सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 164, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 164

१५६ ॥ विष्णुस्मृतौ ७० । ७१ ॥
यतनेषु । १३ । न चपलमध्ये । १४ । न नारीमध्ये
। १५ । न धान्यगोगुरुहुताशनसुराणामुपरि । १६ ।
नोच्छिष्टो न दिवा सुप्यात्संध्ययोर्न च भस्मनि ।
देशे न चाशुचौ नार्द्रे न च पर्वतमस्तके ॥ १७ ॥ ७० ॥
अथ न कं च नावमन्येत । १ । न च हीनाधिका-
ङ्गान्मूर्खान्धनहीनानवहसेत् । २ । न हीनान्सेवेत
। ३ । स्वाध्यायविरोधि कर्म नाचरेत् । ४ । वयोऽनुरूपं
वेषं कुर्यात् । ५ । श्रुतस्याभिजनस्य धनस्य देशस्य च
। ६ । नोद्धतः । ७ । नित्यं शास्त्राद्यवेक्षी स्यात् । ८ । सति
विभवे न जीर्णमलवद्वासाः स्यात् । ९ । न नास्तीत्य-
भिभाषेत । १० । न निर्गन्धोग्रगन्धि रक्तं च माल्यं
बिभृयात् । ११ । बिभृयाज्जलजं रक्तमपि । १२ । यष्टिं च
17. स्वप्यात् C¹⁻²v. LXXI, 2. हीनाङ्गाधिका० C¹⁻²v, 5.
वेषं V¹⁻³ C¹⁻²v.
14. चपलो दुर्व्यसनी हस्तपादादिविक्षेप्ता ॥ 16... गवादिशब्देन
तच्छाला उच्यन्ते । धान्यवत्सानान्तदुपार शयनासम्भवात् ।... 17. उच्छिष्ट
ऊर्ध्वाधरोच्छिष्टवान् ।... अशुचौ मूत्रविष्ठाद्युपहते देशे ।... LXXI,

  1. कं च न सममुत्कृष्टमपकृष्टं वा... 4. स्वाध्यायो वेदाध्ययनाध्यापन-
    क्रियाः ।... 8. शास्यते धर्मो यैस्तानि श्रुतिमीमांसादीनि । आदिशब्दा-
    डनङ्गशारोग्यादिप्रतिपादकानि ।... 10. गृहेन्धनाद्यभावेऽपि नास्तिशब्दं
    नोच्चारयेत् । किंतु पूर्णमिति ब्रूयात् ॥