विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 177, कुल 392 में से
संदर्भ में पढ़ें॥ विष्णुस्मृतौ ७८ ॥ १६६
मान्बोधे । ४ । विद्यामभीष्टां जैवे । ५ । धनं शौक्रे । ६ ।
जीवितं शनैश्चरे । ७ । स्वर्गं कृत्तिकासु । ८ । अपत्यं
रोहिणीषु । ९ । ब्रह्मवर्चस्यं सौम्ये । १० । कर्मसिद्धिं
रौद्रे । ११ । भुवं पुनर्वसौ । १२ । पुष्टिं पुष्ये । १३ ।
श्रियं सार्पे । १४ । सर्वान्कामान्पैत्ये । १५ । सौभाग्यं
भाग्ये । १६ । धनमार्यमणे । १७ । ज्ञातिश्रैष्ठ्यं हस्ते
। १८ । रूपवतः सुतांस्त्वाष्ट्रे । १९ । वाणिज्यसिद्धिं स्वातौ
। २० । कनकं विशाखासु । २१ । मित्राणि मैत्रे । २२ ।
राज्यं शाक्रे । २३ । कृषिं मूले । २४ । समुद्रयानसिद्धि-
माप्ये । २५ । सर्वान्कामान्वैश्वदेवे । २६ । श्रैष्ठ्यमभि-
जिति । २७ । सर्वान्कामाञ्छ्रवणे । २८ । लवणं वासवे
। २९ । आरोग्यं वारुणे । ३० । कुप्यद्रव्यमाजे । ३१ ।
गृहमाहिर्बुध्ने । ३२ । गाः पौष्णे । ३३ । तुरङ्गमा-
श्विने । ३४ । जीवितं याम्ये । ३५ । गृहं सुरूपाः स्त्रियः
प्रतिपदि । ३६ । कन्यां वरदां द्वितीयायाम् । ३७ ।
LXXVIII, 5. जीवे C^{1,2}v. 10. ब्रह्मवर्चः v. 14. सर्पे C^{1,2}.
15. पैत्रे C^{1,2}. 25—53 om. v.
10. सौम्यं मृगशिरः । तस्मिन्ब्रह्मवर्चस्यं ब्रह्मतेजः । ओजो वा ॥ 11.
कर्मणामैहिकानां सिद्धिः फलप्राप्तिः । शौर्यं वा । रौद्रमार्ड्रा ॥ 14. सार्प-
माश्लेषास्तत्र शोभाम्... 18. ज्ञातिषु सपिण्डेषु ज्ञातिश्रैष्ठत्वम् ॥ 29...
लवणं लवणक्रियासिद्धिः ।... 37. वरदामभीष्टप्रदाम् । कन्यां जामातृंच ॥
22