सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 162, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 162

० १५४ ॥ विष्णुस्मृतौ ६८ । ६९ ॥
नाश्नीयाद्भार्यया सार्धं नाकाशे न तथोत्थितः ।
बहूनां प्रेक्षमाणानां नैकस्मिन्वस्त्रवस्तथा ॥ ४६ ॥
शून्यालये वह्निगृहे देवागारे कथं च न ।
पिवेन्नाञ्जलिना तोयं नातिसौहित्यमाचरेत् ॥ ४७ ॥
न तृतीयमथाश्नीयान्न चापथ्यं कथं च न ।
नातिप्रगे नातिसायं न सायं प्रातराशितः ॥ ४८ ॥
न भावदुष्टमश्नीयान्न भाण्डे भावदूषिते ।
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ॥ ४९॥ ६८ ॥
नाष्टमीचतुर्दशीपञ्चदशीषु स्त्रियमुपेयात् । १ । न
श्राद्धं भुक्त्वा । २ । न दत्त्वा । ३ । नोपनिमन्त्रितः श्राद्धे
। ४ । न व्रती । ५ । न दीक्षितः । ६ । न देवायतनश्मशा-
47. शून्यागारे C¹·²v. LXIX, 2. न स्नात्वा भुक्त्वा । v. 3. न
श्राद्धं दत्त्वा C¹·²; श्राद्धं from the C. 5. न स्नात्वा । न हुत्वा । न
व्रती । नापोष्य भुक्त्वा वा । C¹·². The last clause is from the C.
46... बहूनामिति बहुषु साभिलाषं प्रेक्षमाणेषु नाश्नीयात् । 47.
शून्यं निर्जनं यदालयं गृहं तत्र । वह्नीनां गार्हपत्यादीनां गृहे शाला-
याम् ।... 48... कालद्वयातिरिक्ते तृतीये काले नाश्नीयात् ।...
49. यस्मिन्दृष्टे विचिकित्सा भवति तद्भावदुष्टम्...पीयूषादि... । तच्च
जातिदुष्टादेरुपलक्षणम् ...सप्तविधमभोज्यम् । भावेन चित्तवृत्त्या दूषिते
खेलादिभाण्डसदृशे भाण्डे दुर्ब्राह्मणादिभोजनदुष्टे च ।... शयानो भूमावपि
तिर्यग्भूतः । शयनगतस्य प्रागेव निषेधात् ।... LXIX, 3. श्राद्धकरणा-
नन्तरम् ॥ 5. व्रतं श्राद्धदिनपूर्वद्युतनमेकादश्यादिकं च तद्वान् ।...