वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
मण्डलं चतुरस्रं तद्वर्णिकैः समलङ्कृतम् ॥
तत्र भद्रासनं सम्यगर्चयेत्सुमनोरमम् ।
गङ्गातोयसमापूर्णस्वर्णकुम्भोदकैः सह ॥
दिग्विदिक्षु स्थितैः शुक्लगन्धमाल्याम्बरार्चितैः ।
शतौषधीमूलहेमरत्नद्वीजपल्लवैः ॥
मृत्तिकावृषशृङ्गं च गजदन्तं च रोचनम् ।
उत्पलं पद्मकं पद्ममुरारेणुककुङ्कुमम् ॥
राजसर्षपमुस्तं च देवदारुसमन्वितम् ।
देवस्यत्वेतिमन्त्रेण आयुःपुष्टियशस्करैः ॥
आभिषेकैर्वेदमन्त्रैः शुभलग्ने शुभान्विते ।
भद्रासनस्थे नृपतावभिषेकं तु कारयेत् ॥
नीराजनं च कर्त्तव्यं शङ्खवादित्रनिःस्वनैः ।
आशिषो वाचनं कृत्वा चार्चयेच्च सुरान् पितॄन् ॥
आयुधानि च पट्टं च विप्रान् गन्धादिनाऽर्चयेत् ।
ब्रूयात्प्रत्यङ्मुखो राजा नमामि त्वोद्धरेति च ॥
प्राच्यां त्वामभिषिञ्चन्तु वसवस्तेजसे श्रियै ।
याम्यायामभिषिञ्चन्तु त्वां रुद्रा विजयाय च ॥
आदित्या अभिषिञ्चन्तु प्रतीच्यां दिशि वृद्धये ।
विश्वेदेवास्तथोदीच्यामभिषिञ्चन्तु पुष्टये ॥
दिगीशास्त्वभिषिञ्चन्तु त्वां सदा विजयाय च ।
साम्राज्यमितिमन्त्रेण राजानं सम्यगर्चयेत् ॥
व्याघ्रचर्मण्यथासीनं नवालङ्कारभूषितम् ।
भृत्यचामरसंयुक्तं राजचिह्नसमन्वितम् ॥
पुरोहितश्च जुहुयात्सावित्र्याऽसौ प्रयत्नतः ।
उदुम्बरसमिद्भिश्च आज्येनाष्टोत्तरं शतम् ॥
५८ वीरमित्रोदयस्य राजनीतिप्रकाशे
विद्वत्पुरोहितामात्यवृद्धैर्बन्धुसमन्वितः ।
तदा सञ्चिन्त्य सप्ताङ्गं प्रजा धर्मेण पालयेत् ॥
एवं यः कुरुते सम्यक् स राजा वर्द्धते चिरम् ॥ इति ।
सामविधानब्राह्मणेऽपि, राजानमभिषेचयेत्तिष्येण श्रवणे-
न वा। व्रीहियवैस्तिलमाषैर्दधिमधुसुमनोजात रूपैर्यशस्विनीभ्यो न-
दीभ्यः समुद्राच्चोदकान्याहृत्योदुम्बरे भद्रासने वैयाघ्रे चर्मण्युत्त-
रलोम्न्यासिनं जीवन्तीनां गवां शृङ्गकोशैरभिषिञ्चेद्भ्रातृव्य इ-
ति रहस्येन । यमेवं कामयेतैकराजः स्यान्नास्य चक्रं प्रतिहन्येते-
त्येकवृषेणाभिषिञ्चेत् । अभिषेक्त्रे दद्याद्ग्रामवरं दासीशतं गो-
सहस्रं तदधीनश्च भवेत् । इति ।
अस्यार्थ माधवाचार्य आह-पुरोहितो राजानमभिषेच-
येत् अभिषिञ्चेत्, वक्ष्यमाणैः साधनैः । यद्यपि राजशब्दः
अभिषेकसंस्कृतस्य क्षत्रियस्य वाचकस्तथापि भाविनीं संज्ञा-
माश्रित्य “यूपं तक्षति” इत्यादिवत् अभिषेक्तव्यराजानमित्युप-
चारप्रयोगः । अवेष्ट्यधिकरणे तु भाविसंज्ञां प्रत्याख्याय
यूपं तक्षतीत्यनेन वैषम्यमुक्तम् । तिष्यः पुष्यः । व्रीह्या-
दिजातरूपान्तैर्द्रव्यैर्मिश्रितैः । यशस्विनीभ्यः पावनत्वप्रयु-
क्तख्यातियुक्ताभ्यो गङ्गातुङ्गभद्रादिभ्यो नदीभ्यः समुद्राच्चोद-
कानि पृथक्पृथगाहृत्य तैः उदुम्बरसम्बन्धिनि भद्रासने चतु-
ष्पदोपेते पर्यास्तृते व्याघ्रचर्मणि उपरिस्थितलोम्नि आसीनं
जीवोपेतानां गवां शृङ्गाणि छित्त्वा तदग्रच्छिद्रनिःस्रुतैर्जलैर-
भ्रातृव्य इति रहस्येन साम्ना, उदकानि शृङ्गकोशैरिति उभयत्र
बहुवचननिर्देशात्पृथक् गङ्गाद्युदकैरभिषिञ्चेत् । पृथगाहरणस्या-
पीदमेव प्रयोजनम् । कामनाभेदेन मन्त्रविशेषमाह-पुरोहितो
यं राजानमेवं कामयेत कृत्स्नस्य भूमण्डलस्यैक एव राजा
राजयोग्यः पुरोहितः । ५९
स्यान्नास्य चक्रे भूमण्डलं केनचिदपि वैरिणा प्रतिहतं भवेदिति,
तं रहस्यस्थाने एकवृषेणेतिसाम्नाऽभिषिञ्चेत् । अन्यत्प्रागुक्तमेव ।
राजा पुरोहितायोत्कृष्टं ग्रामं दासीशतं सहस्रं गाश्च दद्यात्तदधी-
नश्च भवेत् । अत्र यादृशं पुरोहितं कुर्यात्तादृश उक्त—
आथर्वणे,
तस्मात्कुलीनं श्रोत्रियं भृग्वङ्गिरोविदं विनयाकृतिशौचा-
चारयुक्तमलोलुपं व्रतनियमचारित्रवृत्तलक्षणगुणसम्पन्नं सन्धि-
विग्रहचिकित्सकं माहेन्द्रजालभूतकर्मादिष्वभिविन्दकं जितस्था-
नासनं हिमातपवर्षसहं ह्रीधृतिकर्मार्जवशमदयानशक्तिसम्पन्नं
बृहस्पत्युशनसोः (कृतौ पारगं) स्थानाकृतिप्रमाणवर्णश्रुतवपुषा
चानुमेयं तेजस्विनं गम्भीरं सत्त्वयुक्तं गुरुं वृणुयाद्भूपतिरिति ।
विष्णुस्मृतौ,
वेदेतिहासधर्मशास्त्रेषु कुशलं कुलीनमव्यङ्गं तपस्विनं च पुरो-
हितं कुर्यात् । इति ।
गौतमे,
ब्राह्मणं च पुरोदधीत विद्याभिजनवाग्रूपवयःशीलसम्पन्नं
न्यायवृत्तं तपस्विनम् । इति ।
आथर्वणपरिशिष्टे,
तस्माद्गुरुं वेदरहस्ययुक्तं चतुर्विधे कर्मणि चाप्रमत्तम् ।
शान्तं च दान्तं च जितेन्द्रियं च कुर्यान्नरेन्द्रः प्रियदर्शनं च॥ इति।
याज्ञवल्क्ये,
पुरोहितं च कुर्वीत दैवज्ञमुदितोदितम् ।
दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥
सर्वेषु दृष्टादृष्टार्थेषु कर्मसु पुरो निहितं दानमानसतत्कारैरा-
६० वीरमित्रोदयस्य राजनीतिप्रकाशे
त्मसम्बन्धिनं कुर्यात् । दैवज्ञं ग्रहोत्पाततच्छमनादेर्वेदितारम् ।
उदितोदितं विद्यानुष्ठानादिभिरुदितैः शास्त्रोक्तैः उदितम् ऋद्ध-
म् । दण्डनीत्याम् अर्थशास्त्रे । अथर्वाङ्गिरसे शान्त्यादिकर्मणि ।
यादृशो निषिद्धः पुरोहितस्तादृश उक्त—
आथर्वणपरिशिष्टे,
नातिदीर्घं नातिह्रस्वं नातिस्थूलं कृशं तथा ।
न च हीनातिरिक्ताङ्गं क्वचित्कुर्यात्पुरोहितम् ॥
हीनाधिकाङ्गं पतितं विवर्णं स्तेयिनं जडम् ।
क्लीबमशक्तियुक्तं भिन्नस्वरं काणं विरूपनेत्रं द्वेष्यं च राजा
गुरुं नैव कुर्यात् । इति ।
तादृशस्य करणे फलान्यपि तत्रैवोक्तानि ।
हीनाधिकाङ्गे पुरराष्ट्रहानिः काणे जडे वाहनकोशनाशः ।
स्तेये त्वशक्ते च समस्तदोषाः क्लीवे विवर्णे नृपतिर्विनश्येत् ॥
भिन्नस्वरे जायते गात्रभेदो द्वेष्ये गुरौ विप्रतिपत्तिमाहुः ।
विवर्णनेत्रे पतिते सुपुत्रानध्वर्युणा चैव निहन्ति पौत्रान् ॥
कृष्णे कोशक्षयं विद्याद्वक्ते वाहनसङ्क्षयः ।
पिङ्गलः पार्थिवं हन्याद्राष्ट्रं हन्यात्तु केकरः ॥
बह्वृचं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः ।
सभारः पङ्के हस्तीव सह तेनैव मज्जति ॥
अध्वर्युं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः ।
उत्तितीर्षुरिवाश्मानमादत्ते स्ववधाय सः ॥
वधबन्धपरिक्लेशान् कोशवाहनसङ्क्षयम् ।
करोत्येतां च योऽवस्थां तपोयुक्तोऽपि सामगः ॥
अन्वयाकृतिसम्पन्नं तस्माद्भृग्वङ्गिरोविदम् ।
गोत्राङ्गिरसवासिष्ठं राजा कुर्यात्पुरोहितम् ॥
पूर्वराजमरणोत्तरनूतनराजाभिषेके विशेषः । ६१
मखेषु राष्ट्रेषु पुरेषु चैव सेनासु राज्ञां स्वनिवेशनेषु ।
य उत्पातास्त्रिविधा घोररूपास्तान् सर्वान् शमयेद्ब्रह्मवेदवित्॥इति।
ब्रह्मवेदोऽथर्ववेदः । बह्वृचादिनिषेधस्याथर्ववेदवेत्तरि शा-
न्त्यादिवेत्तरि तात्पर्यम्, न तु बह्वृचादिनिषेधे ।
तथा, यस्यान्यकुलोपयुक्तपुरोधाः शान्तिकपौष्टिकप्रायश्चि-
त्ताभिचारिकनैमित्तिकौर्ध्वदेहिकान्यथर्वाविहितानि कर्माणि कु-
र्यात्स तस्य प्रत्यङ्गिरा भूत्वा हस्त्यश्वरथपदात्यादीनि नाशयेत्-
इत्याद्युक्तम् । अस्यापि शान्त्यादिज्ञातरि तात्पर्यम्, न
त्वथर्ववेदवेत्तरि । स च ब्राह्मण एव कार्यः । तदुक्तम्-
ऐतरेयब्राह्मणे,
न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति तस्माद्राजा
यक्ष्यमाणो ब्राह्मणं पुरो दधीत देवा मेऽन्नमदन्ति । इति ।
पूर्वराजमरणोत्तरं नूतनराजाभिषेके विशेष उक्तो-
विष्णुधर्मोत्तरे,
मृते राज्ञि न कालस्य नियमोऽत्र विधीयते ।
तत्रास्य स्नपनं कार्यं विधिवत्तिलसर्षपैः ॥
विधिवत् प्राकृतस्नानविधिना ।
घोषयित्वा जयं चास्य सांवत्सरपुरोहितौ ।
अन्यासनोपविष्टस्य दर्शयेतां जनं शनैः ॥
स सान्त्वयित्वा तु जनं मुक्त्वा बन्धनगांस्ततः ।
अभयं घोषयित्वा तु कालाकाङ्क्षी ततो भवेत् ॥
मृत इत्यस्वस्थस्याप्युपलक्षकम् । यदा पूर्वस्मिन् राज्ञि मृते-
ऽस्वस्थे वोत्तरस्याभिषेकस्तदा स्नपनादौ न कालनियमः । त-
त्राभिषेक्तव्यस्य सांवत्सरपुरोहितौ तिलसर्षपैर्विधिवत्स्नपनं कार-
यित्वाऽस्मिन् राष्ट्रेऽयमिदानीं राजेति जयं घोषयित्वा पूर्वराजा-
सनादन्यासनोपविष्टस्य मुख्यं मन्त्र्यादिकं नागरिकं च जनं द-
र्श्येताम् । ततः सर्वं जनं सत्कृत्य पूर्वराजबद्धान्मुक्त्वा स्वरा-
ष्ट्रेऽभयं घोषयित्वा तदासनगत एव प्रजाः परिपालयन् वर्षा-
न्तराभिषेककालप्रतीक्षया तिष्ठेत् । पूर्वस्मिन् जीवति द्वितीय-
स्याभिषेके स्नपनादिकालप्रतीक्षान्तमकृत्वा शुभे कालेऽभि-
षेक एव कार्यः ।
अथाभिषेकपूर्वकर्त्तव्यैन्द्रशान्तिप्रयोगः ।
शुभेऽह्नि यथाविभवं याज्ञवल्क्याद्युक्तप्रकारेण विनायकशान्तिं
नवग्रहमखं च कृत्वा उपकल्पितसमस्तसम्भारः सपत्नीको रा-
जा सांवत्सरादभिषेकदिनशुद्धिं विदित्वा तत्पूर्वदिवसे पुरोहि-
ताचार्यसांवत्सरादीन् सन्निधाप्य शुचौ देशेऽन्तर्जानुकर उपवि-
श्येष्टदेवगुरुद्विजकुलज्येष्ठान् नत्वा दर्भपाणिराचम्य प्राणाना-
यम्य तिथ्यादि सङ्कीर्त्य करिष्यमाणराज्याभिषेकाङ्गत्वेनैन्द्रीं
शान्तिं करिष्य इति सङ्कल्प्य, विजयबलपशुवृष्टिकामनया
परचक्रागमनिवृत्तिकामनया चैन्द्रीं शान्तिं करिष्य इति
काम्यायाम् । तत्र निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं स्वस्तिपु-
ण्याहवाचनं मातृकापूजनाभ्युदयिकश्राद्धाचार्यवरणानि च
तत्पूर्वाङ्गानि करिष्य इति सङ्कल्प्य यथाविभवं षोडशोपचारै-
र्गणपतिमभ्यर्च्य यथास्वगृह्यं स्वस्तिवाचनादि विधायैन्द्रीं शान्तिं
कर्तुमाचार्यं त्वामहं वृण इति पुरोहितं वृणुयात् ।
आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः ।
तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥
इत्याचार्यवरणे मन्त्रः । मधुपर्कादिवस्त्रान्तम् । तत आ-
अभिषेकप्रयोगः । ६३
चार्योऽग्निस्थापनान्तं कृत्वा प्राच्यां कलशं संस्थाप्य तत्र य-
थाशक्ति सौवर्णीमैन्द्रीं प्रतिमां प्रतिष्ठाप्य यथाविभवं पूजयेत् ।
ततो ऽमृताशान्तिप्रकारेण चरुं श्रपयित्वा इन्द्र जुषस्वेतिसूक्तेन
प्रत्यृचं जुहुयात् । शेषममृतावत् ।
इत्यैन्द्रशान्तिप्रयोगः ।
अथाभिषेकप्रयोगः ।
तत्र पूर्वस्मिन् दिवसे नगरदेवायतने ध्वजपताकातोरणादि-
भिरलङ्कृत्य कृतोपवासः पुरोहितोऽभिषेकदिवसे स्नातोऽनुलि-
प्तः शुचिः शुक्लवासाः सोष्णीषो वेदिदेशे स्नातेन श्वेतवस्त्र-
माल्याद्यलङ्कृतेन सर्वाभरणभूषितेन राज्ञा तिथ्याद्युल्लेखपूर्व-
कं मम कृत्स्नस्य राष्ट्रस्य वश्यतासिद्ध्यर्थं सांवत्सरपुरोहिता-
भ्यां विष्णुधर्मोत्तरोक्तविधिनाऽऽत्मानमभिषेचयिष्य इति सङ्क-
ल्पयेत् । ततः सांवत्सरपुरोहितयोः ऋग्यजुरथर्वविदां विप्र-
क्षत्रियविशाममात्यानां छन्दोगस्य च विप्रामात्यस्य चैकैक-
स्य वान्यतमवेदविदो वरणे कृते अन्येषु चातुर्वर्ण्यमुख्येषु
सन्निधापितेषु होमदेशादुत्तरतः स्नानशालायां यथासम्भवं
सर्वतीर्थजलपूर्णं सर्वौषधीसर्वरत्नसर्वफलयुतं क्षीरिवृक्षक्षीर-
लतापल्लवोपेतं सर्वतस्त्रिगुणसितसूत्रेण वेष्टितं श्वेताम्बरवेष्टि-
तकण्ठं मालादिभिरलङ्कृतं शैवालमुखं नवं सौवर्णं कलशं मध्ये,
तत्समन्ततश्च यथास्थानं पञ्चगव्यमिश्रजलकलशं घृतपूर्णं हेम-
कुम्भं क्षीरपूर्णं रौप्यकुम्भं दधिपूर्णं ताम्रकुम्भं मधुकुम्भं कुशोदक-
कुम्भं शतच्छिद्रं सौवर्णम् अन्यांश्च नद्यादिजलपूर्णान् मृन्मयान्
कलशान् कलशस्थापनविधिना स्थापयेत् । यथासम्भवं पूर्वो-
क्तपर्वताग्रादिमृदः पूर्वोक्तलक्षणं सौवर्णाद्यन्यतमनिर्मितं भद्रासनं
१ सविस्तरोऽयं प्रयोगो नीतिमयूखे द्रष्टव्यः ।
"?
Wait, look at line 9 end:
"स्नानशालाया-"
Then line 10:
"मान्त्रैर्मृत्तिकादिभिः" ?
Wait, look at line 10:
First glyph: 'मा'!
Second glyph: 'न्त्रै'! With repha!
'मान्त्रैर्मृत्तिकादिभिः'???
YES! Look at the first glyph of line 10:
It is 'मा'!
Wait, does it have a 'म'?
Look at 'म' in 'मृदः' (line 11), 'मावोरिषत्' (line 12), 'मूर्द्धानं' (line 13).
In line 12: 'मावोरिषत्': 'मा' has a loop at bottom left, vertical, top bar, and 'ा' (aa-matra)!
Now look at the first character of line 10:
IT IS AN EXACT MATCH FOR 'मा'!
Wait, but does it have something on the left?
Wait, look at line 10, the very first character:
Is it 'मा' or 'झा' or 'आ'?
Wait, look at:
It has a loop at bottom left, then goes up, then a middle horizontal bar? No, it has a loop, goes right, then vertical: that is 'म'!
Wait, to the left of it, what is that?
Wait, is that a '
विष्णुधर्मोत्तोक्तराजाभिषेकप्रयोगः । ६५
अथ भद्रासनगतम्-“तेजोऽसि शुक्रम्”इति घृतपूरितेन हेमकुम्भे-
न पूर्वदिगवस्थितेन पूर्वतः स्थित्वा ब्राह्मणामात्योऽभिषिञ्चेत् ।
क्षीरपूर्णेन रौप्यकुम्भेन दक्षिणतः स्थित्वा क्षत्रियामात्य
“आप्यायस्व” इति सिञ्चेत् । “दधिक्राव्ण” इति दधिपूरितेन
ताम्रकुम्भेन पश्चिमादिगवस्थितेन पश्चिमतः स्थित्वा वैश्यामात्यो-
ऽभिषिञ्चेत् । “मधुवाता” इति त्र्यृचेन मधुपूर्र्णेन मृत्कुम्भे-
नोत्तरदिगवस्थितेनोत्तरतः स्थित्वा छन्दोगामात्येऽभिषि-
ञ्चेत् । स एव तत्रैव स्थित्वा कुशोदकपूरितेनान्यकुम्भेन
“देवस्य त्वा” इति सिञ्चेत् । तत्र पूरणे पूरयामि, अभिषेके
अभिषिञ्चामीति मन्त्रे वाक्यशेषः । ततः पुरोहितो वह्निं रक्ष-
ध्वमिति सदस्यान् सम्प्रेष्य सम्पातवन्तं सौवर्णं कलशमादाय
राजसमीपं गत्वा ब्राह्मणस्वरयुतैः शङ्खभेर्यादिशब्दयुतै राजसू-
यगतराजाभिषेकमन्त्रैरभिषिञ्चेत् । ते यथा-“सोमस्य त्वा द्यु-
म्नेनाभिषिञ्चाम्यग्नेर्भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण । क्षत्राणां
क्षत्रपतिरेद्ध्यति दिद्यून्पाहि” । “इमं देवा असपत्नं सुवद्धं महते
क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय। इमममुष्य
पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी राजा सोमोऽस्माकं ब्राह्म-
णानां राजा”इति याजुषाः । इममित्यत्र द्वितीयान्तं राजनाम ।
अमुष्येत्यत्र षष्ठ्यन्तं तत्पितृनाम । अमुष्या इत्यत्र षष्ठ्यन्तं
तन्मातृनाम। आर्ग्वेदिकास्तु “इमा आपः शिवतमा”इति तृचः ।
“देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम-
ग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामि । बलाय श्रि-
यै यशसेऽन्नाद्याय”इति यजुः । भूर्भुवः स्वरिति व्याहृतय इति ।
एवमन्येऽपि तत्तच्छाखीया द्रष्टव्याः। ततः पुरोहितः कुण्डसमीपं
गच्छेत् । ततः सुगन्ध्युद्वर्त्तनद्रव्येणोद्वर्त्तिताङ्गं भद्रासनगतमेव रा-
९
६६ वीरमित्रोदयस्य राजनीतिप्रकाशे
जानं शतच्छिद्रेण सौवर्णेन वेदधर्मशास्त्राभिज्ञोऽन्यो ब्राह्मणो “या
ओषधीः” इति मन्त्रेण पिष्टसर्वौषध्युदकपूर्णकुम्भेन, “रथे तिष्ठन्”
इति मन्त्रेण गन्धपूर्णोदककुम्भेन, “आब्रह्मन्ब्राह्मण” इति यजुषा
व्रीह्यादिबीजोदकपूर्णेन, “पुष्पवती” इत्याथर्वणमन्त्रेण पुष्पपूर्णो-
दककुम्भेन, तेनैव मन्त्रेण तत्कालसम्भृतफलपूर्णकुम्भेन, “आशुः
शिशान” इतित्सूक्तेन सर्वरत्नपूर्णकुम्भोदकेन “ये देवाः पुरः सद”
इति यजुषा कुशपञ्चपल्लवपूर्णोदककुम्भेन राजानमभिषिञ्चेत् ।
ततोऽन्य ऋग्वेदवित् ब्राह्मणो गोरोचनापिष्टेन “गन्धद्वाराम्” इति
मन्त्रेण राज्ञो मूर्द्धानं कण्ठं च संस्पृशेत् । ततो मुख्या ब्राह्मणक्ष-
त्रियवैश्यशूद्राः पतिव्रताः पुत्रवत्यो नार्यो मूर्द्धावसिक्ताद्याश्च
यथासम्भवं समुद्रादिनानातीर्थाहृतैर्जलैरभिषिञ्चेयुः । शूद्राद्या-
स्तूष्णीम् । तत्रामात्यमुख्याश्छत्रचामरवेत्रादीनि राजचिह्नान्यु-
हरेयुः । तत्र वन्दिनश्च स्तुतिं कुर्युः । ब्राह्मणा मन्त्रघोषं, वाद-
काः शङ्खभेर्यादिघोषं च कुर्युः । ततः सांवत्सरो मुख्यं सौवर्णं
कलशमादाय ततो गृहीतेन कुशोदकेन “सुरास्त्वाम्” इत्या-
दिभिर्विष्णुधर्मोत्तरोक्तैर्मन्त्रैरभिषिञ्चेत् । सकलमन्त्राभिषेचनान्ते
अवशिष्टं कलशजलं कलशेनैव सर्वं मूर्ध्नि न्यसेत् ।
तथा च विष्णुधर्मोत्तरे,
श्रीराम उवाच ।
मन्त्रेण येन दैवज्ञः कुर्याद्राज्ञोऽभिषेचनम् ।
तमहं श्रोतुमिच्छामि त्वत्तो वरुणनन्दन ॥
पुष्कर उवाच ।
शृणुष्वावहितो मन्त्रं राम कल्मषनाशनम् ।
येनाभिषिक्तो नृपतिश्चिरं यशसि तिष्ठति ॥
राज्ञोऽभिषेकशब्दान्ते दैववित् कुशवारिणा ।
कुर्यान्मन्त्रान्ते कलशं न्यसेत् ॥
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ।
आखण्डलोऽग्निर्भगवान् यमो वै निर्ऋतिस्तथा ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा ॥
रुद्रो धर्मो मनुर्दक्षी रुचिः श्रद्धा तु पार्थिव ।
भृगुरत्रिवसिष्ठश्च सनकश्च सनन्दनः ॥
सनत्कुमारश्च तथा भगवानथ चाङ्गिराः ।
पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः ॥
एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः ।
प्रभाकरा बर्हिषदो अग्निष्वात्तास्तथैव च ॥
क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः ।
एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह ॥
लक्ष्मीर्वैदी शची
६८ वीरमित्रोदयस्य राजनीतिप्रकाशे
कद्रूः क्रोधवशा प्राची विनता सुरभिस्तथा ।
एतास्त्वामभिषिञ्चन्तु कश्यपस्य प्रियाः स्त्रियः ॥
पत्नी तु बहुपुत्रस्य सपुत्रा या च भामिनी ।
समायात्वभिषेकाय विजयाय च पार्थिव ॥
कृशाश्वपत्नी च तथा सुप्रभा तु जया तथा ।
सुदर्शनस्तयोः पुत्रो विजयं च ददातु ते ॥
मनोरमा भानुमती विशाला या च बाहुदा ।
अरिष्टनेमिपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥
कृत्तिका रोहिणी देवी इला रुद्राणिरेव च ।
पुनर्वसुश्च पुष्यश्च तथाऽश्लेषा च पार्थिव ॥
मघा च फाल्गुनी पूर्वा उत्तरा च क्षितीश्वर ।
हस्तश्चित्रा तथा स्वाती विशाखा च तथा नृप ॥
अनुराधा तथा ज्येष्ठा मूलं च वसुधाधिप ।
आषाढा च तथा पूर्वा तथान्या चोत्तरा द्वया ॥
अभिजिश्च तथा श्रुत्या धनिष्ठा च तथैव च ।
तथा शतभिषा चैव पूर्वाभाद्रपदा च या ॥
उत्तरा रेवती राजन्नश्विनी भरणी तथा ।
एतास्त्वामभिषिञ्चन्तु सोमपत्न्यः समागताः ॥
मृगी च मृगमन्दा¹ च श्वेता भद्रासना हरिः ।
पूता च कपिला दंष्ट्रा सुरसा² सरसा तथा ॥
एताः पुलस्त्यपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ।
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री तथा शुकी ॥
पत्न्यस्त्वामभिषिञ्चन्तु अरुणस्यार्कसारथेः ।
१ मृगचर्मा इत्यपि पाठः ।
२ सुरभा सुलभा इत्यपि पाठः ।
विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ६९
आयतिर्नियतिश्चैव रात्रिर्निद्रा च पार्थिव ॥
एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः ।
उमा सेना शची चैव धूमोर्णा निर्ऋतिस्तथा ॥
गौरी शिवा च बुद्धिश्च वलया चैव नन्दना ।
आनृक्या च तथा ज्योत्स्ना या च देवी वनस्पतिः ॥
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ।
महाकालश्च कालश्च मन्वन्तरयुगानि च ॥
संवत्सराणि सर्वाणि तथा चैवायनद्वयम् ।
ऋतवश्च तथा मासाः पक्षा रात्र्यहनी तथा ॥
सन्ध्याश्च तिथयश्चैव मुहूर्त्ताः करणानि च ।
एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ॥
आदित्यश्चन्द्रमा भौमो बुधजीवासितार्कजाः ।
ग्रहास्त्वामभिषिञ्चन्तु राहुकेतू च पार्थिव ॥
स्वायम्भुवो मनुः पूर्वो मनुः स्वारोचिषस्तथा ।
औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥
वैवस्वतोऽथ सावर्णो दक्षब्रह्मसुतावुभौ ।
धर्मपुत्रो रुद्रपुत्रो रौच्यो भौसश्च यो मनुः ॥
एतं त्वांभीषंश्चन्तु मनवस्तु चतुर्दश ।
विश्वगुर्विश्वपश्चित्रः स्वचित्तैश्च शिखी विभुः ॥
मनोजवस्तथौजस्वी बलिरङ्गतिमान्तिकौ ।
वृषश्च ऋतधामा च दिविस्पृक् शुचिरेव च ॥
एते त्वामभिषिञ्चन्तु देवपालाश्चतुर्दश ।
रेवन्तश्च कुमारश्च तथावर्चाः कुमारकः ॥
वीरभद्रश्च नन्दी च विश्वकर्मा पुरोजवः ।
१ सुशान्तः सुसुखी इत्यपि पाठः ।
७० वीरमित्रोदयस्य राजनीतिप्रकाशे
एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः ॥
नासत्यौ देवभिषजौ भवेतां विजयाय ते ।
धरो रुद्रश्च सोमश्च आपश्चैवानलानिलौ ॥
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ महाप्रभाः ।
एते त्वामभिषिञ्चन्तु देवमुख्याः समागताः ॥
आत्मा ह्यायुर्मनो दक्षः पटुः प्राणस्तथैव च ।
हविष्यश्च गविष्ठश्च कृतः सत्यश्च पार्थिव ॥
अभिषिञ्चन्तु राजंस्त्वां देवा ह्याङ्गिरसो दश ।
क्रतुर्दक्षो वसुः सत्यः कालः कामो मुनिस्तथा ॥
धृतिमान्मनुजश्चैव रोचमानस्तथैव च ।
एते त्वामभिषिञ्चन्तु विश्वेदेवास्तथा दश ॥
अङ्गारकस्तथा शर्वो निर्ऋतिश्च तथा स्वरा ।
अजैकपादहिर्बुध्न्यः पुष्पकेतुस्तथा बुधः ॥
भरतश्च तथा मृत्युः कापालिरथ किङ्किणिः ।
एकादशैते रुद्रास्त्वामभिषिञ्चन्तु पार्थिव ॥
भुवनो भावनश्चैव सुजन्यः सुजनस्तथा ।
क्रतुः सुवर्णवर्णश्च व्यजश्च व्यसुतस्तथा ॥
प्रसवश्चाव्ययश्चैव दत्तश्च मनुजाधिप ।
एते त्वामभिषिञ्चन्तु भृगवो नाम देवताः ॥
मनो मरुच्च प्राणश्च नरोऽपानश्च वीर्यवान् ।
चित्तिर्हयो नयश्चैव हंसो नारायणस्तथा ॥
विधुश्चापि दिविश्रेष्ठस्तथान्यश्च जगद्धितः ।
एते त्वामभिषिञ्चन्तु साध्या द्वादश पार्थिव ॥
धाता मित्रोऽर्यमा पूषा शक्रोऽशो वरुणो भगः ।
त्वष्टा विवस्वान् सविता विष्णुर्द्वादशमः स्मृतः ॥
विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ७१
एते त्वामभिषिञ्चन्तु काश्यपादितिसम्भवाः ।
एकद्वित्रिचतुर्ज्योतिः पञ्चज्योतिस्तथैव च ॥
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ।
इन्द्रश्च गत्या दृश्यन्ते ततः प्रतिसकृत्तथा ॥
ऋतजित्सत्यजिच्चैव सुषेणः श्येनजित्तथा ।
अतिमित्रस्तथा मित्रः पुरुजिच्चापराजितः ॥
ऋतश्च ऋतवान् धाता वरुणो विधृतो ध्रुवः ।
विधारणो महातेजा वासवस्य परः सखा ॥
ईदृगन्यहशश्चैव एतादृगमिताशनः ।
क्रीडनश्च तथा शक्तिः सरभश्च महायशाः ॥
धातुरुग्रो मुनिर्भीमो ह्यभिमुक्तः क्षिपः सहः ।
द्युतिर्वपुरनाधृष्यो वासः कामो जयो विराट् ॥
एते त्वामभिषिञ्चन्तु मरुतश्च समागताः ।
देवा ह्येकोनपञ्चाशन्महाबलपराक्रमाः ॥
चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान् ।
ऊर्णायुरनघश्चैव उग्रसेनश्च वीर्यवान् ॥
धृतराष्ट्रश्च सोमश्च सूर्यवर्चास्तथैव च ।
दुराधस्तृणपः कीर्णिर्नन्दिश्चित्ररथस्तथा ॥
कलिश्चाप्याङ्गिरा राजन् पर्जन्यो नारदस्तथा ।
वृषपर्वा च हंसश्च तथा चैव हहा हूहूः ॥
विश्वावसुस्ताम्रकश्च तथा वसुरुचिश्च यः ।
एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवीपते ॥
आहूतयः शोभयन्त्यश्च वेगवत्यस्तथैव च ।
आच्युवत्यस्तथोजैश्च तथा वेकुरयः शुभाः ॥
बभ्रवश्चामृतरुचो सुवश्चैव रुचस्तथा ।
२ वीरमित्रोदयस्य राजनीतिप्रकाशे
भीरवः शोचयन्त्यश्च दिव्या ह्यप्सरसां गणाः ॥
एतास्त्वामभिषिञ्चन्तु कामिन्यस्तरुणप्रियाः ।
अनुत्तमा सुरूपा च सुकेशी च मनोवती ॥
मेनका सहजन्या च पर्णाशा पुञ्जिकस्थली ।
क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि ॥
प्रम्लोचाथाप्यनुम्लोचा रम्भा चैवोर्वशी तथा ।
पञ्चचूडा सामवती चित्रलेखा च पार्थिव ॥
मिश्रकेशी सुगन्धिश्च विद्युत्पर्णा तिलोत्तमा ।
अदृका लक्ष्मणा क्षेमा असिता रुचिका तथा ॥
सुव्रता च सुबाहुश्च सुगन्धा सुवपुस्तथा ।
पुण्डरीका सुदारा च सुराधा सुरसा तथा ॥
हेमा सरस्वती चैव कमला सूनृताऽभया ।
सुमुखी हंसपादी च वारुणी रतिलालसा ॥
एतास्त्वामभिषिञ्चन्तु राजन्नप्सरसः शुभाः ।
प्रह्लादश्च महातेजास्तथा राजन्विरोचनः ॥
बलिर्बाणस्तथान्ये च दितिपुत्राः समागताः ।
अभिषिञ्चन्तु दैत्याश्च दिव्येन ह्यम्भसा स्वयम् ॥
विप्रचित्तिमुखाः सर्वे दानवास्त्वां समागताः ।
अभिषिञ्चन्तु राजानं राज्यं कर्तुं सुसत्वराः ॥
हेत्यश्चैव प्रहेत्यश्च सलिलेन्द्रस्तथैव च ।
सुकेशी पौरुषेयश्च यज्ञहा पुरुषादकः ॥
विद्यत्सूर्यस्तथा व्यासो वधः श्वरसनस्तथा ।
एते त्वामाभिषिञ्चन्तु समागम्याथ राक्षसाः ॥
सिद्धार्थी मणिभद्रश्च सुमनो नन्दनस्तथा ।
कण्डूतिः पञ्चमश्चैव मणिमान् वसुमांस्तथा ॥
विष्णुधर्मोत्तरोक्ता अभिषेक मन्त्राः । ७३
सर्वानुभूतिः शङ्कुश्च पिङ्गाक्षश्चतुरस्तथा ।
यमो मन्दरसो भीमः पद्मचन्द्रः प्रभाकरः ॥
मेघवर्णश्च भव्यश्च प्रदोषश्च प्रभाकरः ।
भूतिमान् केतुमांश्चैव मौलिमांश्च सुदर्शनः ॥
श्वेतश्च विपुलश्चैव प्रद्युम्नश्च जयावहः ।
पद्मपक्षो वलाकश्च कुमुदश्च बलाहकः ॥
पद्मनाभः सुगन्धश्च सुवीरो विजयः कृतिः ।
पुर्णमासो हिरण्याक्षः शतजिह्वश्च वीर्यवान् ॥
एते त्वामभिषिञ्चन्तु राजवृद्धाश्च सत्तमाः ।
शङ्खः पद्मश्च राजेन्द्र मकरः कच्छपस्तथा ॥
महापद्मश्च नीलश्च खर्वः कुन्दो मुकुन्दकः ।
एते त्वामभिषिञ्चन्तु निधयस्तु समागताः ॥
छागलाश्चैकवक्त्राश्च ये च सूचीमुखा नृप ।
दुष्पूरणा विषादाश्च ज्वलनाङ्गारकास्तथा ॥
कुम्भमात्राः प्रतुण्डाश्च उपवीरा उलूखलाः ।
अकर्णाश्चक्रखण्डाश्च तथा ये पात्रपाणयः ॥
पांसवश्च वितुण्डाश्च निपुणाः स्कन्दनास्तथा ।
एतास्त्वामभिषिञ्चन्तु पिशाचानां तु जातयः ॥
ब्रह्मचर्ये स्थिता दान्ताः सर्वज्ञाः सर्वदर्शनाः ।
नानाप्रकारवचना नानाबाहुशिरोधराः ॥
चतुष्पथपुराट्टालशून्यालयनिकेतनाः ।
त्रिपुरारिं भवं देवं ये गता मनुजेश्वर ॥
ते त्वामद्याभिषिञ्चन्तु गणा भूतपतेः स्वयम् ।
महाकालं पुरस्कृत्य नरसिंहं च मातरः ।
सर्वास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥
१०
७४ वीरमित्रोदयस्य राजनीतिप्रकाशे
ग्रहः स्कन्दो विशाखश्च नैगमेयस्तथैव च ।
अभिषिञ्चन्तु राजंस्त्वां सर्वे स्कन्दग्रहा इमे ॥
डाकिन्यो याश्च योगिन्यः खेचर्यो भूचरास्तथा ।
सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर ॥
गरुडश्चारणश्चैव आरुणिश्च महाखगः ।
सम्पाती विनतश्चैव विष्णुर्गन्धकुमारकः ॥
एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते ।
अनन्तश्च महानागो वासुकिः शेषतक्षकौ ॥
सुपर्णारिश्च कुम्भश्च वामनोऽथाञ्जनोत्तमः ।
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥
एलापत्रश्च खण्डश्च कर्कोटकधनञ्जयौ ।
महाकर्णो महानीलो धृतराष्ट्रबलाहकौ ॥
कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ।
सोमनाथो दधिमुखः कालियः शालिंपिण्डकः ॥
बिल्वपादः पाण्डुरकनागश्चापूरणस्तथा ।
कपिलश्चाम्बरीषश्च कुमारश्चाप्यकच्छकः ॥
प्रह्लादः पुष्पदन्तश्च गन्धर्वश्च मनस्विकः ।
नहुषः खररोमा च शङ्खपालस्तथैव च ॥
पद्मश्च कुलिकश्चैव पाणिरित्येवमादयः ।
नागास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥
कुमुदैरावतौ पद्मः पुष्पदन्तोऽथ वामनः ।
सुप्रतीकोऽञ्जनो नीलः पान्तु त्वां सर्वतो द्विपाः ॥
पैतामहस्तथा हंसो वृषभः शाङ्करस्तथा ।
दुर्गासिंहश्च पान्तु त्वां यमस्य महिषासनम् ॥
उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिर्नृप ।
विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ७५
कौस्तुभः शङ्खराजश्च पान्तु त्वां सर्वतः सदा ॥
चक्रं त्रिशूलं वज्रश्च नन्दकोऽस्त्राणि चाप्यथ ।
सर्वे ऽभिषेकं दत्त्वा च दिशन्तु विजयं ध्रुवम् ॥
धर्मश्च व्यवसायश्च सत्यं दानं तपस्तथा ।
यशो यज्ञास्तथैवायुर्ब्रह्मचर्यं दमः शमः ॥
एते त्वामभिषिञ्चन्तु चित्रगुप्तश्च पार्थिव ।
दण्डः पिङ्गलकश्चैव मृत्युः कालान्तकावुभौ ॥
वालखिल्यास्तथा सर्वे भवन्तु विजयाय ते ।
दिग्धेनवश्चतस्रस्त्वां सुरभिश्च तथा नृप ॥
अभिषिञ्चन्तु सर्वाभिर्गोभिस्सार्द्धं नरेश्वर ।
वेदव्यासश्च वाल्मीकिः शमनोऽथ पराशरः ॥
देवलः पर्वतश्चैव दुर्वासा भागुरिः शुचिः ।
याज्ञवल्क्यः सजावालिर्जमदग्निः शुचिश्रवाः ॥
विश्वामित्रः स्थूलशिराश्च्यवनोऽत्रिर्विदूरथः ।
एकतश्च द्वितश्चैव त्रितो गौतमगालवौ ॥
शाण्डिल्यश्च भरद्वाजो मौद्गल्यो वेदवाहनः ।
बृहदश्वः कुविभवो जयजानुर्घटोदरः ॥
यवक्रीतोऽथ रैभ्यश्च आत्माधानश्च जैमिनिः ॥
ऋषिः सारङ्गवश्चैव तथागस्त्यो महातपाः ।
दुद्दुर्मुदुर्मिश्रश्चैव वृद्धबाहुर्महोदयः ॥
कात्यायनश्च कण्वश्च वलाकश्चेभनन्दनः ।
एते त्वामभिषिञ्चन्तु मुनयः पार्थिवोत्तम ॥
पृथुर्दिलीपो भरतो दुष्यन्तः शत्रुजिद्वली ।
मनुः ककुत्स्थश्चानेना युवनाश्वो जयद्रथः ॥
मान्धाता मुचुकुन्दश्च तथा राजा पुरूरवाः ॥
आयुश्च नहुषश्चैव ययातिरपराजितः ॥
इक्ष्वाकुश्च यदुश्चैव पूरुर्भूरिश्रवास्तथा ।
अम्बरीषश्च नाभागो बृहदश्वो महाहनुः ॥
प्रद्युम्नश्चाथ सुद्युम्नो भूरिद्युम्नश्च सृञ्जयः ।
एते चान्ये च राजानस्तव राजन् दिवं गताः ॥
समायान्त्वभिषेकाय विजयाय तथा श्रिये ।
पर्जन्याख्यास्तथा भूप मेघाः सर्वे समागताः ॥
द्रुमाश्चौषधयो रत्नं बीजानि विविधानि च ।
सर्वे त्वामभिषिञ्चन्तु राजराज्ये सुसत्त्वराः ॥
पुरुषश्चाप्रमेयात्मा महाभूतानि यानि च ।
पृथिवी वायुराकाशमापो ज्योतिस्तथैव च ॥
मनो बुद्धिस्तथैवात्मा अव्यक्तं च महीपते ।
एते त्वामभिषिञ्चन्तु समेता वसुधाधिप ॥
रुक्मभौमः शिलाभौमः पातालो नीलमृत्तिकः ।
पीतरक्तासिताश्चैव श्वेतभौमस्तथैव च ॥
एते त्वामभिषिञ्चन्तु विजयाय महीपते ।
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महर्जनः ॥
तपः सत्यं च राजेन्द्र विजयाय भवन्तु ते ।
जम्बूः शाकः कुशः क्रौञ्चः शाल्मलिद्वीप एव च ।
प्लक्षश्च पुष्करश्चैव स्वस्वाम्यं प्रदिशन्तु ते ॥
उत्तराः कुरवः पुण्या रम्या हैरण्वतास्तथा ।
भद्राश्वः केतुमालश्च वर्षश्चैव इलावृतः ॥
हरिवर्षः किम्पुरुषो वर्षो भारतसंज्ञकः ।
एते त्वामभिषिञ्चन्तु समेत्य वसुधाधिप ॥
इक्षुद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ।