युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 135, कुल 278 में से
संदर्भ में पढ़ेंपद्मरागयुक्तिः । १५
यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः ।
तावन्मूल्यं चतुर्थांशं हीयते शूद्रजन्मनि ॥ २६ ॥
पद्मरागः पलं यस्तु धत्ते लाक्षारस-प्रभः ।
कार्षापण-सहस्राणि त्रिंशन्मूल्यं लभेत सः ॥ २७ ॥
इन्द्रगोपक संकाशः कर्षत्रय-धृतो-मणिः ।
द्वाविंशतिं सहस्राणां तस्य मूल्यं विनिर्दिशेत् ॥ २८ ॥
एकोनोनूयते यस्तु जवाकुसुम-सन्निभः ।
कार्षापण-सहस्राणि तस्य मूल्यं चतुर्दश ॥ २६ ॥
बालादित्य द्युति-निभं कर्षं यस्तु प्रतुल्यते ।
कार्षापण-शतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम् ॥ ३० ॥
यस्तु दाड़िम-पुष्पाभः कर्षार्द्धेन तु सन्मितः ।
कार्षापण शतानान्तु विंशतिं मूल्यमादिशेत् ॥ ३१ ॥
चत्वारो माषका यस्तु रक्तोत्पल-दल-प्रभः ।
मूल्यं तस्य विधातव्यं सूरिभिः शत-पञ्चकम् ॥ ३२ ॥
द्विमाषको यस्तु गुणैः सर्वैरेव समन्वितः ।
तस्य मूल्यं विधातव्यं द्विशतं तत्त्ववेदिभिः ॥ ३३ ॥
माषकैक-मितो यस्तु पद्मरागो गुणान्वितः ।
शतैक-सम्मितं वाच्यं मूल्यं रत्न-विचक्षणैः ॥ ३४ ॥
अतोऽन्यून-प्रमाणास्तु(न्तु) पद्मरागा गुणोत्तराः ।
स्वर्ण-द्विगुण मूल्येन मूल्यं तेषां प्रकल्पयेत् ॥ ३५ ॥
कार्षापणः समाख्यातः पुराणद्वय-सम्मितः ।
अन्ये कुसुम्भ-पानीय-मञ्जिष्ठोदक-सन्निभाः ॥ ३६ ॥
काषाया इति विख्याताः स्फटिक-प्रभवाश्च ते ।
तेषां दोषान् गुणान् वापि पद्मराग-वदादिशेत् ॥ ३७ ॥
मूल्यमल्पन्तु विज्ञेयं कारणेऽल्पफलन्तथा ।