सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 167, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 167

॥ विष्णुस्मृतौ ७१ ॥ १५६
वत्सकम् । ६२ । नोद्धतान्प्रहर्षयेत् । ६३ । न शूद्रराज्ये
निवसेत् । ६४ । नाधार्मिकजनाकीर्णे । ६५ । न संव-
सेद्वैद्यहीने । ६६ । नोपसृष्टे । ६७ । न चिरं पर्वते
। ६८ । न वृथाचेष्टां कुर्यात् । ६९ । न नृत्यगीते । ७० ।
नास्फोटनम् । ७१ । नाश्लीलं कीर्तयेत् । ७२ । नानृतम्
। ७३ । नाप्रियम् । ७४ । न कं चिन्मर्मणि स्पृशेत् । ७५ ।
नात्मानमवजानीयाद्दीर्घमायुर्जिजीविषुः । ७६ । चिरं
संध्योपासनं कुर्यात् । ७७ । न सर्पशस्त्रैः क्रीडेत् । ७८ ।
अनिमित्ततः खानि न स्पृशेत् । ७९ । परस्य दण्डं नो-
द्यच्छेत् । ८० । शास्यं शासनार्थं ताडयेत् । ८१ । तं च
वेणुदलेन रज्ज्वा वा पृष्ठे । ८२ । देवब्राह्मणशास्त्रम-
हात्मनां परिवादं परिहरेत् । ८३ । धर्मविरुद्धौ चार्य-
71 om. v. नास्फोटनं कार्यम् । C¹.². See the C. 75. किं C¹.².
79. खानि खानि C¹.². 80. नोपयच्छेत् । V¹. See M. IV, 164.
82. तन्वा C¹.²; तर v; तं तु Ap.; तं शास्यमेव N.
63. उद्धतानून्मार्गवर्तिनस्तदनुकूलाचरणेन नोत्साहयेत् ॥ 67. उप-
सृष्टो व्याध्यभिभूतः ।... 69... वृथाटनादिर्वृथाचेष्टा ॥ 71. दक्षिणांसा-
रोपिते वामबाहौ दक्षिणपाणिना शब्दकरणमास्फोटनम् । न कार्यम् ।...
75. मर्माणि प्राणायतनानि...वक्ष्यमाणानि (XCVI, 89) । तत्र कं
चिदपि न स्पृशेन्नाभिहन्यात् । मर्म दुश्चरितं न प्रकाशयेदित्यन्ये ॥ 77.
दीर्घायुष्कामः... 78. सर्पो विषधरः ।... 80. परताडनार्थम्... 81.
शास्यं शासनार्हं शिष्यपुत्रादिकम् ।... 83... महात्मनो ऋषयः ।...