सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 139, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 139

वज्रादि-युक्तिः । ९९
वृद्धिस्तं प्रतिदिनमेति यावदायुः ;
श्रीसम्पद्युत धन-धान्य-गो-पशूनाम् ॥ ६२ ॥
व्यालवह्नि-विषव्याघ्र तस्कराद्यभयानि च ।
दूरादेव निवर्त्तन्ते कर्म्माण्यथर्व्वणानि च ॥ ६३ ॥
यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि ।
रत्नवर्गे समस्तेऽपि तस्य धारणमिष्यते ॥ ६४ ॥
यद्यपि विशीर्ण-कोटिः सविन्दु-रेखान्वितो विवर्णो ।
तदपि च धनधान्य-सुतान् करोति सेन्द्रायुधो वज्रः ॥ ६५ ॥
सौदामिनी-विस्फूरिताभिरामम्,
राजा यथोक्तं कुलिशं दधानः ।
पराक्रमाक्रान्त-पर-प्रतापः ;
समस्तसामन्त-भुवं भुनक्ति ॥ ६६ ॥ (इति गारुडे) ।
समस्तां पृथिवीं पाति पार्थिवस्य विधारणात् ।
तृप्तिर्लक्ष्मीर्यशः कीर्त्तिरायुर्वज्रस्य धारणात् ॥ ६७ ॥
उत्साहः प्रियतुष्टित्वं विप्रणाशनमेव च ।
तथा सम्पत्तयः सर्वा वैयेते परिधारिते (२) ॥ ६८ ॥
प्रतापः शौर्य्यमुत्साहः तैजसस्य विधारणात् ।
यज्ञाज्ज्ञानं तपोभिश्च यदाप्नोति तदाप्नुयात् ॥ ६९ ॥
गुणयुक्तस्य वज्रस्य विप्रजातेर्विधारणात् ।
जपः पराक्रमस्तस्य शत्रुनाशश्च जायते ॥ ७० ॥
गुणवत्-क्षत्रजातीनां वज्रं वसति यद्गृहे ।
कलाकुशलताद्रव्यं प्रज्ञा क्षेमं यशो महत् ॥ ७१ ॥
गुणिनः परिरत्नस्य वैश्यजातेर्विधारणात् ।
परोपकारिता क्षेमं धन-धान्य-समृद्धयः ॥ ७२ ॥
(२) परिधारणात् इति (ख) पुस्तक पाठः ।