सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 143, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 143

हीरकादिभूत्युक्तिः । १०३
क्षारोल्लेखन शाणैस्तु (१०) कार्यं तेषां परीच्छणम् ।
क्षाराम्लैर्लेपयेद्वज्रं रौद्रे चैव परीक्षयेत् ॥ ६ ॥
क्वचिन्न याति वैवर्ण्यं स्वरूपञ्चाभिदीप्यते ।
क्षीयते शाणसंसर्गात् (११) चूर्णतां याति चूर्णितम् ॥ ७ ॥
तथा च,—
पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः ।
सर्वाणि विलिखेद्बज्रं तच्च तैर्न विलिख्यते ॥ ८ ॥
गुरुता सर्वरत्नानां गौरवाधान-कारणम् ।
वज्रेऽतान् वैपरीत्येन सूरयः परिचक्षते ॥ ९ ॥
न तेषां प्रतिबन्धानां भा भवत्यूर्द्धगामिनी ।
तिर्यक् क्षतत्वात् केषाञ्चित् कथञ्चिदपि दृश्यते ॥ १० ॥
तिर्यग्गालिख्यमानानां सा पार्श्वेष्वपि (१२) हन्यते ॥ ११॥
—*—
अथ मूल्यम् ।
अष्टाभिः सर्षपैः गौरैस्तण्डलं परिकल्पयेत् ।
तण्डुलेन तु वज्राणां धारणे मूल्यमुच्यते ॥ १२ ॥
यदि वज्रमपेत सर्व-दोषं, विभृयात्तण्डुलविंशतिं गुरुत्वे ।
मणि-शास्त्रविदो वदन्ति तस्य द्विगुणं रूपक-लक्षशमग्र्यमूल्यम् ॥ १३ ॥
त्रिभागहीनार्द्ध-तदर्द्धशेषं त्रयोदशं त्रिंशदतोऽर्द्धभागाः ।
अशीति भागोऽथ शतांशभागाः सहस्रभागोऽल्पसमानयोगः ॥ १४॥
(१०) शालाभिः इति (क) पुस्तक पाठः ।
(११) क्षयते शाणसंघर्षात् इति (ख) पुस्तक पाठः ।
(१२) सा पार्श्वेषु विहन्यते इति (ख) पुस्तक पाठः ।