सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 178, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 178

१७० ॥ विष्णुस्मृतौ ७८ । ७६ ॥
सर्वान्कामांस्तृतीयायाम् । ३८ । पशूंश्चतुर्थ्याम् । ३६ ।
सुरूपान्सुतान् पञ्चम्याम् । ४० । द्यूतविजयं षष्ठ्याम्
। ४१ । कृषिं सप्तम्याम् । ४२ । वाणिज्यमष्टम्याम् । ४३ ।
पशूनन्नवम्याम् । ४४ । वाजिनो दशम्याम् । ४५ । ब्रह्म-
वर्चस्विनः पुत्रानेकादश्याम् । ४६ । कनकरजतं द्वाद-
श्याम् । ४७ । सौभाग्यं त्रयोदश्याम् । ४८ । सर्वका-
मान्पञ्चदश्याम् । ४६ । शस्त्रहतानां श्राद्धकर्मणि चतु-
र्दशी शस्ता । ५० । अपि पितृगीते गाथे भवतः । ५१ ।
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
प्रावृट्काले ऽसिते पक्षे त्रयोदश्यां समाहितः ॥ ५२ ॥
मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् ।