वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 75, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्ता अभिषेक मन्त्राः । ७३
सर्वानुभूतिः शङ्कुश्च पिङ्गाक्षश्चतुरस्तथा ।
यमो मन्दरसो भीमः पद्मचन्द्रः प्रभाकरः ॥
मेघवर्णश्च भव्यश्च प्रदोषश्च प्रभाकरः ।
भूतिमान् केतुमांश्चैव मौलिमांश्च सुदर्शनः ॥
श्वेतश्च विपुलश्चैव प्रद्युम्नश्च जयावहः ।
पद्मपक्षो वलाकश्च कुमुदश्च बलाहकः ॥
पद्मनाभः सुगन्धश्च सुवीरो विजयः कृतिः ।
पुर्णमासो हिरण्याक्षः शतजिह्वश्च वीर्यवान् ॥
एते त्वामभिषिञ्चन्तु राजवृद्धाश्च सत्तमाः ।
शङ्खः पद्मश्च राजेन्द्र मकरः कच्छपस्तथा ॥
महापद्मश्च नीलश्च खर्वः कुन्दो मुकुन्दकः ।
एते त्वामभिषिञ्चन्तु निधयस्तु समागताः ॥
छागलाश्चैकवक्त्राश्च ये च सूचीमुखा नृप ।
दुष्पूरणा विषादाश्च ज्वलनाङ्गारकास्तथा ॥
कुम्भमात्राः प्रतुण्डाश्च उपवीरा उलूखलाः ।
अकर्णाश्चक्रखण्डाश्च तथा ये पात्रपाणयः ॥
पांसवश्च वितुण्डाश्च निपुणाः स्कन्दनास्तथा ।
एतास्त्वामभिषिञ्चन्तु पिशाचानां तु जातयः ॥
ब्रह्मचर्ये स्थिता दान्ताः सर्वज्ञाः सर्वदर्शनाः ।
नानाप्रकारवचना नानाबाहुशिरोधराः ॥
चतुष्पथपुराट्टालशून्यालयनिकेतनाः ।
त्रिपुरारिं भवं देवं ये गता मनुजेश्वर ॥
ते त्वामद्याभिषिञ्चन्तु गणा भूतपतेः स्वयम् ।
महाकालं पुरस्कृत्य नरसिंहं च मातरः ।
सर्वास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥
१०