विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 168, कुल 392 में से
संदर्भ में पढ़ें१६० ॥ विष्णुस्मृतौ ७१ ॥ ७२ ॥
कामौ । ८४ । लोकविद्विष्टं च धर्ममपि । ८५ । पर्वसु
शान्तिहोमं कुर्यात् । ८६ । न तृणमपि छिन्द्यात् । ८७ ।
अलंकृतश्च तिष्ठेत् । ८८ । एवमाचारसेवी स्यात् । ८९ ।
श्रुतिस्मृत्युदितं सम्यग्साधुभिश्च निषेवितम् ।
तमाचारं निषेवेत धर्मकामो जितेन्द्रियः ॥ ९० ॥
आचाराल्लभते चायुराचारादीप्सितां गतिम् ।
आचाराद्धनमक्षय्यमाचाराद्धन्त्यलक्षणम् ॥ ९१ ॥
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः ।
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति । ९२ ॥ ७१ ॥
दमयमेन तिष्ठेत् । १ । दमश्चेन्द्रियाणां प्रकीर्तितः
। २ । दान्तस्यायं लोकः परश्च । ३ । नादान्तस्य क्रिया
का चित्समृध्यति । ४ ।
दमः पवित्रं परमं मङ्गल्यं परमं दमः ।
दमेन सर्वमाप्नोति यत्किंचिन्मनसेच्छति ॥ ५ ॥
90. धर्चं V⁴ N. ; धर्मं V¹⁻³. See M. IV, 155.
85... लोकनिन्दितम्... 87. पर्वसु... 88. स्रक्चन्दनादिभि-
रलंकृतस्तिष्ठेत् ।... LXXII, 1. दमोऽन्तःकरणनियमः । यमो बा-
ह्येन्द्रियनियमः ।... 2. अन्तःकरणनियमेन चक्षुरादीन्द्रियाणामपि नियमः
प्रसिद्ध एव ॥ 4. ऐहिकी पारलौकिकी वा क्रिया ।...