सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

॥ विष्णुस्मृतौ ६८ ॥ १५३ .
न भिन्नासनगतः । १८ । न च शयनगतः । १९ । न
भिन्नभाजने । २० । नोत्सङ्गे । २१ । न भुवि । २२ । न
पाणौ । २३ । लवणं च यच्च दद्यात्तन्नाश्नीयात् । २४ ।
न बालकान्निर्भर्त्सयेत् । २५ । नैको मृष्टम् । २६ ।
नोद्धृतस्नेहम् । २७ । न दिवा धानाः । २८ । न रात्रौ
तिलसंबन्धम् । २९ । न दधिसक्तून् । ३० । न कोवि-
दारवटपिप्पलक्षणाणशाकम् । ३१ । नादत्त्वा । ३२ । ना-
हुत्वा । ३३ । नानाईपादः । ३४ । नानाईकरमुखश्च
। ३५ । नोच्छिष्टश्च घृतमादद्यात् । ३६ । न चन्द्रार्कता-
रका निरीक्षेत । ३७ । न मूर्धानं स्पृशेत् । ३८ । न
ब्रह्म कीर्तयेत् । ३९ । प्राङ्मुखोऽश्नीयात् । ४० । दक्षि-

० १५४ ॥ विष्णुस्मृतौ ६८ । ६९ ॥
नाश्नीयाद्भार्यया सार्धं नाकाशे न तथोत्थितः ।
बहूनां प्रेक्षमाणानां नैकस्मिन्वस्त्रवस्तथा ॥ ४६ ॥
शून्यालये वह्निगृहे देवागारे कथं च न ।
पिवेन्नाञ्जलिना तोयं नातिसौहित्यमाचरेत् ॥ ४७ ॥
न तृतीयमथाश्नीयान्न चापथ्यं कथं च न ।
नातिप्रगे नातिसायं न सायं प्रातराशितः ॥ ४८ ॥
न भावदुष्टमश्नीयान्न भाण्डे भावदूषिते ।
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ॥ ४९॥ ६८ ॥
नाष्टमीचतुर्दशीपञ्चदशीषु स्त्रियमुपेयात् । १ । न
श्राद्धं भुक्त्वा । २ । न दत्त्वा । ३ । नोपनिमन्त्रितः श्राद्धे
। ४ । न व्रती । ५ । न दीक्षितः । ६ । न देवायतनश्मशा-
47. शून्यागारे C¹·²v. LXIX, 2. न स्नात्वा भुक्त्वा । v. 3. न
श्राद्धं दत्त्वा C¹·²; श्राद्धं from the C. 5. न स्नात्वा । न हुत्वा । न
व्रती । नापोष्य भुक्त्वा वा । C¹·². The last clause is from the C.
46... बहूनामिति बहुषु साभिलाषं प्रेक्षमाणेषु नाश्नीयात् । 47.
शून्यं निर्जनं यदालयं गृहं तत्र । वह्नीनां गार्हपत्यादीनां गृहे शाला-
याम् ।... 48... कालद्वयातिरिक्ते तृतीये काले नाश्नीयात् ।...
49. यस्मिन्दृष्टे विचिकित्सा भवति तद्भावदुष्टम्...पीयूषादि... । तच्च
जातिदुष्टादेरुपलक्षणम् ...सप्तविधमभोज्यम् । भावेन चित्तवृत्त्या दूषिते
खेलादिभाण्डसदृशे भाण्डे दुर्ब्राह्मणादिभोजनदुष्टे च ।... शयानो भूमावपि
तिर्यग्भूतः । शयनगतस्य प्रागेव निषेधात् ।... LXIX, 3. श्राद्धकरणा-
नन्तरम् ॥ 5. व्रतं श्राद्धदिनपूर्वद्युतनमेकादश्यादिकं च तद्वान् ।...

॥ विष्णुस्मृतौ ६९ । ७० ॥ १५५
नशून्यालयेषु । ७ । न वृक्षमूलेषु । ८ । न दिवा । ९ ।
न संध्ययोः । १० । न मलिनाम् । ११ । न मलिनः
। १२ । नाभ्यक्ताम् । १३ । नाभ्यक्तः । १४ । न रोगा-
र्ताम् । १५ । न रोगार्तः । १६ ।
न हीनाङ्गीं नाधिकाङ्गीं तथैव च वयोऽधिकाम् ।
नोपेयाद्गुर्विणीं नारीं दीर्घमायुर्जिजीविषुः ॥ १७ ॥ ६९ ॥
नार्द्रपादः सुप्यात् । १ । नोत्तरापरशिराः । २ । न
नग्नः । ३ । नार्द्रवंशे । ४ । नाकाशे । ५ । न पालाशे
शयने । ६ । न पञ्चदारुकृते । ७ । न गजभग्नकृते । ८ ।
न विद्युद्दग्धकृते । ९ । न भिन्ने । १० । नाग्निसृष्टे । ११ ।
न घटासिक्तद्रुमजे । १२ । न श्मशानशून्यालयदेवता-
LXX, 1. स्वप्यात् । C^1, 2v Ap. 2. नोत्तरापरवाक्शिराः । C^1, 2.
4. नानुवंशम् । V^1-4 Ap.; वंशो मेढो तद्दैर्घ्यमनु N.; नार्द्रवंशम् v.
6. प

१५६ ॥ विष्णुस्मृतौ ७० । ७१ ॥
यतनेषु । १३ । न चपलमध्ये । १४ । न नारीमध्ये
। १५ । न धान्यगोगुरुहुताशनसुराणामुपरि । १६ ।
नोच्छिष्टो न दिवा सुप्यात्संध्ययोर्न च भस्मनि ।
देशे न चाशुचौ नार्द्रे न च पर्वतमस्तके ॥ १७ ॥ ७० ॥
अथ न कं च नावमन्येत । १ । न च हीनाधिका-
ङ्गान्मूर्खान्धनहीनानवहसेत् । २ । न हीनान्सेवेत
। ३ । स्वाध्यायविरोधि कर्म नाचरेत् । ४ । वयोऽनुरूपं
वेषं कुर्यात् । ५ । श्रुतस्याभिजनस्य धनस्य देशस्य च
। ६ । नोद्धतः । ७ । नित्यं शास्त्राद्यवेक्षी स्यात् । ८ । सति
विभवे न जीर्णमलवद्वासाः स्यात् । ९ । न नास्तीत्य-
भिभाषेत । १० । न निर्गन्धोग्रगन्धि रक्तं च माल्यं
बिभृयात् । ११ । बिभृयाज्जलजं रक्तमपि । १२ । यष्टिं च
17. स्वप्यात् C¹⁻²v. LXXI, 2. हीनाङ्गाधिका० C¹⁻²v, 5.
वेषं V¹⁻³ C¹⁻²v.
14. चपलो दुर्व्यसनी हस्तपादादिविक्षेप्ता ॥ 16... गवादिशब्देन
तच्छाला उच्यन्ते । धान्यवत्सानान्तदुपार शयनासम्भवात् ।... 17. उच्छिष्ट
ऊर्ध्वाधरोच्छिष्टवान् ।... अशुचौ मूत्रविष्ठाद्युपहते देशे ।... LXXI,

  1. कं च न सममुत्कृष्टमपकृष्टं वा... 4. स्वाध्यायो वेदाध्ययनाध्यापन-
    क्रियाः ।... 8. शास्यते धर्मो यैस्तानि श्रुतिमीमांसादीनि । आदिशब्दा-
    डनङ्गशारोग्यादिप्रतिपादकानि ।... 10. गृहेन्धनाद्यभावेऽपि नास्तिशब्दं
    नोच्चारयेत् । किंतु पूर्णमिति ब्रूयात् ॥

॥ विष्णुस्मृतौ ७१ ॥ १५७
वैष्णवीम् । १३ । कमण्डलुं च सोदकम् । १४ । कार्पा-
ससुपवीतम् । १५ । रौक्मे च कुण्डले । १६ । नादित्य-
मुद्यन्तमीक्षेत । १७ । नास्तं यान्तम् । १८ । न वाससा
तिरोहितम् । १९ । न चादर्शजलमध्यगतम् । २० । न
मध्याह्ने । २१ । न क्रुद्धस्य गुरोर्मुखम् । २२ । न तैलो-
दकयोः स्वां छायाम् । २३ । न मलवत्यादर्शे । २४ । न
पत्नीं भोजनसमये । २५ । न स्त्रियं नग्नाम् । २६ । न
कां च न मेहमानम् । २७ । न चालानभ्रष्टकुञ्जरम्
। २८ । न च विषमस्थो वृषादियुद्धम् । २९ । नोन्मत्तम्
। ३० । न मत्तम् । ३१ । नामेध्यमग्नौ प्रक्षिपेत् । ३२ ।
नासृक् । ३३ । न विषम् । ३४ । अंभस्यपि । ३५ ।
नाग्निं लङ्घयेत् । ३६ । न पादौ प्रतापयेत् । ३७ । न
कुशेषु परिमृज्यात् । ३८ । न कांस्यभाजने धावयेत्
। ३९ । न पादं पादेन । ४० । न भुवमालिखेत् । ४१ ।
23. स्वच्छायाम् । C¹,²v. 30 om. C¹,². 31 om. v. Ap.
quotes both Sûtras. 38. कुशैस्तेषु वा C¹,².
19. वस्त्रान्तरितमपि ॥ 22... गुरुः श्रेयान् ॥ 25. स्वस्य पत्न्या
वा भोजनकाले... 27. मूत्रपुरीषे कुर्वाणम्... 28. बन्धनच्युतं गजम् ।
चकाराद्व्याघ्रादींश्च ।... 29. विषमे जनसंमर्दादौ पलायनायोग्य देशे
स्थितो वृषगजमहिषादियुद्धम् ।... 32. अमेध्यं ष्ठीवनादि ।... 37.
व्यथाविति शेषः ॥ 41. काष्ठादिभिः ॥

१५८ ॥ विष्णुस्मृतौ ७१ ॥
न लोष्टमर्दी स्यात् । ४२ । न तृणच्छेदी स्यात् । ४३ ।
न दन्तैर्नखलोमानि छिन्द्यात् । ४४ । द्यूतं वर्जयेत्
। ४५ । बालातपसेवां च । ४६ । वस्त्रोपानहमाल्योपवी-
तान्यन्यधृतानि न धारयेत् । ४७ । न शूद्राय मतिं
दद्यात् । ४८ । नोच्छिष्टहविषी । ४६ । न तिलान्
। ५० । न चास्योपदिशेद्धर्मम् । ५१ । न व्रतम् । ५२ । न
संहताभ्यां पाणिभ्यां शिर उदरं च कण्डूयेत् । ५३ । न
दधिसुमनसी प्रत्याचक्षीत । ५४ । नात्मनः स्रजमपक-
र्षेत् । ५५ । सुप्तं न प्रबोधयेत् । ५६ । न रक्तं विरागयेत्
। ५७ । नोदक्यामभिभाषेत । ५८ । न म्लेच्छान्त्यजान्
। ५९ । अग्निदेवब्राह्मणसंनिधौ दक्षिणं पाणिमुद्धरेत्
। ६० । न परक्षेत्रे चरन्तीं गामाचक्षीत । ६१ । न पिबन्तं
53. कण्डूयेत V¹⁻³ C¹,² Ap. 55. अपकर्षयेत् । V¹⁻³ C¹,²v. 57
om. C¹,²v. 60. प्रदिक्षिणं C¹,².
42. करेण मृत्पिण्डमर्दनशीलो न स्यात् ।... 44... लोमानि
श्मश्र्वादीनि ।... 46. बालातपः प्रातरातपः । संगवातप इत्यन्ये । शरदा-
तप इत्यपरे ।... 49... शूद्रोऽत्र दास्यतिरिक्तः ।... 52. व्रतं प्राय-
श्चित्तम् ।... 56. स्वापेक्षया विद्यादिभिरधिकं शयानं न प्रबोधयेत् ।...
57. आत्मन्यनुरक्तं सद्भावभाषणादिभिर्न विरक्तं कुर्यात् ।... 60. अग्निः
श्रौतः स्मार्तश्च । देवो विष्ण्वादिप्रतिमा ।... कण्ठप्रावृतादुत्तरीयाद्वहिः
कुर्यात् ।... 61. परकीये यवादिक्षेत्रे निरुद्धं धान्यं भक्षयन्तीं परस्मै गां
नाचक्षीत ।... 62. परशब्दो ऽनुषज्यते । गोस्तन्यं पिबन्तं वत्सम् ...

॥ विष्णुस्मृतौ ७१ ॥ १५६
वत्सकम् । ६२ । नोद्धतान्प्रहर्षयेत् । ६३ । न शूद्रराज्ये
निवसेत् । ६४ । नाधार्मिकजनाकीर्णे । ६५ । न संव-
सेद्वैद्यहीने । ६६ । नोपसृष्टे । ६७ । न चिरं पर्वते
। ६८ । न वृथाचेष्टां कुर्यात् । ६९ । न नृत्यगीते । ७० ।
नास्फोटनम् । ७१ । नाश्लीलं कीर्तयेत् । ७२ । नानृतम्
। ७३ । नाप्रियम् । ७४ । न कं चिन्मर्मणि स्पृशेत् । ७५ ।
नात्मानमवजानीयाद्दीर्घमायुर्जिजीविषुः । ७६ । चिरं
संध्योपासनं कुर्यात् । ७७ । न सर्पशस्त्रैः क्रीडेत् । ७८ ।
अनिमित्ततः खानि न स्पृशेत् । ७९ । परस्य दण्डं नो-
द्यच्छेत् । ८० । शास्यं शासनार्थं ताडयेत् । ८१ । तं च
वेणुदलेन रज्ज्वा वा पृष्ठे । ८२ । देवब्राह्मणशास्त्रम-
हात्मनां परिवादं परिहरेत् । ८३ । धर्मविरुद्धौ चार्य-
71 om. v. नास्फोटनं कार्यम् । C¹.². See the C. 75. किं C¹.².
79. खानि खानि C¹.². 80. नोपयच्छेत् । V¹. See M. IV, 164.
82. तन्वा C¹.²; तर v; तं तु Ap.; तं शास्यमेव N.
63. उद्धतानून्मार्गवर्तिनस्तदनुकूलाचरणेन नोत्साहयेत् ॥ 67. उप-
सृष्टो व्याध्यभिभूतः ।... 69... वृथाटनादिर्वृथाचेष्टा ॥ 71. दक्षिणांसा-
रोपिते वामबाहौ दक्षिणपाणिना शब्दकरणमास्फोटनम् । न कार्यम् ।...
75. मर्माणि प्राणायतनानि...वक्ष्यमाणानि (XCVI, 89) । तत्र कं
चिदपि न स्पृशेन्नाभिहन्यात् । मर्म दुश्चरितं न प्रकाशयेदित्यन्ये ॥ 77.
दीर्घायुष्कामः... 78. सर्पो विषधरः ।... 80. परताडनार्थम्... 81.
शास्यं शासनार्हं शिष्यपुत्रादिकम् ।... 83... महात्मनो ऋषयः ।...

१६० ॥ विष्णुस्मृतौ ७१ ॥ ७२ ॥
कामौ । ८४ । लोकविद्विष्टं च धर्ममपि । ८५ । पर्वसु
शान्तिहोमं कुर्यात् । ८६ । न तृणमपि छिन्द्यात् । ८७ ।
अलंकृतश्च तिष्ठेत् । ८८ । एवमाचारसेवी स्यात् । ८९ ।
श्रुतिस्मृत्युदितं सम्यग्साधुभिश्च निषेवितम् ।
तमाचारं निषेवेत धर्मकामो जितेन्द्रियः ॥ ९० ॥
आचाराल्लभते चायुराचारादीप्सितां गतिम् ।
आचाराद्धनमक्षय्यमाचाराद्धन्त्यलक्षणम् ॥ ९१ ॥
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः ।
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति । ९२ ॥ ७१ ॥
दमयमेन तिष्ठेत् । १ । दमश्चेन्द्रियाणां प्रकीर्तितः
। २ । दान्तस्यायं लोकः परश्च । ३ । नादान्तस्य क्रिया
का चित्समृध्यति । ४ ।
दमः पवित्रं परमं मङ्गल्यं परमं दमः ।
दमेन सर्वमाप्नोति यत्किंचिन्मनसेच्छति ॥ ५ ॥
90. धर्चं V⁴ N. ; धर्मं V¹⁻³. See M. IV, 155.
85... लोकनिन्दितम्... 87. पर्वसु... 88. स्रक्चन्दनादिभि-
रलंकृतस्तिष्ठेत् ।... LXXII, 1. दमोऽन्तःकरणनियमः । यमो बा-
ह्येन्द्रियनियमः ।... 2. अन्तःकरणनियमेन चक्षुरादीन्द्रियाणामपि नियमः
प्रसिद्ध एव ॥ 4. ऐहिकी पारलौकिकी वा क्रिया ।...

॥ विष्णुस्मृतौ ७२ ॥ ७३ ॥ १६१
दशार्धयुक्तेन रथेन यातो
मनोवशेनार्यपथानुवर्तिना ।
तं चेद्रथं नापहरन्ति वाजिन-
स्तथागतं नावजयन्ति शत्रवः ॥ ६ ॥
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥ ७ ॥ ७२ ॥
—•—
अथ श्राद्धेत्सुः पूर्वेद्युर्ब्राह्मणानामन्त्रयेत् । १ । द्वितीये
ऽह्नि शुक्लपक्षस्य पूर्वाह्णे कृष्णपक्षस्यापराह्णे विप्रान्सु-
स्नातान्स्वाचान्तान्यथाभूयो विद्याक्रमेण कुशोत्तरेष्वास-
नेषूपवेशयेत् । २ । द्वौ दैवे प्राङ्मुखौ त्रींश्च पित्र्य उद-
LXXII, 6. याति C¹·²; याते v. LXXIII, 3. पित्र्ये V⁴ C¹·².
[L16

१६२ ॥ विष्णुस्मृतौ ७३ ॥
ङ्मुखान् । ३ । एकैकमुभयत्र वेति । ४ । आमश्राद्धेषु
काम्येषु च प्रथमपञ्चकेनाग्निं हुत्वा । ५ । पशुश्राद्धेषु
मध्यमपञ्चकेन । ६ । अमावास्यास्तूत्तमपञ्चकेन । ७ ।
आग्रहायण्या ऊर्ध्वं कृष्णाष्टकासु च क्रमेणैव प्रथमम-
ध्यमोत्तमपञ्चकैः । ८ । अन्वष्टकासु च । ९ । ततो
ब्राह्मणानुज्ञातः पितॄनावाहयेत् । १० । अपयन्त्वसुरा
इति द्वाभ्यां तिलैर्यातुधानानां विसर्जनं कृत्वा । ११ ।
एत पितरः सर्वांस्तानग्न आ मे यन्त्वेतद्वः पितर इत्या-
वाहनं कृत्वा कुशतिलमिश्रेण गन्धोदकेन यास्तिष्ठन्त्य-
मृता वागिति यन्मे मातेति च पाद्यं निर्वर्त्य निवेद्यार्घ्यं
कृत्वा निवेद्य च कुशतिलवस्त्रपुष्पालंकारधूपदीपैर्यथा-


LXXIII, 11. अपयान्त्वसुरा इति श्राद्धविघ्नकर्तॄन्यातुधानानपसार्य
तिलैर् V¹⁻³ C¹,². See the C., from which the second
clause has crept in.


  1. कृणुष्व पाजेति (to read इयमेवेति. See Kâṭhaka
    XXXIX, 10, and Kâṭh. Gṛihyas.) राक्षोघ्नं पञ्चदशर्चं सूक्तं
    काठके प्रसिद्धम्। तस्याद्येन पञ्चकेन... वैश्वदैविकपूजानन्तरं पित्रावाह-
    नात्पूर्वमेवाग्निहोमः कार्यः।... 10. काठकीयश्राद्धप्रयोगमाह । ततो होमा-
    नन्तरं वक्ष्यमाणरीत्या यातुधानानपसार्य ब्राह्मणान्पितॄनावाहयिष्य इत्यनुज्ञा-
    प्यावाहयेति तैरनुज्ञातः पितॄनावाहयेत् ।... 11. उक्तहोमसमाप्त्यनन्त-
    रमपयन्त्विति मन्त्रद्वयेन तिलैः श्राद्धविघ्नकर्तॄन्यातुधानानपसार्यावाहयेत्।
    मन्त्रावाहनादिक्रममाह ॥

॥ विष्णुस्मृतौ ७३ ॥ १६३
शक्त्या विप्रान्समभ्यर्च्य घृतहुतमन्नमादायादित्या रुद्रा
वसव इति वीक्ष्याग्नौ करवाणीत्युक्त्वा तच्च विप्रैः कुर्वि-
त्युक्ते आहुतित्रयं दद्यात् । १२ । ये मामकाः पितर
एतद्वः पितरोऽयं यज्ञ इति च हविरनुमन्त्रणं कृत्वा
यथोपपन्नेषु पात्रेषु विशेषाद्रजतमयेष्वन्नं नमो विश्वेभ्यो
देवेभ्य इत्यन्नमादौ प्राङ्मुखयोर्निवेदयेत् । १३ । पित्रे
पितामहाय प्रपितामहाय च नामगोत्राभ्यामुदङ्मुखेषु
। १४ । तद्दत्सु ब्राह्मणेषु यन्मे प्रकामादहोरात्रैर्यदः


  1. The Mantras in this and the following Sûtras
    appear to have been corrupted already in Nanda-
    paṇḍita's time, and have been corrected with the aid
    of the Kâṭh. Gṛihyas. निवेद्य चानुलेपनं V¹; नि० चा० कृत्वा
    V¹⁻³ C¹˒²v. The clause चा० कृ० is not commented on by
    N., and not found in the Kâṭh. Gṛihyas. घृतहुतमन्नम्०
    V¹⁻³; घृतहुतमन्नम् C¹˒²; घृत०-चादाय om. v. उक्ता C¹˒²; उक्तैV¹.

  1. उक्तप्रतीकेन मन्त्रेणावाहनमुक्तप्रतीकाभ्यां मन्त्राभ्यां पाद्यमासादना-
    दिभिरर्च्यं संपाद्य निवेद्य गन्धा-(कुशा०?)दिदीपान्तैर्यथोक्तप्रकारेण शक्त्या
    देवपितृब्राह्मणान्संपूज्य गृहीतमन्नमादित्येति मन्त्रेणावेक्ष्य पृष्टोत्तरे लब्धे...
    सोमाय पितृमते स्वधा नमो यमायाङ्गिरसे स्वधा नमो ऽग्नये कव्यवाहनाय
    स्वधा नम इति मन्त्रत्रयेणाऽऽहुतित्रयं जुहुयात् ॥ 13. ये मामकाः... इति
    त्रिभिर्मन्त्रैरनुमन्त्र्य यथामिलितेषु सौवर्णेषु दैवे राजतेषु पित्र्ये वा नम इति
    मन्त्रेण वैश्वदेविकयोर्प्राङ्मुखयोः प्रथमं निवेदयेत्। तच्चोपवीतिना कार्यम्। ...
    14... ततश्चाऽमुकशर्मणे ऽस्मत्पित्रे ऽमुकंगोत्राय वसुरूपायेदमन्नं स्वधा नम
    इति वाक्यप्रयोगेणाऽन्नं निवेदयेत् ।... 15. तन्निवेदितमन्नमदत्सु भुञ्जानेषु
    ब्राह्मणेषु देवपितृब्राह्मणेषु...

१६४ ॥ विष्णुस्मृतौ ७३ ॥
क्रव्यादिति जपेत् । १५ । इतिहासपुराणधर्मशास्त्राणि
चेति । १६ । उच्छिष्टसंनिधौ दक्षिणाग्रेषु दर्भेषु पृथिवी
दर्वीरक्षतेत्येकं पिण्डं पित्रे निदध्यात् । १७ । अन्त-
रीक्षं दर्वीरक्षतेति द्वितीयं पितामहाय । १८ । द्यौर्दर्वि-
रक्षतेति तृतीयं प्रपितामहाय । १६ । येऽत्र पितरः
प्रेता इति वासो देयम् । २० । वीरान्नः पितरो धत्त
इत्यन्नम् । २१ । अत्र पितरो मादयध्वं यथाभागमावृ-
षायध्वमिति दर्भमूले करावघर्षणम् । २२। ऊर्जं वहन्ती-
रित्यनेन सोदकेन प्रदक्षिणं पिण्डानां विकिरणं कृत्वा
अर्घ्यपुष्पधूपालेपनान्नादिभक्ष्यभोज्यानि निवेदयेत् ।२३।
उदकपात्रं मधुघृततिलैः संयुक्तं च । २४ । भुक्तवत्सु
ब्राह्मणेषु तृप्तिमागतेषु मा मे क्षेष्टेत्यन्नं सतृणमभ्युक्ष्या-
न्नविकिरमुच्छिष्टायतः कृत्वा तृप्ता भवन्तः संपन्नमिति
पृष्टोदङ्मुखेष्वाचमनमादौ दत्त्वा ततः प्राङ्मुखेषु दत्त्वा
22. करावधर्षणं C¹,². 23. विकिरणां सेचनं ... च निवेदयेत् । C¹,²
24. उदकपात्रं च C¹,².
20... पिण्डोपरि वस्त्रं दद्यात् ॥ 22... पिण्डाधःस्थितदर्भमूले कर-
लेपावघर्षणं कुर्यात् ॥ 23... सोदकेन पिण्डशेषेण... विकिरणं सेचनं
गन्धादींश्च भोज्यान्तान्निवेदयेत् ॥ 24... चकारादञ्जनाभ्यञ्जनादी-
नि ।... 25... श्राद्धशेषमन्नं सतृणं कुशसहितं जलेनाभ्युक्ष्य तस्यान्नस्य
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry

॥ विष्णुस्मृतौ ७३ ॥ १६५
ततश्च सुप्रोक्षितमिति श्राद्धदेशं संप्रोक्ष्य दर्भपाणिः सर्वं
कुर्यात् । २५ । ततः प्राङ्मुखाग्रतो यन्मे राम इति प्रद्-
क्षिणं कृत्वा प्रत्येत्य च यथाशक्ति दक्षिणाभिः समभ्य-
र्च्याभिरमन्तु भवन्त इत्युक्त्वा तैरूक्तोऽभिरताः स्म इति
देवाश्च पितरश्चेत्यभिजपेत् । २६। अक्षय्योदकं च नाम-
गोत्राभ्यां दत्त्वा विश्वे देवाः प्रीयन्तामिति प्राङ्मुखेभ्य-
स्ततः प्राञ्जलिरिदं तन्मनाः सुमना याचेत । २७ ।
दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥ २८॥
तथास्त्विति ब्रूयुः । २९ ।
अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।
याचितारश्च नः सन्तु मा च याचिष्म कं च न ॥ ३०॥
इत्येताभ्यामाशिषः प्रतिगृह्य । ३१ ।
ब्राह्मणोच्छिष्टायतौ विकिरणं कृत्वा... श्राद्धदेशं प्रोक्षेत्। इदं च सर्वं
दर्भपाणिना कार्यम् ॥ २५. रामः काकः (Dev., Kâṭhakagṛihya-
bhâshya)... 27. यद्दत्तमन्नोदकादि तदक्षय्यमस्त्विति दैवे पित्र्ये च
नामगोत्राभ्यामुदकं दत्त्वा विश्वे देवाः प्रीयन्तामिति दैवे चोदकं दत्त्वा...
आशिषो याचेत । ता एवाह ॥ 28. नो ऽस्माकं कुले दातारो दानशीलाः
पुरुषा वेदाध्ययनाध्यापनाविच्छेदेन वर्धन्तां संततिश्च पुत्रपौत्रपरंपरा
वर्धताम्। ... देयं चान्नपानाद्यस्माकं कुले बहुलमस्त्विति याचेत ॥ 29.
ते च याचितास्तथास्त्विति प्रतिब्रूयुः ॥ 31. इ. युक्ताभ्यां... उ. न्नाभ्यामुक्ता
आशिषस्तथास्त्विति प्रतिवचनेन प्रतिगृह्य विप्रान्विसर्जयेत् ॥

१६६ ॥ विष्णुस्मृतौ ७३ ॥ ७४ । ७५ ॥
वाजे वाज इति ततो ब्राह्मणांश्च विसर्जयेत् ।
पूजयित्वा यथान्यायमनुव्रज्याभिवाद्य च ॥ ३२ ॥ ७३ ॥
अष्टकासु दैवपूर्वं शाकमांसापूपैः श्राद्धं कृत्वा न्वन्द-
ष्टकास्वष्टकावद्धौ दैवपूर्वमेवं हुत्व मात्रे पितामह्यै
प्रपितामह्यै च पूर्ववद्ब्राह्मणान्भोजयित्वा दक्षिणाभि-
श्चाभ्यर्च्यानुव्रज्य विसर्जयेत् । १ । ततः कर्षूः कुर्यात्
। २। तन्मूले प्रागुदगग्न्युपसमाधानं कृत्वा पिण्डनिर्वप-
णम् । ३ । कर्षूचयमूले पुरुषाणां कर्षू त्रयमूले स्त्रीणाम्
। ४ । पुरुषकर्षूत्रयं सान्नेनोदकेन पूरयेत् । ५ । स्त्रीक-
र्षूत्रयं सान्नेन पयसा । ६ । दध्ना मांसेन पयसा प्रत्येकं
कर्षूत्रयम् । ७ । पूरयित्वा जपेदेतद्वोऽह्यो भवतीभ्योऽस्तु
चाक्षयम् । ८ ॥ ७४ ॥
पितरि जीवति यः श्राद्धं कुर्यात्स येषां पिता कुर्या-
LXXIV, 1. कृत्वा om. C^{1,2}. कृत्वान्वष्टकावदग्निं कृत्वा दैवपूर्वं
मात्रे v. 8. एतद्वोऽह्यो om. C^{1,2}v. See the Kâth. Gṛihyas.
32... ष्ठा सीमान्तमनुव्रज्य... LXXIv, 1... यथाश्रामं शाक-
मांसापूपैः ।... यथोक्तविधिना श्राद्धं कृत्वा परेद्युरन्वष्टकास्वष्टकावद्यस्या-
मष्टकायां येन पक्वेन होमस्तेनैवान्वष्टकास्वपि होमः ।... 8. एवं नवापि
कर्षूस्तत्तद्द्रव्येण पूरयित्वा एतद्वोऽह्य इत्यादि मन्त्रं जपेत् ॥

॥ विष्णुस्मृतौ ७५ ॥ १६७
त्तेषां कुर्यात् । १ । पितरि पितामहे च जीवति येषां
पितामहः । २ । पितरि पितामहे प्रपितामहे च जीव-
ति नैव कुर्यात् । ३ । यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं
निधाय पितामहात्परं द्वाभ्यां दद्यात् । ४ । यस्य पिता
पितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा पिता-
महप्रपितामहाय दद्यात् । ५ । यस्य पितामहः प्रेतः
स्यात्स तस्मै पिण्डं निधाय प्रपितामहात्परं द्वाभ्यां
दद्यात् । ६ ।
मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः ।
मन्त्रोहेण यथान्यायं शेषाणां मन्त्रवर्जितम् ॥ ७ ॥ ७५ ॥
LXXV, 2. C¹,² add कुर्यात्तेषां पिता कुर्यात् । From the C.
3. त्रिषु जीवत्सु नैव कुर्यात् । C¹,². From the C. 4. प्रपितामहात्
C¹,² पूर्वं for परं v. 5, 6 om. v. 6. यस्य-पिण्डं om. V¹⁻³.
स्यात् om. V⁴. After 6, C¹,² add the following Sûtra, यस्य
पिता प्रपितामहश्च प्रेतौ स्यातां स पित्रे पिण्डं निधाय पितामहात्परं
द्वाभ्यां दद्यात् । See Sûtra 4.
LXXV, 3... पित्रादिषु त्रिषु जीवत्सु श्राद्धमेव न कुर्यात् ॥ 4.
मृतपितृको जीवत्पितामहकश्च पितृपिण्डं दत्त्वा प्रपितामहवृद्धप्रपितामहाभ्यां
पिण्डं दद्यात् ।... 6. यः जीवत्पितृप्रपितामहकः स पितामहपिण्डं दत्त्वा
वृद्धप्रपितामहतत्पितृभ्यः पिण्डं दद्यात् ।... 7... तत्र मातामहे जीवति
तत्पित्रादिभ्य एव ।... यथान्यायं प्रथमान्ते प्रथमान्तं द्वितीयान्ते द्वितीयान्त-
मित्यादि प्रकारेण मातामहशब्दस्योहेन कार्यम् ।... शेषाणां पितृव्यमा-
तुलभ्रात्रादीनां श्राद्धममन्त्रकमेव पिष्टपदवन्मन्त्ररहितमेव कुर्यात् ।...

१६८ ॥ विष्णुस्मृतौ ७६ । ७७ । ७८ ॥
अमावास्यास्तिस्रोऽष्टकास्तिस्रोऽन्वष्टका माघी प्रौष्ठ-
पद्यूर्ध्वं कृष्णत्रयोदशी व्रीहियवपाकौ चेति । १ ।
एतांस्तु श्राद्धकालान्वै नित्यानाह प्रजापतिः ।
श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते ॥ २ ॥ ७६ ॥
आदित्यसंक्रमणम् । १ । विषुवद्वयम् । २ । विशेषे-
णायनद्वयम् । ३ । व्यतीपातः । ४ । जन्मर्क्षम् । ५ । अभ्यु-
दयश्च । ६ ।
एतांस्तु श्राद्धकालान्वै काम्यानाह प्रजापतिः ।
श्राद्धमेतेषु यद्दत्तं तदानन्त्याय कल्पते ॥ ७ ॥
संध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः ।
तयोरपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ॥ ८ ॥
राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् ।
गुणवत्सर्वकामीयं पितॄणामुपतिष्ठते ॥ ६ ॥ ७७ ॥
सततमादित्येऽह्नि श्राद्धं कुर्वन्नारोग्यमाप्नोति । १ ।
सौभाग्यं चान्द्रे । २ । समरविजयं कौजे । ३ । सर्वान्का-
LXXVI, 1... व्रीहिपाकः शरत् । यवपाको वसन्तः ।...
LXXVII, 5. आत्मनः पुत्रस्य भार्यायाश्च जन्मनक्षत्रम् ।... 6.
अभ्युदयः पुत्रजन्मादिः ।... 6... तत्र दत्तं श्राद्धं पितॄणां यावच्चन्द्रतार-
कावस्थानमुपतिष्ठते कर्तुश्च सर्वगुणातिशयवत्सर्वकामसाधनं भवतीति ॥
LXXVIII, 1. आदित्यवारे श्राद्धं सार्वकालिकारोग्यहेतुः ॥ 2. चन्द्र-
वारे सौभाग्यं जनप्रियत्वम् ॥

॥ विष्णुस्मृतौ ७८ ॥ १६६
मान्बोधे । ४ । विद्यामभीष्टां जैवे । ५ । धनं शौक्रे । ६ ।
जीवितं शनैश्चरे । ७ । स्वर्गं कृत्तिकासु । ८ । अपत्यं
रोहिणीषु । ९ । ब्रह्मवर्चस्यं सौम्ये । १० । कर्मसिद्धिं
रौद्रे । ११ । भुवं पुनर्वसौ । १२ । पुष्टिं पुष्ये । १३ ।
श्रियं सार्पे । १४ । सर्वान्कामान्पैत्ये । १५ । सौभाग्यं
भाग्ये । १६ । धनमार्यमणे । १७ । ज्ञातिश्रैष्ठ्यं हस्ते
। १८ । रूपवतः सुतांस्त्वाष्ट्रे । १९ । वाणिज्यसिद्धिं स्वातौ
। २० । कनकं विशाखासु । २१ । मित्राणि मैत्रे । २२ ।
राज्यं शाक्रे । २३ । कृषिं मूले । २४ । समुद्रयानसिद्धि-
माप्ये । २५ । सर्वान्कामान्वैश्वदेवे । २६ । श्रैष्ठ्यमभि-
जिति । २७ । सर्वान्कामाञ्छ्रवणे । २८ । लवणं वासवे
। २९ । आरोग्यं वारुणे । ३० । कुप्यद्रव्यमाजे । ३१ ।
गृहमाहिर्बुध्ने । ३२ । गाः पौष्णे । ३३ । तुरङ्गमा-
श्विने । ३४ । जीवितं याम्ये । ३५ । गृहं सुरूपाः स्त्रियः
प्रतिपदि । ३६ । कन्यां वरदां द्वितीयायाम् । ३७ ।
LXXVIII, 5. जीवे C^{1,2}v. 10. ब्रह्मवर्चः v. 14. सर्पे C^{1,2}.
15. पैत्रे C^{1,2}. 25—53 om. v.
10. सौम्यं मृगशिरः । तस्मिन्ब्रह्मवर्चस्यं ब्रह्मतेजः । ओजो वा ॥ 11.
कर्मणामैहिकानां सिद्धिः फलप्राप्तिः । शौर्यं वा । रौद्रमार्ड्रा ॥ 14. सार्प-
माश्लेषास्तत्र शोभाम्... 18. ज्ञातिषु सपिण्डेषु ज्ञातिश्रैष्ठत्वम् ॥ 29...
लवणं लवणक्रियासिद्धिः ।... 37. वरदामभीष्टप्रदाम् । कन्यां जामातृंच ॥
22

१७० ॥ विष्णुस्मृतौ ७८ । ७६ ॥
सर्वान्कामांस्तृतीयायाम् । ३८ । पशूंश्चतुर्थ्याम् । ३६ ।
सुरूपान्सुतान् पञ्चम्याम् । ४० । द्यूतविजयं षष्ठ्याम्
। ४१ । कृषिं सप्तम्याम् । ४२ । वाणिज्यमष्टम्याम् । ४३ ।
पशूनन्नवम्याम् । ४४ । वाजिनो दशम्याम् । ४५ । ब्रह्म-
वर्चस्विनः पुत्रानेकादश्याम् । ४६ । कनकरजतं द्वाद-
श्याम् । ४७ । सौभाग्यं त्रयोदश्याम् । ४८ । सर्वका-
मान्पञ्चदश्याम् । ४६ । शस्त्रहतानां श्राद्धकर्मणि चतु-
र्दशी शस्ता । ५० । अपि पितृगीते गाथे भवतः । ५१ ।
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
प्रावृट्काले ऽसिते पक्षे त्रयोदश्यां समाहितः ॥ ५२ ॥
मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् ।

॥ विष्णुस्मृतौ ७६ ॥ १७९

कुशाभावे कुशस्थाने काशान्दूर्वां वा दद्यात् । २ । वासो-
ऽर्थे कार्पासोत्थं सूत्रम् । ३ । दशां विवर्जयेद्यद्यप्यहत-
वस्त्रजा स्यात् । ४ । उग्रगन्धीन्यगन्धीनि कण्टकिजानि
रक्तानि च पुष्पाणि । ५ । शुक्लानि सुगन्धीनि कण्टकि-
जान्यपि जलजानि रक्तान्यपि दद्यात् । ६ । वसां मेदं च
दीपार्थे न दद्यात् । ७ । घृतं तैलं वा दद्यात् । ८ । जीवजं
सर्वधूपार्थे न दद्यात् । ९ । मधुघृतसंयुक्तं गुग्गुलुं दद्यात्
। १० । चन्दनकुङ्कुमकर्पूरागुरुपद्मकान्यनुलेपनार्थे । ११ ।
न प्रत्यक्षलवणं दद्यात् । १२ । हस्ते न च घृतव्यञ्जना-
दि । १३ । तैजसानि पात्राणि दद्यात् । १४ । विशेषतो
राजतानि । १५ । खड्गकुतपकृष्णाजिनतिलसिद्धार्थका-
क्षतानि च पवित्राणि रक्षोघ्नानि च निदध्यात् । १६ ।


  1. वास˚ । C$^{1,2}$. 5. कण्टकितानि V$^{1-4}$; कण्टकिजातानि C$^{1,2}$;
    कण्टकिजानि Ap. See 6, and LXVI, 7, 8. Arrangement of
    the following sections in v: LXXX, 2—14; LXXXI,
    3—15; LXXIX, 13—42; LXXX, 1 (excepting प्रीयन्ते);
    LXXX, 1, 15 — LXXXI, 23 (LXXXI, 3—15 being
    repeated). 16. चेति दद्यात् । C$^{1,2}$.

LXXIX, 3. वासोऽभावे तत्कार्ये कार्पाससंभवं सूत्रं देयम् ।... 9.
जीवजं नखशृङ्गादि ।... 13...आदिशब्दाद्दधिपायसादि च । हस्ते न देयं
किंतु दर्यादिना ।... 16...पार्श्वराजतताम्रपात्राणि... एतानि पवित्राणि ।
रक्षोघ्नानि वक्ष्यमाणानि ।...

१७२ ॥ विष्णुस्मृतौ ७९ । ८० ॥
पिप्पलीमुकुन्दककास्तृणशिग्रुसर्षपसुरसासर्जकसुवर्चलकू-
ष्माण्डालाबुवार्त्ताकुपालङ्क्येपोदकीतण्डुलीयककुसुम्भ-
पिण्डालुकमहिषीक्षीराणि वर्जयेत् । १७। राजमाषम-
सूरपर्य्युषितकृतलवणानि च । १८। कोपं परिहरेत्
। १९। नाश्रु पातयेत् । २०। न त्वरां कुर्य्यात् । २१।
घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि फल्गुपात्रा-
णि च प्रशस्तानि । २२। अत्र च श्लोको भवति । २३।
सौवर्णराजताभ्यां च खड्गेनौदुम्बरेण च।
दत्तमक्षय्यतां याति फल्गुपात्रेण चाप्यथ ॥ २४ ॥ ७९ ॥
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैः शाकैः श्यामाकैः
प्रियङ्गुभिर्नीवारैर्मुद्गैर्गोधूमैश्च मासं प्रीयन्ते । १ । द्वौ
मासौ मत्स्यमांसेन । २ । त्रीन्हारिणेन । ३ । चतुरश्रौ-
रभ्रेण । ४ । पञ्च शाकुनेन । ५। षट्छागेन । ६। सप्त
रौरवेण । ७ । अष्टौ पार्षतेन । ८। नव गावयेन । ६ ।
दश माहिषेण । १० । एकादश तूपरेणाजेन । ११ ।
17. ॰पालङ्क्योपोदकी॰ C^{1, 2}. 24. खड्गेनो॰ C^{1, 2}. LXXX, 11.
एकादश कौर्मेण। C^{1, 2}.
18...कृतं कृत्रिमं लवणम् ।... 22: घृतादिशब्दादाज्यदधिपायसादि ।...
24. चौदुम्बरं ताम्रम् ।... LXXX, 1. मत्स्याः सिंहतुण्डादयः ।...
5. शकुनः पक्षी काकातिरिक्तादिर्भक्ष्यः ॥