सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 134, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 134

८४ युक्तिकल्पतरौ—
गुणोपपन्नेन सहावरुद्धो,
मणित्वधार्य्यो विगुणेन जात्यम् ।
सुखं न कुर्य्यात् अपि कौस्तुभेन (१) ;
विद्वान् विजातिं विभृयात् कदाचित् (२) ॥ २० ॥
चण्डाल एकोऽपि यथा विजातौन्,
समेत्य भूरीन् अपहन्ति यत्नात् ।
तथा मणीन् भूरि गुणोपपन्नान् ;
शक्नोति विद्रावयितुं विजातम् ॥ २१ ॥
—*—
अथ वज्रादीनां मूल्यम् ।
बालार्काभिमुखं कृत्वा दर्पणे धारयेत् मणीन् ।
तत्र कान्तिविभागेन छायाभागं विनिर्दिशेत् ॥ २२ ॥
वज्रस्य यत् तण्डुलसंख्ययोक्तम्,
मूल्यं समुन्मापित गौरवस्य ।
तत् पद्मरागस्य तृणान्वितस्य ;
स्यान्माषकाख्या तुलितस्य मूल्यम् ॥ २३ ॥
यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्त्तितम् ।
तावन्मूल्यं तथा शुद्धे कुरुविन्दे विधीयते (३) ॥ २४ ॥
सगुणे कुरुविन्दे च यावन्मूल्यं प्रकीर्त्तितम् ।
तावन्मूल्य-चतुर्थांशं हीनं स्याद्वै सुगन्धिके ॥ २५ ॥
( १ ) न कौस्तुभे नापि सहावरुद्धम् इति (ग) पुस्तक पाठः ।
( २ ) विद्वान् विजातिं न भृयादु घस्तं इति (क) पुस्तक पाठः ।
( ३ ( तथाशुद्धैः कुरुविन्दैः इति (ख) पुस्तक पाठः ।