विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 180, कुल 392 में से
संदर्भ में पढ़ें१७२ ॥ विष्णुस्मृतौ ७९ । ८० ॥
पिप्पलीमुकुन्दककास्तृणशिग्रुसर्षपसुरसासर्जकसुवर्चलकू-
ष्माण्डालाबुवार्त्ताकुपालङ्क्येपोदकीतण्डुलीयककुसुम्भ-
पिण्डालुकमहिषीक्षीराणि वर्जयेत् । १७। राजमाषम-
सूरपर्य्युषितकृतलवणानि च । १८। कोपं परिहरेत्
। १९। नाश्रु पातयेत् । २०। न त्वरां कुर्य्यात् । २१।
घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि फल्गुपात्रा-
णि च प्रशस्तानि । २२। अत्र च श्लोको भवति । २३।
सौवर्णराजताभ्यां च खड्गेनौदुम्बरेण च।
दत्तमक्षय्यतां याति फल्गुपात्रेण चाप्यथ ॥ २४ ॥ ७९ ॥
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैः शाकैः श्यामाकैः
प्रियङ्गुभिर्नीवारैर्मुद्गैर्गोधूमैश्च मासं प्रीयन्ते । १ । द्वौ
मासौ मत्स्यमांसेन । २ । त्रीन्हारिणेन । ३ । चतुरश्रौ-
रभ्रेण । ४ । पञ्च शाकुनेन । ५। षट्छागेन । ६। सप्त
रौरवेण । ७ । अष्टौ पार्षतेन । ८। नव गावयेन । ६ ।
दश माहिषेण । १० । एकादश तूपरेणाजेन । ११ ।
17. ॰पालङ्क्योपोदकी॰ C^{1, 2}. 24. खड्गेनो॰ C^{1, 2}. LXXX, 11.
एकादश कौर्मेण। C^{1, 2}.
18...कृतं कृत्रिमं लवणम् ।... 22: घृतादिशब्दादाज्यदधिपायसादि ।...
24. चौदुम्बरं ताम्रम् ।... LXXX, 1. मत्स्याः सिंहतुण्डादयः ।...
5. शकुनः पक्षी काकातिरिक्तादिर्भक्ष्यः ॥