वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 76, कुल 490 में से
संदर्भ में पढ़ें७४ वीरमित्रोदयस्य राजनीतिप्रकाशे
ग्रहः स्कन्दो विशाखश्च नैगमेयस्तथैव च ।
अभिषिञ्चन्तु राजंस्त्वां सर्वे स्कन्दग्रहा इमे ॥
डाकिन्यो याश्च योगिन्यः खेचर्यो भूचरास्तथा ।
सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर ॥
गरुडश्चारणश्चैव आरुणिश्च महाखगः ।
सम्पाती विनतश्चैव विष्णुर्गन्धकुमारकः ॥
एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते ।
अनन्तश्च महानागो वासुकिः शेषतक्षकौ ॥
सुपर्णारिश्च कुम्भश्च वामनोऽथाञ्जनोत्तमः ।
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥
एलापत्रश्च खण्डश्च कर्कोटकधनञ्जयौ ।
महाकर्णो महानीलो धृतराष्ट्रबलाहकौ ॥
कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ।
सोमनाथो दधिमुखः कालियः शालिंपिण्डकः ॥
बिल्वपादः पाण्डुरकनागश्चापूरणस्तथा ।
कपिलश्चाम्बरीषश्च कुमारश्चाप्यकच्छकः ॥
प्रह्लादः पुष्पदन्तश्च गन्धर्वश्च मनस्विकः ।
नहुषः खररोमा च शङ्खपालस्तथैव च ॥
पद्मश्च कुलिकश्चैव पाणिरित्येवमादयः ।
नागास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥
कुमुदैरावतौ पद्मः पुष्पदन्तोऽथ वामनः ।
सुप्रतीकोऽञ्जनो नीलः पान्तु त्वां सर्वतो द्विपाः ॥
पैतामहस्तथा हंसो वृषभः शाङ्करस्तथा ।
दुर्गासिंहश्च पान्तु त्वां यमस्य महिषासनम् ॥
उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिर्नृप ।