विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
DevanagariSanskritpublished392 पृष्ठ
पृष्ठ 171, कुल 392 में से
संदर्भ में पढ़ेंपृष्ठ 171
॥ विष्णुस्मृतौ ७३ ॥ १६३
शक्त्या विप्रान्समभ्यर्च्य घृतहुतमन्नमादायादित्या रुद्रा
वसव इति वीक्ष्याग्नौ करवाणीत्युक्त्वा तच्च विप्रैः कुर्वि-
त्युक्ते आहुतित्रयं दद्यात् । १२ । ये मामकाः पितर
एतद्वः पितरोऽयं यज्ञ इति च हविरनुमन्त्रणं कृत्वा
यथोपपन्नेषु पात्रेषु विशेषाद्रजतमयेष्वन्नं नमो विश्वेभ्यो
देवेभ्य इत्यन्नमादौ प्राङ्मुखयोर्निवेदयेत् । १३ । पित्रे
पितामहाय प्रपितामहाय च नामगोत्राभ्यामुदङ्मुखेषु
। १४ । तद्दत्सु ब्राह्मणेषु यन्मे प्रकामादहोरात्रैर्यदः
- The Mantras in this and the following Sûtras
appear to have been corrupted already in Nanda-
paṇḍita's time, and have been corrected with the aid
of the Kâṭh. Gṛihyas. निवेद्य चानुलेपनं V¹; नि० चा० कृत्वा
V¹⁻³ C¹˒²v. The clause चा० कृ० is not commented on by
N., and not found in the Kâṭh. Gṛihyas. घृतहुतमन्नम्०
V¹⁻³; घृतहुतमन्नम् C¹˒²; घृत०-चादाय om. v. उक्ता C¹˒²; उक्तैV¹.
- उक्तप्रतीकेन मन्त्रेणावाहनमुक्तप्रतीकाभ्यां मन्त्राभ्यां पाद्यमासादना-
दिभिरर्च्यं संपाद्य निवेद्य गन्धा-(कुशा०?)दिदीपान्तैर्यथोक्तप्रकारेण शक्त्या
देवपितृब्राह्मणान्संपूज्य गृहीतमन्नमादित्येति मन्त्रेणावेक्ष्य पृष्टोत्तरे लब्धे...
सोमाय पितृमते स्वधा नमो यमायाङ्गिरसे स्वधा नमो ऽग्नये कव्यवाहनाय
स्वधा नम इति मन्त्रत्रयेणाऽऽहुतित्रयं जुहुयात् ॥ 13. ये मामकाः... इति
त्रिभिर्मन्त्रैरनुमन्त्र्य यथामिलितेषु सौवर्णेषु दैवे राजतेषु पित्र्ये वा नम इति
मन्त्रेण वैश्वदेविकयोर्प्राङ्मुखयोः प्रथमं निवेदयेत्। तच्चोपवीतिना कार्यम्। ...
14... ततश्चाऽमुकशर्मणे ऽस्मत्पित्रे ऽमुकंगोत्राय वसुरूपायेदमन्नं स्वधा नम
इति वाक्यप्रयोगेणाऽन्नं निवेदयेत् ।... 15. तन्निवेदितमन्नमदत्सु भुञ्जानेषु
ब्राह्मणेषु देवपितृब्राह्मणेषु...