सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 73, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 73

विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ७१
एते त्वामभिषिञ्चन्तु काश्यपादितिसम्भवाः ।
एकद्वित्रिचतुर्ज्योतिः पञ्चज्योतिस्तथैव च ॥
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ।
इन्द्रश्च गत्या दृश्यन्ते ततः प्रतिसकृत्तथा ॥
ऋतजित्सत्यजिच्चैव सुषेणः श्येनजित्तथा ।
अतिमित्रस्तथा मित्रः पुरुजिच्चापराजितः ॥
ऋतश्च ऋतवान् धाता वरुणो विधृतो ध्रुवः ।
विधारणो महातेजा वासवस्य परः सखा ॥
ईदृगन्यहशश्चैव एतादृगमिताशनः ।
क्रीडनश्च तथा शक्तिः सरभश्च महायशाः ॥
धातुरुग्रो मुनिर्भीमो ह्यभिमुक्तः क्षिपः सहः ।
द्युतिर्वपुरनाधृष्यो वासः कामो जयो विराट् ॥
एते त्वामभिषिञ्चन्तु मरुतश्च समागताः ।
देवा ह्येकोनपञ्चाशन्महाबलपराक्रमाः ॥
चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान् ।
ऊर्णायुरनघश्चैव उग्रसेनश्च वीर्यवान् ॥
धृतराष्ट्रश्च सोमश्च सूर्यवर्चास्तथैव च ।
दुराधस्तृणपः कीर्णिर्नन्दिश्चित्ररथस्तथा ॥
कलिश्चाप्याङ्गिरा राजन् पर्जन्यो नारदस्तथा ।
वृषपर्वा च हंसश्च तथा चैव हहा हूहूः ॥
विश्वावसुस्ताम्रकश्च तथा वसुरुचिश्च यः ।
एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवीपते ॥
आहूतयः शोभयन्त्यश्च वेगवत्यस्तथैव च ।
आच्युवत्यस्तथोजैश्च तथा वेकुरयः शुभाः ॥
बभ्रवश्चामृतरुचो सुवश्चैव रुचस्तथा ।