कोटिः सविन्दु-रेखान्वितो विवर्णो ।
तदपि च धनधान्य-सुतान् करोति सेन्द्रायुधो वज्रः ॥ ६५ ॥
सौदामिनी-विस्फूरिताभिरामम्,
राजा यथोक्तं कुलिशं दधानः ।
पराक्रमाक्रान्त-पर-प्रतापः ;
समस्तसामन्त-भुवं भुनक्ति ॥ ६६ ॥ (इति गारुडे) ।
समस्तां पृथिवीं पाति पार्थिवस्य विधारणात् ।
तृप्तिर्लक्ष्मीर्यशः कीर्त्तिरायुर्वज्रस्य धारणात् ॥ ६७ ॥
उत्साहः प्रियतुष्टित्वं विप्रणाशनमेव च ।
तथा सम्पत्तयः सर्वा वैयेते परिधारिते (२) ॥ ६८ ॥
प्रतापः शौर्य्यमुत्साहः तैजसस्य विधारणात् ।
यज्ञाज्ज्ञानं तपोभिश्च यदाप्नोति तदाप्नुयात् ॥ ६९ ॥
गुणयुक्तस्य वज्रस्य विप्रजातेर्विधारणात् ।
जपः पराक्रमस्तस्य शत्रुनाशश्च जायते ॥ ७० ॥
गुणवत्-क्षत्रजातीनां वज्रं वसति यद्गृहे ।
कलाकुशलताद्रव्यं प्रज्ञा क्षेमं यशो महत् ॥ ७१ ॥
गुणिनः परिरत्नस्य वैश्यजातेर्विधारणात् ।
परोपकारिता क्षेमं धन-धान्य-समृद्धयः ॥ ७२ ॥
(२) परिधारणात् इति (ख) पुस्तक पाठः ।
१०० युक्तिकल्पतरौ-
गुणयुक्तस्य वज्रस्य शूद्रजातेर्विधारणात् ।
अन्यच्चतुर्विधं वज्रं प्रवदन्ति पुरातनाः ॥ ७३ ॥
हिमकुन्देन्दुधवलं षट्कोणाष्टदलन्तथा ।
तीक्ष्णं वारिभवं वज्रं घनशब्देति कान्तिमत् ॥ ७४ ॥
अन्धकारे च दीप्येत तज्ज्ञेयं वज्रधारणम् ।
गुणाढ्यं तीक्ष्णधारं यत् सर्प-दर्प-निवारणम् ॥ ७५ ॥
तस्य धारणेतो येन विषरोगः प्रशाम्यति ।
सूर्यकोटि-प्रतीकाशं चन्द्रकोटि-सुशीतलम् ॥ ७६ ॥
अन्धकार-हरं वज्रं विज्ञेयं महदुत्तमम् ।
तस्य धारणतोयेन सर्वरोगः प्रशाम्यति ॥ ७७ ॥
तप्ते दुग्धे जले तैले घृते क्षिप्तोऽपि यः परि ।
शीततां नावहेत् (३) सद्यः संज्ञेयः सुरदुर्लभः ॥ ७८ ॥
एषामन्यतरं लब्ध्वा नृपः सुखमवाप्नुयात् ।
तत्तु त्रिभुने नास्ति यन्न धारयते नृपः ॥ ७६ ॥
अथ दोषाः ।
मलो विन्दुस्तथा रेखा त्रासः काकपदस्तथा ।
एते दोषाः समाख्याताः पञ्चवज्रेषु कोविदैः ॥ ८० ॥
मले मलिनता ख्याता विन्दौ सर्वार्थ-नाशनम् ।
रेखायां द्रंद्रिणो भीतिस्त्रासे त्रासः क्षयः पदे ॥ ८१ ॥
मले मलिनता ख्याता रेखायां द्रंद्रिणो भयम् ।
कोणे व्याधि-भयं प्रोक्तं मध्ये व्याधि-भयम्भवेत् ॥ ८२ ॥
दोषेषु विन्दुरावर्त्तः परिवर्त्ती यदाकृतिः ।
चतुर्द्धैवं समाख्याता विन्दवो वज्र-संश्रिताः ॥ ८३ ॥
( ३ ) नावयेत् इति (ख) पुस्तक पाठः।
वज्रादियुक्तिः । १०१
वज्रोऽथ वर्त्तुलो विन्दुरावर्त्तो मध्य-वर्त्तुलः ।
वज्रः परिवर्त्तु ... ... रक्त एव यवाकृतिः ॥ ८४ ॥
विन्दुरायर्धनं हन्यात् दावर्त्तो वज्रमादिशेत् ।
परिवर्त्ते भवेद् व्याधिर्यवे तत् फलमुच्यते ॥ ८५ ॥
श्वेतो रक्तस्तथा पीत-श्वेतश्चेति यथा मतः ।
रक्तवर्णे यवे ख्यातं गजाश्वस्य विनाशनम् ॥ ८६ ॥
यवे पीते कुलस्यान्तं धनमायुः सिते भवेत् ।
एवं दोष-गुणाः प्रोक्ताः परिविन्दोरशेषतः ॥ ८७ ॥
सव्यवक्राः शुभा रेखा रामवक्रा भयङ्करो ।
छेद भ्रान्तिकरो छेदा रेखाशस्त्र-भयप्रदा ॥ ८८ ॥
पञ्चद्वय प्रदृश्याया छेदा सा परिकीर्त्तिता ।
रेखा बन्धु-विनाशाय जायते वज्रसंश्रया ॥ ८६ ॥
सव्या चैवोपसव्या च छिन्ना रेखोर्द्धगामिनौ ॥
सव्या चात्मभिदा ज्ञेया अपसव्या धनच्छिदा ॥ ९० ॥
ऊर्द्धा चासंप्रहारायच्छिन्ना छेदाय वन्धुभिः ।
अङ्कः काकपदाकारो दृश्यते यः पदोत्थितः ॥ ६१ ॥
स मृत्युमादिशत्याहुः(युः) धनं वा सकलं हरेत् ।
भग्नाग्रं भङ्गधारञ्च दलहोनञ्च वर्त्तुलम् ॥ ६२ ॥
कान्तिहोनञ्च यद्वज्रं दोषाय न गुणाय तत् ।
भिन्न भ्रान्ति-करन्त्रासः सत्रासं जनयेद् ध्रुवम् ।
अपि सर्वगुणैर्युक्तं न तादृग् धारयेद्बुधः ॥ ६३ ॥
अथ अन्यान्यपि ।
एकमपि यस्यसैन्यं (६) शृङ्गं विदलितमवलोक्यते विशीर्णांम्बा ।
गुणवदपि तन्न धार्य्यं वज्रं श्रेयोऽर्थिभिर्भवेने ॥ ६४ ॥
(६) अत्र सैन्यं इत्यधिक पाठः (ख)-(ग) पुस्तकेऽस्ति ।
१०२ युक्तिकल्पतरौ—
स्फुटिताग्नि विशीर्ण शृङ्गदेशम् मलवर्णैः पृषतैरुपेतमध्यम् ।
न हि वज्रभृतोऽपि वज्रमाशु श्रियमन्याय्य-नाशं विधत्ते ॥ ९५ ॥
यस्यैकदेशे क्षतजावभासो यद्वा भवेल्लोहितवर्ण-चित्रम् ।
नतन्न कुर्य्यात् ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जीवितान्तम् ॥ ९६॥
प्रथमं गुणसम्पदाद्युपेतं प्रतिबद्धं यमुपैति यत् स दोषम् ।
सुलभाभरणेन तस्य राज्ञो गुण-हीनोऽपि मणिर्न भूषणाय ॥ ९७ ॥
यस्य क्षते भवेच्छोथो दाहो वा ज्वर एव च ।
तथा चिमचिमायेत तद्वज्रं दुष्टमुच्यते ॥ ९८ ॥
कर्कशं गुरु यद् वज्रं न तद्धारयते नृपः ।
त्रिकोणं कलहो यस्माच्चतुष्कोणं भयावहम् ॥ ९९ ॥
पञ्चकोणे भवेन्मृत्युः षट्कोणं शुद्धमादिशेत् ।
द्विदले कलहो नित्यं त्रिदले सुखनाशनम् ॥ १०० ॥
चतुष्कोणे सुखावाप्तिःशोकश्च पञ्चमे दले ।
षड्दले राजतो भीतिर्मृत्युः सप्तदले तथा ॥
अष्टदलं भवेच्छुद्धं वज्रमित्याह ‘पावकः’ ॥ १ ॥
विच्छायं विपदं करोति मलिनं धत्ते शुचं कर्कशम्,
दुःखं स्नेह-विलिसमन्तकरणं श्याम(व)च्छविः क्लेशकृत् ।
रेखाकाक-पदाङ्क-विन्दु सहितं स्यान्मृत्यवे देहिनाम् ;
वज्रं वज्रविचक्षणैस्तु विभृयात्तस्माद्विचाय्य स्वयम् ॥ २ ॥
गुर्विणीभिर्न धर्त्तव्यो युवतीभिरयं मणिः ।
जठरे वज्र-सम्पर्काद् गर्भस्तासां हि शुष्यति ॥ ३ ॥
अयसा पद्मरागेण तथा गोमेदकेन च ।
वैदूर्य्यस्फटिकाभ्याञ्च काचैर्वा(ष्रा)पि पृथग्विधैः ॥ ४ ॥
प्रतिरूपाणि कुर्व्वन्ति वज्रस्य कुशला नराः ।
परोक्षा तेषु कर्त्तव्या विद्वद्भिः सुपरीक्षकैः ॥ ५ ॥
हीरकादिभूत्युक्तिः । १०३
क्षारोल्लेखन शाणैस्तु (१०) कार्यं तेषां परीच्छणम् ।
क्षाराम्लैर्लेपयेद्वज्रं रौद्रे चैव परीक्षयेत् ॥ ६ ॥
क्वचिन्न याति वैवर्ण्यं स्वरूपञ्चाभिदीप्यते ।
क्षीयते शाणसंसर्गात् (११) चूर्णतां याति चूर्णितम् ॥ ७ ॥
तथा च,—
पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः ।
सर्वाणि विलिखेद्बज्रं तच्च तैर्न विलिख्यते ॥ ८ ॥
गुरुता सर्वरत्नानां गौरवाधान-कारणम् ।
वज्रेऽतान् वैपरीत्येन सूरयः परिचक्षते ॥ ९ ॥
न तेषां प्रतिबन्धानां भा भवत्यूर्द्धगामिनी ।
तिर्यक् क्षतत्वात् केषाञ्चित् कथञ्चिदपि दृश्यते ॥ १० ॥
तिर्यग्गालिख्यमानानां सा पार्श्वेष्वपि (१२) हन्यते ॥ ११॥
—*—
अथ मूल्यम् ।
अष्टाभिः सर्षपैः गौरैस्तण्डलं परिकल्पयेत् ।
तण्डुलेन तु वज्राणां धारणे मूल्यमुच्यते ॥ १२ ॥
यदि वज्रमपेत सर्व-दोषं, विभृयात्तण्डुलविंशतिं गुरुत्वे ।
मणि-शास्त्रविदो वदन्ति तस्य द्विगुणं रूपक-लक्षशमग्र्यमूल्यम् ॥ १३ ॥
त्रिभागहीनार्द्ध-तदर्द्धशेषं त्रयोदशं त्रिंशदतोऽर्द्धभागाः ।
अशीति भागोऽथ शतांशभागाः सहस्रभागोऽल्पसमानयोगः ॥ १४॥
(१०) शालाभिः इति (क) पुस्तक पाठः ।
(११) क्षयते शाणसंघर्षात् इति (ख) पुस्तक पाठः ।
(१२) सा पार्श्वेषु विहन्यते इति (ख) पुस्तक पाठः ।
inलक्ष्यालक्ष्येण(line 4):लक्ष्य. The लhas two humps and a vertical line. In line 3, the letter has two humps and a vertical line with anेmatra:ले! The text literally has a typographical error लेकावसानस्यforत्वेकावसानस्य! Wait, let's look closely, could it be त्वे? No, the compositor probably read त्वेasलेin the manuscript! In many manuscripts,त्वेandलेlook almost identical! So the typesetter printedलेकावसानस्य! Wait, can it be transcribed as त्वेकावसानस्यorलेकावसानस्य? Let's look at लेकावसानस्य- yes, it looks just likeलेकावसानस्य`.
-
Verse 16:
अनेनापि हि (१३) दोषेण लक्ष्यालक्ष्येण दूषितम् ।
स्वमूल्याद्दशमं भागं वज्रं लभति मानवः ॥ १६ ॥ -
Verse 17:
प्रकटानेकद्दोषस्य स्वल्पस्य महतोऽपि वा ।
Wait, look atप्रकटानेकद्दोषस्य:
Wait, is itप्रकटानेकद्दोषस्यor
प्रवालयुक्तिः । १०५
अरुणं शशरक्ताख्यं कोमलं स्निग्धमेव च ।
प्रवालं विप्रजातिः स्यात् सुखवेध्यं मनोरमम् ॥ २२ ॥
जवाबन्धूकसिन्दूरं दाड़िमी-कुसुम-प्रभम् ।
कठिनं दुर्वेध्यमस्निग्धं क्षत्रजातिं तदुच्यते ॥ २३ ॥
पलाशकुसुमाभासं तथापाटल-सन्निभम् ।
वैश्यजातिर्भवेत् स्निग्धं वर्णाढ्यं मन्दकान्तिमत् ॥ २४ ॥
रक्तोत्पलदलाकारं कठिनं न चिरद्युतिः ।
विद्रुमं शूद्रजातिः स्याद् वायु-वेद्यं तथैव च ॥ २५ ॥
रक्तता स्निग्धता दार्य्यं चिरद्युति-सुवर्णता ।
प्रवालानां गुणाः प्रोक्ताः धनधान्य-कराः पराः ॥ २६ ॥
हिमाद्रौ यत्तु संजातं तद्रक्तमतिनिष्ठुरम् ।
तत्र लिप्तो भवेन्निम्ब-कल्कोऽति मधुरः स्थिरः(तः) ॥ २७ ॥
तस्य धारण-मात्रेण विषवेगः प्रशाम्यति ।
विवर्णता तु खरता प्रवाले दूषणद्वयम् ॥ २८ ॥
रेखा काकपदो विन्दुर्यथा वज्रेषु दोषकृत्(हृत्) ।
तथा प्रवाले सर्व्वत्र वर्ज्जनीयं विचक्षणैः ॥ २९ ॥
रेखा हन्याद् यशोलक्ष्मीमावर्त्तः कुलनाशनः ।
पट्टलो रोगकृत् ख्यातो विन्दुर्घन-विनाशकृत् ॥ ३० ॥
त्रासः सञ्जनयेत्त्रासं नैलिका मृत्यु-कारिणी ।
मूल्यं शुद्ध-प्रवालस्य रौप्यद्विगुणमुच्यते ॥ ३१ ॥
धारणेऽस्यापि नियमो जाति-भेदेन पूर्ववत् ॥ ३२ ॥
तथाहि,—
विरूप-जातिं विषमं विवर्णम्,
खर-प्रवालं प्रवदन्ति ये ये ।
१४
१०६ युक्तिकल्पतरौ—
ते मृत्युमेवात्मनि वै वहन्ति
सत्यं वदत्येष यतो मुनीन्द्रः * ॥३३॥
इति श्रीभोजराजीये युक्तिकल्पतरौ प्रवाल परीक्षा ॥
—*—
अथ गोमेद परीक्षा ।
हिमालये वा सिन्धौ वा गोमेद-मणिसम्भवः ।
स्वच्छकान्तिर्गुरुः स्निग्धो वर्णाढ्यो दीप्तिमानपि ॥ ३४ ॥
वलक्षः पिञ्जरो धन्यः 'गोमेद' इति कीर्त्तितः ।
चतुर्द्धा जाति-भेदस्तु गोमेदेऽपि प्रकाश्यते ॥ ३५ ॥
ब्राह्मणः शुक्लवर्णः स्यात् क्षत्रियो रक्त उच्यते ।
आपीतो वैश्यजातिस्तु शूद्रस्वानील उच्यते ॥ ३६ ॥
छाया चतुर्विधा श्वेता रक्ता पीताऽसिता तथा ॥ ३७ ॥
गुरुः प्रभाढ्यः सितवर्णरूपः स्निग्धो मृदुर्वाति महापुराणः ।
स्वच्छस्तु गोमेदमणिर्घृ तोऽयं करोति लक्ष्मीं धनधान्य-वृद्धिम् ॥३८॥
मुक्तायुक्तिः । १०७
शुद्धस्य गोमेद मणेस्तु मूल्यं, सुवर्णतो द्वैगुणमाहुरेके ।
अन्ये तथा विद्रुमतुल्य-मूल्यं ; तथापरे चामरतुल्यमाहुः ॥ ४१ ॥
चतुर्विधानामेषान्तु धारणे परिसम्मतम् ॥ ४२ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ गोमेद परीक्षा ॥
अथ मुक्ता परीक्षा ।
द्विपेन्द्र जीमूतवराहशङ्ख, मत्स्याहि-शुक्त्युद्भववेणुजानि ।
मुक्ताकलानि प्रथितानि लोके ; तेषान्तु शुक्त्युद्भवमेव भुरि * ॥ ४३ ॥
वेध्यन्तु शुक्त्युद्भवमेव तेषां, शेषान्यवेध्यानि वदन्ति तज्ज्ञाः ।
मतङ्गजा ये तु विशुद्धवंश्या ; स्तेमौक्तिकानां प्रभवाः प्रदिष्टाः ॥ ४४ ॥
उत्पद्यते मौक्तिकमेषु वृत्तम्, आपीतवर्णं प्रभया विहीनम् ॥ ४५ ॥
वक्ष्ये गजपरीक्षायां गजजातिर्चतुर्विधा ।
मौक्तिकं तेषु जातं हि चतुर्विधमुदीर्य्यते ॥ ४६ ॥
ब्राह्मणं पीतशुक्लन्तु क्षत्रियं पीतरक्तकम् ।
पीतश्यामन्तु वैश्यः स्यात् शूद्रं स्यात् पीतनीलकम् ॥ ४७ ॥
काम्बोज-कुम्भसम्भूतं धात्रीफलनिभं गुरु ।
अतिपिञ्जरसच्छायं मौक्तिकं मन्ददीधिति ॥ ४८ ॥
धाराधरेषु जायेत मौक्तिकं जल-विन्दुभिः ।
दुर्लभन्तन्मनुष्याणां देवैस्तत् ह्रियतेऽम्बरात् ॥ ४९ ॥
कुकुटाण्डसमं वृत्तं मौक्तिकं निविड़ं गुरु ।
घनजं भानुसंकाशं देवयोग्यममानुषम् ॥ ५० ॥
- “स्वात्यम्बु शुक्ति कुहरे पतदेवमुक्ता,
मुक्तैव पङ्कजदले नरजःसु किञ्चित्” ॥ इति कवयः ।