वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 77, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ७५
कौस्तुभः शङ्खराजश्च पान्तु त्वां सर्वतः सदा ॥
चक्रं त्रिशूलं वज्रश्च नन्दकोऽस्त्राणि चाप्यथ ।
सर्वे ऽभिषेकं दत्त्वा च दिशन्तु विजयं ध्रुवम् ॥
धर्मश्च व्यवसायश्च सत्यं दानं तपस्तथा ।
यशो यज्ञास्तथैवायुर्ब्रह्मचर्यं दमः शमः ॥
एते त्वामभिषिञ्चन्तु चित्रगुप्तश्च पार्थिव ।
दण्डः पिङ्गलकश्चैव मृत्युः कालान्तकावुभौ ॥
वालखिल्यास्तथा सर्वे भवन्तु विजयाय ते ।
दिग्धेनवश्चतस्रस्त्वां सुरभिश्च तथा नृप ॥
अभिषिञ्चन्तु सर्वाभिर्गोभिस्सार्द्धं नरेश्वर ।
वेदव्यासश्च वाल्मीकिः शमनोऽथ पराशरः ॥
देवलः पर्वतश्चैव दुर्वासा भागुरिः शुचिः ।
याज्ञवल्क्यः सजावालिर्जमदग्निः शुचिश्रवाः ॥
विश्वामित्रः स्थूलशिराश्च्यवनोऽत्रिर्विदूरथः ।
एकतश्च द्वितश्चैव त्रितो गौतमगालवौ ॥
शाण्डिल्यश्च भरद्वाजो मौद्गल्यो वेदवाहनः ।
बृहदश्वः कुविभवो जयजानुर्घटोदरः ॥
यवक्रीतोऽथ रैभ्यश्च आत्माधानश्च जैमिनिः ॥
ऋषिः सारङ्गवश्चैव तथागस्त्यो महातपाः ।
दुद्दुर्मुदुर्मिश्रश्चैव वृद्धबाहुर्महोदयः ॥
कात्यायनश्च कण्वश्च वलाकश्चेभनन्दनः ।
एते त्वामभिषिञ्चन्तु मुनयः पार्थिवोत्तम ॥
पृथुर्दिलीपो भरतो दुष्यन्तः शत्रुजिद्वली ।
मनुः ककुत्स्थश्चानेना युवनाश्वो जयद्रथः ॥
मान्धाता मुचुकुन्दश्च तथा राजा पुरूरवाः ॥